________________
७६
अध्यात्मोपनिषत्प्रकरणम् तेनेति । ज्ञानक्रिययोरन्योन्यसहकारेण कार्यकारित्वेनेत्यर्थः । ये इत्यनिर्दिष्टनामानः, ज्ञानमात्राभिमानिनो ज्ञानमेव केवलं मुक्तिसाधनमिति भ्रमात्मकज्ञानशालिनः, क्रियया मुक्ताः- सत्क्रियानुष्ठानपराङ्मुखाः । ते- प्रक्रान्तवादिनः ज्ञानकर्मभ्यां भ्रष्टाः, सम्यक्रियापरिगतस्यैव ज्ञानस्य ज्ञानत्वमन्यथा तदज्ञानमेवेति ज्ञानित्वमात्मन्यारोपयन्तोऽपि ते ज्ञानभ्रष्टा एव, क्रियां तु नाऽभ्युपगच्छन्त्येवेति क्रियाभ्रष्टा इत्येवं ज्ञानक्रियाभ्रष्टाः । अतस्ते नास्तिका एव मन्तव्याः । अत्र- अस्मिन् विषये संशयः- सन्देहो न- नैव कार्यः ॥३.३८॥
न केवलं ते ज्ञानकर्मोभयभ्रष्टत्वात् स्वयमेवाऽधः पतन्ति, किन्तु मुग्धान् विप्रतार्य परानपि भवगर्ते पातयन्तीत्याशयेनाऽऽह -
ज्ञानोत्पत्तिं समुद्भाव्य, कामादीनन्यदृष्टितः ।
अपह्नवानैर्लोकेभ्यो, नास्तिकैर्वञ्चितं जगत् ॥३.३९॥ .. ज्ञानोत्पत्ति- 'मम सम्यग्ज्ञानमुत्पन्न'मित्येवं स्वस्य परान् प्रति उद्भाव्य- प्रकटीकृत्य; अन्यदृष्टितः कामादीन् लोकेभ्योऽपह्लवानैः, 'नाऽहं स्वार्थं कामादीन् सेवें, किन्त्वेभ्यः कामादिभ्यः परस्योपकारो भवतु इत्यभिप्रायेणैव कामादिसेवायां मामकी प्रवृत्ति'रिति कुहकवचनेन, लोकेभ्यः सकाशाद् 'लोकाः कामादिलोलुपं मां मा ज्ञासिषु'रित्यपहनुवानैर्नास्तिकैर्जगद्- मुग्धजनकदम्बकं वञ्चितं- मिथ्याभिनिवेशवशीकृतम् ॥३.३९॥
ननु ज्ञानिनोऽपि क्रियाया आवश्यकत्वे तस्या भूतोपमर्दनादिकमन्तरेणाऽसम्भविन्याः पापानुबन्धस्य सदनुष्ठानक्रोडीकृताया: पुण्यार्जकत्वस्य चाऽवश्यम्भावे, तेषां च कुशलाकुशलकर्मणामनियतविपाक समयतयाऽनल्पभवग्रहणानुभावत्वेन पुनरपि ससङ्गत्वात् संसरणमेव ज्ञानिनः प्राप्तम् । “असङ्गो ह्ययं पुरुष" [बृहदारण्यकोपनिषत् ४.३.१६] इत्यादिकं च स्तुतिमात्रमेवाऽऽपाद्येत, तादृशावस्थाविशेषस्य कदाप्यसम्भवादित्यत आह -
ज्ञानस्य परिपाकाद्धि, क्रियाऽसङ्गत्वमङ्गति ।
न तु प्रयाति पार्थक्यं, चन्दनादिव सौरभम् ॥३.४०॥ क्रिया- सत्पुरुषाचरितक्रियानुष्ठानलक्षणा, ज्ञानस्य- तत्त्वज्ञानस्य, परिपाकाद्- अनवरताभ्याससमासादितप्रकर्षकाष्ठा-निर्मूलितसङ्क्लेशजननस्वभावराग-शमेन्धनानलस्वभावद्वेषांद्यवस्थाविशेषाद्, हियतः, असङ्गत्वं- रागद्वेषमोहादिलक्षण-सहकारिसम्बन्धस्नेहापगमतोऽपूर्वकर्मबन्धकार्योपधानात्मकसङ्गविगमस्वभावमङ्गति- प्राप्नोति ।
"अज्ञानसलिलावसिक्तायामात्मभूमौ कर्मबीजं धर्माधर्माङ्करावारभते, न तु तत्त्वज्ञाननिदाघनिपीतसलिल तयोखराया"मिति परवचनमप्येनमर्थमनुवदति । एवं च ज्ञानिनः सत्क्रियानुष्ठानसद्भावेऽपि तादृशावस्थाविशेषयोगादसङ्गत्वं न दुरुपपादम् । न वा तादृशक्रियया भवपरम्परोपनिपात इति हृदयम् ।