________________
७५
क्रियायोगशुद्धिनामाऽधिकारः
यावदित्यवस्थाव्याप्तिमादर्शयति, यादृशीमवस्थामभिव्याप्य । समं- समकालं, यदा ज्ञानाभ्यासस्तदा सदनुष्ठानांभ्यासः, यदा च सदनुष्ठानाभ्यासस्तदा ज्ञानाभ्यास इत्येवं समकालम् । एतच्च क्षणसन्ततिरूपस्थूलकालमाश्रित्य, तेन ज्ञानक्रिययोर्भेदेनैकस्मिन् समये सहाभ्यासासम्भवेऽपि न क्षतिः । यदा क्रियानुष्ठानं तदा व्यक्त्या ज्ञानाभ्यासाभावेऽपि शक्त्या ज्ञानाभ्यासः समस्त्येव । एवं ज्ञानाभ्यासकालेऽपि शक्त्या क्रियाभ्यास इत्येवं वा तयोः समकालता ।। ___ अभ्यस्तौ- भूयो भूयः साम्मुख्यपद्धतिमुपगतौ, ज्ञानसत्पुरुषक्रमौ- ज्ञानं- तत्त्वज्ञान मिदं कर्तव्यमिदं न कर्तव्य'मित्यादिविवेकपरिज्ञानं वा । दर्शनस्य ज्ञानस्वरूपान्तर्भावाभिप्रायेण न पृथगुपन्यासः । सतामाप्तानां शिष्टानां पुरुषाणां तत्तत्सत्कर्मानुष्ठानलक्षणपुरुषकारशालिनां यः क्रम- आचारः स सत्पुरुषक्रमः, तौ न स्तः ।
तावत्- तदवस्थापर्यन्तं, पुरुषस्य- जीवस्य, इह- लोके, एतयो:- ज्ञानक्रिययोरेकोऽपि- अन्यतरोऽपि, न सिद्ध्यति- न मोक्षसाधनीभवति । तथा च मोक्षं प्रति तयोः समुच्चय आवश्यक इति भावः ॥३.३५॥
___ ज्ञानक्रिययोः सर्वावस्थासु परस्परसहकारित्वं, तेन च्छाद्मस्थिकस्य ज्ञानस्य क्रियासापेक्षत्वेऽपि 'ज्ञानिनो ज्ञानस्य न तत्त्व'मित्युक्तेरपि नाऽवकाश इत्याह -
यथा छाद्मस्थिके ज्ञान-कर्मणी सहकृत्वरे । . क्षायिके अपि विज्ञेये, तथैव मतिशालिभिः ॥३.३६॥
यथेति उभयाविवादप्रदर्शनाय । सहकृत्वरे- परस्परसहकारिणी । क्षायिके इत्यनन्तरं ज्ञानकर्मणी इत्यनुषञ्जनीयम् । तथैव- परस्परसहकारिणी एव । अन्यत् स्पष्टम् ॥३.३६।।
क्षायिकस्य ज्ञानस्य क्रियासङ्गतत्वं द्रढयति - - सम्प्राप्तकेवलज्ञाना, अपि यज्जिनपुङ्गवाः ।
क्रियां योगनिरोधाख्यां, कृत्वा सिद्ध्यन्ति नाऽन्यथा ॥३.३७॥ यद्- यस्मात् । जिनपुङ्गवा इति । रागद्वेषादीनन्तःशत्रूजितवन्त इति जिनास्तेषां पुङ्गवा:- प्रधाना इत्यर्थः । सम्प्राप्तकेवलज्ञाना अपि योगनिरोधाख्यां क्रियां कृत्वा सिद्धयन्ति- मुक्तिमुपयान्ति । अन्यथा- योगनिरोधलक्षणक्रियामन्तरेण, न सिद्धयन्तीत्यर्थः ॥३.३७॥
उक्तदिशा ज्ञान-क्रिययोरुभयोरपि मुक्तिमार्गत्वव्यवस्थितौ क्रियाऽपलापिनो नास्तिका एवेति निगमयति - ..
तेन ये क्रियया मुक्ता, ज्ञानमात्राभिमानिनः ।
ते भ्रष्टा ज्ञान-कर्मभ्यां, नास्तिका नाऽत्र संशयः ॥३.३८॥ १. 'तुल्यवद्' इति वाऽर्थः ।