________________
७४
अध्यात्मोपनिषत्प्रकरणम्
____ तत्प्रारब्धेतरादृष्टमिति । तस्य विदुषो यत् प्रारब्धं कर्म तद्भिन्नं यत् तस्य कर्म तदित्यर्थः । यदि ज्ञाननाश्यं- तत्त्वज्ञाननाश्यमिष्यते- भवताऽभ्युपगम्यते । लाघवेन- प्रारब्धेतरादृष्टनाशत्वस्य ज्ञानजन्यतावच्छेदकत्वकल्पनापेक्षया विजातीयकर्मनाशत्वस्य तत्त्वकल्पने लाघवेन, विजातीयं- क्रियानाश्यकर्मविजातीयं, तन्नाश्यं- ज्ञाननाश्य, तत्- कर्म, प्रकल्प्यताम्- अभ्युपगम्यताम् ॥३.३२।। एवं च स्वस्य यदभीष्टं सिद्ध्यति तदुपदर्शयति -
इत्थं च ज्ञानिनो ज्ञान-नाश्यकर्मक्षये सति ।
क्रियैकनाश्यकौघ-क्षयार्थं साऽपि युज्यते ॥३.३३॥ इत्थं चेति । ज्ञाननाश्यस्य कर्मणो विजातीयतयाऽभ्युपगमे सतीत्यर्थः । ज्ञानिन:- तत्त्वज्ञानवतः, ज्ञाननाश्यकर्मक्षये- ज्ञाननाश्यतावच्छेदकवैजात्यवत्कर्मक्षये, सति- ज्ञानेन जाते सति, क्रियैकनाश्यकौघक्षयार्थ- क्रियामात्रजन्यनाशप्रतियोगिकर्मसमूहविनाशार्थं, साऽपि- क्रियाऽपि, उपयुज्यते- ज्ञानिन: फलवतीत्यर्थः ॥३.३३।।
कस्यचिद् विजातीयस्य कर्मणो ज्ञानेन नाशः, तदन्यजातीयस्य कर्मणः क्रियया नाशं इति सर्वकर्मक्षयं प्रति न ज्ञानस्य न वा क्रियायाः सामर्थ्यमित्यशेषकर्मक्षयलक्षणा मुक्तिनँतयोरन्यंतरस्याऽपि जन्यतासमालिङ्गिता; तथाऽपि सर्वकर्मक्षयो नाम नैकः कश्चित् समस्ति, किन्तु तत्तत्कर्मविनाशा एव : समाहृताः सर्वकर्मक्षयतया व्यपदिश्यन्ते । इत्थं च कर्मक्षयसमूहलक्षणेऽशेषकर्मक्षये यावन्तः कर्मविशेषक्षया ज्ञानप्रभवास्तानाश्रित्य ज्ञानजन्यत्वं, यावन्तश्च कर्मविशेषक्षयाः क्रियाप्रभवास्तामाश्रित्य क्रियाजन्यत्वमिति कृत्वा ज्ञानक्रियोभयजन्यत्वं सर्वकर्मक्षये निर्वहति । एतावताऽत्र ज्ञानक्रियासमुच्चयवादः समीचीनतामञ्चतीत्याह -
सर्वकर्मक्षये ज्ञान-कर्मणोस्तत् समुच्चयः । . ,
अन्योन्यप्रतिबन्धेन, तथा चोक्तं परैरपि ॥३.३४॥ समूहिनः परस्परं भेदे सत्यपि स्वाभिन्नसमूहाभिन्नत्वादभेदोऽपीति ज्ञानजन्योऽपि कर्मक्षयः क्रियाजन्यकर्मक्षयत्वादभिन्न इति क्रियाजन्यः । एवं क्रियाजन्योऽपि ज्ञानजन्य इतिकृत्वा तयोरेककार्य प्रति कारणत्वतः सहकारित्वं घटते इति । तत्- तस्मात् कारणात्, सर्वकर्मक्षये- सर्वकर्मक्षयरूपमुक्तौ, ज्ञानकर्मणोरन्योन्य प्रतिबन्धेन- परस्परसहकारेण, समुच्चय:- समुदितरूपतया कारणत्वम् । उक्तार्थे परसम्मतिमुपनिबध्नाति - तथा चोक्तं परैरपीति ॥३.३४॥ . परवचनमेवोपनिबध्नाति -
"न यावत् सममभ्यस्तौ, ज्ञान-सत्पुरुषक्रमौ । एकोऽपि नैतयोस्तावत्, पुरुषस्येह सिध्यति" ॥३.३५॥