________________
अध्यात्मोपनिषत्प्रकरणम्
यथा तण्डुलस्य वर्म- तण्डुलोपरिव्यवस्थितमसारभूतं त्वग् मर्दनताडनादिकया क्रियया नश्यतिदूरीभवति, वितुषस्तण्डुलः सम्पद्यते । यथा ताम्रस्य- धातुविशेषस्य कालिका- कृष्णता, क्रिययाअग्निसन्तापनमृद्घर्षणादिलक्षणया, नश्यतीति पूर्ववत् । हे पुत्र!, तथा- तेन क्रियाविशेषाचरणलक्षणप्रकारेण पुरुषस्य- जीवस्य मलमविद्यालक्षणं, नश्यतीति क्रियासम्बन्धः ।।३.२१॥ ननु जीवोऽनादिकालीनेनाऽविद्यालक्षणेन मलेन सम्बद्धस्तस्याऽपनयनं दुःशकमित्यत आह - .
जीवस्य तण्डुलस्येव, मलं सहजमप्यलम् ।
नश्यत्येव न सन्देह -स्तस्मादुद्यमवान् भव" ॥३.२२॥ तण्डुलस्य तुषलक्षणं मलं सहजमप्यलम्- अत्यर्थं नश्यत्येव । तथा जीवस्य सहजमप्यविद्यामलमत्यर्थं नश्यत्येव । न सन्देहो- दृष्टानुसारिकल्पनविषयेऽस्मिन्नर्थे मनागपि सन्देहो नाऽस्त्येव । तस्मादसन्दिग्धत्वादात्ममलापनयनार्थमुद्यमवान्- यत्नवान् त्वं भव ॥३.२२॥ . ..
ननु सञ्चितादृष्टनाशार्थं ज्ञानिनः क्रियोपयुक्तेत्यत्र नासूरवचनं संवादकतयोपदर्शितम् । परमत्राऽविद्यामलापनयनं प्रतीयते क्रियया, नाऽदृष्टापनयनमिति कथं संवादनमित्यत आह -
अविद्या च दिक्षा च, भवबीजं च वासना ।
सहजं च मलं चेति, पर्यायाः कर्मणः स्मृताः ॥३.२३॥ कर्मैवाऽविद्यादिशब्दैर्गीयते । पर्याया एव अविद्यादिशब्दा इति युक्तमेव संवादनम् । पदार्थस्तु व्यक्त एव ॥३.२३॥
ननु "ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन!" [भ.गी. ४.३७] इत्यादिवचनाज्ज्ञानिनो ज्ञानेनैव निखिलकर्मणि विनष्टे रिक्तमिदमुच्यते "सञ्चितादृष्टनाशार्थं क्रियोपयोग" इत्यत आह -
ज्ञानिनो नाऽस्त्यदृष्टं चेद्, भस्मसात्कृतकर्मणः । . ,
शरीरपातः किं न स्या-ज्जीवनादृष्टनाशतः ॥३.२४॥ भस्मसात्कृतकर्मणो ज्ञानिनोऽदृष्टं नाऽस्तीति यदि, तदा जीवनादृष्टनाशत- आयुःकर्मनाशात् शरीरपातः किं न स्यात् ? शरीरस्थितिनिबन्धनस्याऽऽयुष्कर्मणो नाशाज्ज्ञानिनः शरीरपातः स्यान्न चैवमभ्युपगम्यते भवतेत्याशयः ॥३.२४।। अत्र परकीयाकूतमाशङ्क्य प्रतिक्षिपति -
शरीरमीश्वरस्येव, विदुषोऽप्यवतिष्ठते ।
अन्यादृष्टवशेनेति, कश्चिदाह तदक्षमम् ॥३.२५॥ १. भ्रान्तिरूपाऽविद्या वेदान्तमते, पुरुषस्य प्रकृतिविकारान् द्रष्टुमिच्छारूपा दिदृक्षा साङ्ख्यमते, भवबीजं संसारकारणरूपं शैवमते, अनादिक्लेशरूपा वासना सौगतमते, सहजं मलं योगदर्शने । अद्रष्ट-मायादिका अपि कर्मण एव पर्यायाः ।