________________
७१
क्रियायोगशुद्धिनामाऽधिकारः
नित्यज्ञानेच्छायत्नवत ईश्वरस्य प्रथमत एव जीवकक्षाविनिर्गतस्य स्वतोऽदृष्टं नाऽस्त्येव । एवमपि तस्य शरीरधारणं परानुग्रहार्थं दृश्यते । गृह्णाति चेश्वरोऽप्यन्तराऽन्तरा शरीरमिति । प्रमाणं चाऽत्र -
"यदा यदा हि धर्मस्य, ग्लानिर्भवति भारत! । अभ्युत्थानमधर्मस्य, तदाऽऽत्मानं सृजाम्यहम् ॥ परित्राणाय साधूनां, विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय, सम्भवामि युगे युगे ॥" [भ.गी.-४.७,८] इत्यादि वचनम् । कार्यमानं प्रत्यदृष्टस्य कारणत्वेनाऽदृष्टमन्तरेणेश्वरस्याऽपि शरीरं न सम्भवतीति यथा तदीश्वरशरीरेण यस्य जीवस्य सुखं यस्य जीवस्य च दुःखं परम्परया सम्पद्यते, तत्तज्जीवादृष्टवशेनेश्वरशरीरं भवति अवतिष्ठते च, सुखदुःखाद्युपभोगपरिपूर्त्यनन्तरं च जीवादृष्टनाशान्नश्यति चेति अन्यादृष्टवशेनेश्वरस्य शरीरमवतिष्ठते तथा विदुषोऽपि- ज्ञानिनोऽपि स्वीयनिखिलकर्मक्षयेऽप्यन्यादृष्टवशेन शरीरमवतिष्ठते इति कश्चिदाह तदक्षमम्- अयुक्तमित्यर्थः ॥३.२५।। तदयुक्तत्वोपपादनायाऽऽह -
शरीरं विदुषः शिष्या-द्यदृष्टाद् यदि तिष्ठति ।
तदाऽसुहृददृष्टेन, न नश्येदिति का प्रमा ? ॥३.२६॥ यदि शिष्याद्यदृष्टाद् विदुषः शरीरं तिष्ठति, तदाऽसुहृददृष्टेन- स्वशत्रुपुरुषादृष्टेन विदुषः शरीरं न नश्येदिति का प्रमा- कोऽत्र निर्णयः ? यथा शिष्यस्योपदेशदानादिजन्यफलसम्पादकतया तददृष्टवशाद् ज्ञानिनः शरीरमवतिष्ठते; तथा 'शत्रोस्तच्छरीरावस्थानेन दुःखं मा प्रसाङ्क्षी'दित्येतदर्थं शत्रुगतदुःखप्रतिबन्धकादृष्टवशेन ज्ञानिन: शरीरनाशोऽपि स्यात् । तदैवाऽवतिष्ठेत, तदैव च नश्येदित्यसमञ्जसमेव भवत्कल्पनया प्रसंक्तमिति भावः ॥३.२६।।
ज्ञानिनो ज्ञानेन सकलादृष्टनाशेऽप्यदृष्टस्थानीयाविद्यारूपोपादानाभावेऽप्युपादेयस्य ज्ञानिशरीरस्य कियत्कालावस्थानं न दुर्घटम् । यथा न्यायमते उपादाननाशजन्योपादेयनाशस्थले उपादाननाशोत्पत्तिकाले निरुपादानकस्यैवोपादेयस्याऽवस्थानम् । यथा च निरुपादानकमेकक्षणावस्थानमदुष्टं, तथा निरुपादानकं कियत्कालावस्थानमपि न दोषावहमित्याशयेन परः शङ्कते - ..
न चोपादाननाशेऽपि, क्षणं कार्यं यथेष्यते ।
तार्किकैः स्थितिमत् तद्व-च्चिरं विद्वत्तनुस्थितिः ॥३.२७॥ यथा तार्किकैः- नैयायिकैरुपादाननाशेऽपि- समवायिकारणनाशेऽपि, क्षणम्- उपादाननाशोत्पत्तिक्षणमात्रं, कार्य- समवायिकार्य स्थितिमदिष्यते । तद्वत्- तथा चिरं- ज्ञानोत्पत्त्यनन्तरक्षणादारभ्याऽऽशरीर. १. उपादाने विनष्टेऽपि, क्षणं कार्यं प्रतीक्षते ।
इत्याहुस्तार्किकास्तद्वदस्माकं किं न सम्भवेत् ? || पञ्चदशी - ६.५४ २. न्यायमते उपादेयरूपं कार्यं स्वावयवेषु तन्नामोपादानकारणे समवायाभिधेन सम्बन्धेन तिष्ठति, अत उपादानं तन्मते समवायिकारणं प्रोच्यते ।