________________
क्रियायोगशुद्धिनामाऽधिकारः
६९ ततः- तस्मात् कारणात्, गुणवृद्धयै क्रियां कुर्यात् । वा- अथवाऽस्खलनाय- उत्पन्नक्षायोपशमिक भावापतीय क्रियां कुर्यादिति सम्बन्धः । यतो जिनानामेकं- केवलं संयमस्थानमवतिष्ठते- क्षायिकत्वेन कदाचिदपि न प्रतिपतति । अन्यूनाधिकस्वभावतया सर्वदाऽवतिष्ठते एवेत्यर्थः । अतस्तद्भिन्नैरजिनैः प्राप्तसंयमस्थानवृद्ध्यादिकृतेऽवश्यं सत्क्रियायोग आदरणीय इत्याशयः ॥३.१८।। क्रियातो ज्ञानस्याऽज्ञाननाशकत्वेन विशेषोऽक्रियावादिनोऽभिमतस्तत्र स्वानुमत्युपदर्शनायोपदय॑ते –
अज्ञाननाशकत्वेन, ननु ज्ञानं विशिष्यते ।
न हि रज्जावहिभ्रान्ति-र्गमनेन निवर्तते ॥३.१९॥ नन्वित्यक्रियांवादिनः प्रश्नस्वरूपोपदर्शने । अज्ञाननाशकत्वेन- साक्षान्नाश्यनाशकभावलक्षणविरोधेन ज्ञानस्यैवाऽज्ञाननाशकत्वेन, ज्ञानं विशिष्यते- क्रियातो वैशिष्टयभाग् भवति । _ क्रियाया अज्ञाननिवर्तकत्वं नाऽस्तीति दृष्टान्तोद्भावनेन प्रकटयति - नहीति । हि- यतो रज्जावहिभ्रान्तिः- सर्पबुद्धिर्मण्डूकवशाञ्जितलोचनस्य गमनेन- तद्देशगमनेनाऽपि न निवर्तते ।
यद्दोषजनिता भ्रान्तिस्तदोषापनयनेन सम्यग्ज्ञानोत्पत्तौ सत्यामेव निवर्तते सा । तेन कस्यचिद् दूरत्वदोषत: समुज्जातायां रज्जावहिभ्रान्तौ तस्यास्तद्देशगमनेन समीपतापादनतो दूरत्वदोषापनयनेन निवृत्तावपि, तत्र दूरत्वदोषापनयने एव गमनक्रियाया व्यापारः, भ्रान्त्यपगमस्तु रज्जौ रज्जुबुद्धिलक्षणसम्यग्बुद्ध्यैवेति ध्येयम् ॥३.१९॥
अक्रियावाद्युक्तंमभ्युपेत्य समाधत्ते - . सत्यं क्रियाऽऽगमप्रोक्ता, ज्ञानिनोऽप्युपयुज्यते ।
सञ्चितादृष्टनाशार्थं, नासूरोऽपि यदभ्यधात् ॥३.२०॥ यथा भवतोक्तं तथा सत्यमेव । नैतावता क्रियाया वैफल्यम् । तस्या अज्ञाननिवृत्त्यसाधनत्वेऽपि सञ्चितादृष्टनाशकत्वेनोपयोगादित्याह - आगमप्रोक्तेति । आगमविहितेत्यर्थः । क्रिया- सम्यक्रिया ज्ञानिनो- अवाप्तज्ञानस्याऽपि । एतेनाऽप्राप्तज्ञानस्य चित्तशोधनद्वारा ज्ञानजनने क्रियाया उपयोगोऽवश्यमेवेति सूचितम् । उपयुज्यते- उपयोगिनी । किमर्थमित्यपेक्षायामाह - सञ्चितादृष्टनाशार्थमिति । _____ अत्र परसम्मतिमुपनिबध्नाति - नासूरोऽपि यदभ्यधादिति । नासूरनामा कश्चिद् योगविदग्रणी, यद्- यस्माद्, अभ्यधाद्- उक्तवान् ।।३.२०।। नासूरवचनमुट्टङ्कयति -
"तण्डुलस्य यथा वर्म, यथा ताम्रस्य कालिका ।
नश्यति क्रियया पुत्र!, पुरुषस्य तथा मलम् ॥३.२१॥ १. क्वचित् "०नाशार्थमासुरो" इति पाठः । तत्राऽऽसुरनामा महर्षिर्बोध्यः । २. क्वचित् "चर्मे"ति पाठः ।