________________
६७
क्रियायोगशुद्धिनामाऽधिकारः सिद्धान्ती समाधत्ते - - मैवं नाऽकेवली पश्यो, नाऽपूर्वकरणं विना ।
धर्मसंन्यासयोगी चे-त्यन्यस्य नियता क्रिया ॥३.११॥ एवम्- उक्तप्रकारकं प्रश्नवचनं मा, 'अ-मा-नो-ना प्रतिषेधवचना' इति कोषात्, न सम्भवतीति । यत इति दृश्यम् । यस्मादकेवली- केवलिभिन्नः कोऽपि पुरुषः पश्य:- पश्यको न- न भवतीत्यर्थः । तथा चाऽऽगमे "पश्यकस्योद्देशो ने"ति यदुक्तं तदस्माकमप्यनुमतमेव । सिद्धयोगस्तु तत्पूर्वावस्थो ज्ञानी न केवलीति तस्याऽऽगमे उद्देशः स्यादेवेति विधिनिषेधयोर्भाजनमयमपि स्यादेव ।
"कल्पातीतस्य मर्यादा नाऽऽस्ती"ति यदुक्तं तदप्यपूर्वकरणानन्तरं धर्मसंन्यासयोगिनं प्रत्येव कल्पातीतत्वाद् घटते । अपूर्वकरणं विना- अपूर्वकरणमन्तरेण ज्ञानी धर्मसंन्यासयोगी न भवति, नाऽत: स कल्पातीतः । इति हेतोः अन्यस्य- केवलि-धर्मसंन्यासयोगिभिन्नस्य ज्ञानिनः क्रिया नियतैवेति ॥३.११॥ भावस्य सिद्ध्यसिद्धिभ्यां क्रियाया अकिञ्चित्करत्वं यदुक्तं तत्प्रतिविधानायाऽऽह -
स्थैर्याधानाय सिद्धस्या-ऽसिद्धस्याऽऽनयनाय च ।
भावस्यैव क्रिया शान्त-चित्तानामुपयुज्यते ॥३.१२॥ सिद्धस्य भावस्य स्थैर्याधानाय, च- पुनः असिद्धस्य भावस्याऽऽनयनाय शान्तचित्तानां क्रियोपयुज्यते एवेत्यन्वयः । अर्थस्तु व्यक्त. एव ॥३.१२।। ___क्रियामुक्तस्य केवलस्य ज्ञानस्य राजयोगत्वं यदुक्तं तदपि तस्य फलासम्पादकत्वेन न सम्भवतीति सदृष्टान्तमुपदर्शयति -
- क्रियाविरहितं हन्त!, ज्ञानमात्रमनर्थकम् । ... गतिं विना पथज्ञोऽपि, नाऽऽप्नोति पुरमीप्सितम् ॥३.१३॥ हन्तेति खेदे । अहो मोहमाहात्म्यं ज्ञानवादिनो भवतो यल्लोकप्रतीतं पश्यन्नपि न पश्यतीति भवदज्ञानविजृम्भणं दृष्ट्वा परोपकारप्रणिहितमनसामस्माकं खेदो जायते इत्याशयः ।
क्रियाविरहितं ज्ञानमात्रमनर्थकम् । यतः पथज्ञोऽपि 'गन्तव्यस्येष्टपुरस्य गमनेऽयं मार्ग' इत्येवं जानन्नपि गतिं विना- उत्तरदेशसंयोगानुकूलक्रियां विना ईप्सितं- गन्तव्यतया स्वाभीष्टं पुरं- ग्राम नाऽऽप्नोति- न प्राप्नोति ॥३.१३|| ज्ञानपूर्णस्य क्रियाऽपेक्षणं दृष्टान्तान्तरेण समर्थयति –
स्वानुकूलां क्रियां काले, ज्ञानपूर्णोऽप्यपेक्षते । प्रदीपः स्वप्रकाशोऽपि, तैलपूर्त्यादिकं यथा ॥३.१४॥
१. स्वानुकूलां- स्वोचितभूमिकानुरूपाम् । स्वप्रकाशोऽपि- स्वकीयप्रकाशनक्रियायामन्यानपेक्षोऽपि ।