________________
६६
अध्यात्मोपनिषत्प्रकरणम् त्रिभिः पद्यैः परस्य शङ्कामुत्थापयति –
विधयश्च निषेधाश्च, नन्वज्ञाननियन्त्रिताः ।
बालस्यैवाऽऽगमे प्रोक्तो, नोद्देशः पश्यकस्य यत् ॥३.८॥ नन्विति प्रश्ने । आगमे- जैनराद्धान्ते । बालस्यैव- ज्ञानावस्थाविकलस्यैव । ज्ञानावस्थावैकल्यमेवाऽत्र बालत्वं, तेन वयोवृद्धस्याऽप्युक्तज्ञानवैकल्ये बालत्वमेव, बालस्याऽपि चोक्तज्ञानपरिणतौ नोक्तबालत्वमिति बोध्यम् । अज्ञाननियन्त्रिता- अज्ञानरूपाधिकारमासाद्य प्रवृत्ता, विधयश्च- विधायकवचनानि, निषेधाश्चनिषेधवचनानि, भवन्तीति क्रियाऽध्याहार्या । ____ यद्- यस्मात्, पश्यकस्य- ज्ञानिनो नोद्देशः प्रोक्तः । ज्ञानिनमुद्देश्य न विधिनिषेधवाक्यमुक्तम्, तस्य विधिनिषेधानधिकारित्वादित्यर्थः ॥३.८॥
अनवगतार्थज्ञापनाय च शास्त्रं प्रवर्तते, सिद्धयोगस्य तु सर्वमवगतमेवेति न तत्र शास्त्रव्यापार: साफल्यमञ्चतीत्याशयेनाऽऽह -
न च सामर्थ्ययोगस्य, युक्तं शास्त्रं नियामकम् । .
कल्पातीतस्य मर्यादा-ऽप्यस्ति न ज्ञानिनः क्वचित् ॥३.९॥ सामर्थ्ययोगस्य नियामकं शास्त्रं न च युक्तम् । नियमो हि 'इदमेव कर्तव्यमिदं च न कर्तव्यमस्मिन् कालेऽस्मिन् देशेऽस्यां चाऽवस्थाया'मित्यादिमर्यादारूप एव । ज्ञानिनस्तु .मर्यादाया एवाऽभावान्नियमस्वरूपाप्रतिलम्भान्नियामकं कथं शास्त्रं स्यादित्याह - कल्पातीतस्येति जिनकल्पस्थविरकल्पादिभेदभ्राजिष्णुकल्पसामान्यातीतस्य ज्ञानिनः क्वचित्- क्वचिदप्यर्थे मर्यादाऽपि 'इत्थं वर्तितव्यमित्थं न वर्तितव्य'मिति नियमोऽपि नाऽस्तीत्यर्थः ॥३.९॥ अकिञ्चित्करत्वादपि तस्य क्रिया न युक्तेत्याह -
भावस्य सिद्ध्यसिद्धिभ्यां, यच्चाऽकिञ्चित्करी क्रिया ।
ज्ञानमेव क्रियामुक्तं, राजयोगस्तदिष्यताम् ॥३.१०॥ . यच्चेत्यत्र चकारो वाकारार्थकः । तथा च वा- अथवा भावस्य- सम्यग्ज्ञानस्य सिद्धयसिद्धिभ्यामिति । सम्यग्ज्ञानं यद्यस्ति तदा तत एव निर्वाणस्य सम्भवादनर्थिका क्रिया । सम्यक्क्रियाया एव मुक्तिसाधनतयाऽभ्युपगन्तव्यतया क्रियायां सम्यक्त्वस्य सम्यग्ज्ञानसाहचर्येणैव सम्भवेन सम्यग्ज्ञानाभावे विद्यमानाया अपि क्रियायाः सम्यक्रियात्वाभावेन मुक्ति प्रत्यनङ्गत्वात् । सम्यग्ज्ञानभावे तु तत एव मुक्तिसम्भवे समीचीनाऽपि क्रियाऽन्यथासिद्धैवेत्युभयथाऽप्यकिञ्चित्करी क्रिया । तत्- तस्मात् क्रियामुक्तं ज्ञानमेव राजयोग इष्यताम् ॥३.१०।।
१. "उद्देसो पासगस्स नत्थि, बाले पुण निहे...." (-आचा० १.२.३.८२) । २. सामर्थ्ययोगस्वरूपावगमनार्थं दृश्यताम् योग०समु० - का. ५ । ३. सर्वेषां योगानामुत्तमो राजयोगः ।