________________
.
क्रियायोगशुद्धिनामाऽधिकारः
न केवलं ज्ञानयोगमात्रेण मुक्तिः, ज्ञानिनोऽपि क्रियामन्तरेण मुक्तेरनिष्पत्तेः । यथा हि ज्ञानस्याऽन्वयव्यतिरेकाभ्यां मुक्ति प्रति साधनत्वं गृह्यते तथा क्रियाया अपि । अन्वयव्यतिरेकयोरुभयत्र साम्येऽपि ताभ्यां ज्ञानस्यैव मुक्ति प्रति साधनत्वं गृह्यते, न क्रियाया इत्यस्य शपथप्रत्यायनीयत्वादतः क्रियायोगनिरुपणायोपक्रमते - .
यान्येव साधनान्यांदौ, गृह्णीयाज्ज्ञानसाधकः ।
सिद्धयोगस्य तान्येव, लक्षणानि स्वभावतः ॥३.१॥ ज्ञानसाधकः- पूर्वोक्तज्ञानस्वरूपसिद्ध्युत्पादनप्रवणः, आदौ- ज्ञानसिद्ध्युत्पत्तेः पूर्वं, यान्येव साधनानि- चित्तविशोधकोपायानि स्वाध्यायाभ्यसनादीनि, गृह्णीयात्- उपाददीत । तेषु साधनेषु शमदमादयोऽपि प्रविष्टाः । क्रियाऽपि सर्वाऽऽवश्यकी सन्निविष्टा । मनोगतकामादिसर्वभावपरिहरणमात्मस्वरूपमात्रे एव सन्तोषाभ्यसनं, दुःखेष्वागतेषु तत्साधनेषु चाऽनुद्विग्नभावेन वर्तनं, सुखेषु प्राप्तेषु तत्साधनेषु च समुत्सर्पत्सु स्पृहानाविष्करणं, रागभयक्रोधसाधनेषु समागतेष्वप्यवहेलनं, शुभाशुभयोरुपनिपातेऽपि स्वस्वभावाप्रच्यवनमित्यादिका सर्वा अपि क्रिया ज्ञानसिद्धयुपायसन्निविष्टा एव ।
ज्ञानसिद्ध्या सिद्धयोगदशामुपागतस्य सिद्धयोगस्य तानि साधनानि स्वभावतो लक्षणान्येव । पूर्वमसिद्धाया ज्ञानस्वरूपसिद्धेनिष्पत्तये तानि भवन्ति । सिद्धयोगावस्थायां च सिद्धस्य ज्ञानयोगस्य स्थैर्यार्थमेव तानीति ज्ञानिनोऽपि विहितक्रियाचरणं निषिद्धक्रियानाचरणं च स्वभावत एव प्रतिबद्धम् । अतो यत्र तानि न स्युः, स 'सिद्धयोग' इत्येवमपि ज्ञानविषयो न स्यादित्याशयः ॥३.१॥ उक्तार्थे आदराधानाय सम्मतिमुपनिबध्नाति -
अत एव जगौ यात्रां, सत्तपोनियमादिषु ।
यतनां सोमिलप्रश्ने, भगवान् स्वस्य निश्चिताम् ॥३.२॥ . यत एव ज्ञानसिद्ध्युत्पादकान्येव सिद्धयोगस्य लक्षणानि, अत:- अस्मात् कारणादेवेत्यर्थः । सोमिलप्रश्ने- सोमिलेन प्रश्ने कृते सति तदुत्तरं वितरीतुं, भगवान्- श्रीवर्धमानस्वामी सिद्धयोगः, स्वस्य निश्चिताम्- अवश्यकर्तव्यां सत्तपोनियमादिषु यतनां- तदाचरणप्रवृत्ति यात्रां- शिष्टाचारमार्गगमनलक्षणां जगौ- उक्तवान् ।
१. स्वभावत:- विनैवोपदेशस्मरणादिकं मोहविलयानुविद्धाद् दृढसंस्कारात् । २. भगवतीसूत्रम् - १८.१०.६४२.