________________
६४
अध्यात्मोपनिषत्प्रकरणम् स्वस्य कृतकृत्यतया तदाचरणतः प्रयोजनविशेषस्याऽऽत्मगतस्याऽऽप्रतिलम्भेऽपि, तदनाचरणे 'भगवता श्रीमहावीरेणैतन्नाऽऽचरितमतस्तन्मार्गानुसारिभिरस्माभिरप्यननुष्ठेयमेवैत'दिति व्यामोहतः शिष्यप्रशिष्यपरम्परायामुत्सन्नाचरणमेवाऽऽश्यकक्रियाकदम्बकं प्रसज्येतेत्येवमालोचयन् भगवान् महावीरो जगौ । ततो युक्तं ज्ञानसिद्धिनिबन्धनानां सिद्धयोगलक्षणत्वमिति ॥३.२।। अमुमर्थं परसम्मत्याऽपि द्रढयति -
अतश्चैव स्थितप्रज्ञ-भावसाधन-लक्षणे ।
अन्यूना-ऽभ्यधिके प्रोक्ते, योगदृष्ट्या परैरपि ॥३.३॥ अतश्चैवेति । अस्मात् कारणादेवेत्यर्थः । स्थितप्रज्ञभावसाधनलक्षणे इति । स्थितप्रज्ञस्य भावसाधनम्- उत्पत्तिजनकं लक्षणं- स्थितप्रज्ञस्वरूपावधारणचिह्नमेतदुभयमित्यर्थः । अन्यूनाभ्यधिके इति । न्यूनं चाऽभ्यधिकं च न्यूनाभ्यधिके, न न्यूनाभ्यधिके अन्यूनाभ्यधिके, समे इत्यर्थः । यदेव स्थितप्रज्ञस्य भावसाधनं, तदेव स्थितप्रज्ञस्य लक्षणम् । व्यक्त्या भिन्नत्वेऽपि जात्यैकत्वमेवेत्यर्थः । योगदृष्ट्यायोगस्वरूपनिरूपणसमाश्रयणेन । परैः- तीर्थान्तरीयैरपि, न त्वस्मदादिभिरेवेत्यर्थः । प्रोक्त इति - .
"स्थितप्रज्ञस्य का भाषा, समाधिस्थस्य केशव! ।। स्थितधीः किं प्रभाषेत, किमासीत व्रजेत किम् ? ॥ प्रजहाति यदा कामान्, सर्वान् पार्थ! मनोगतान् । .. आत्मन्येवाऽऽत्मना तुष्टः, स्थितप्रज्ञस्तदोच्यते ॥ दुःखेष्वनुद्विग्नमनाः, सुखेषु विगतस्पृहः । वीतरागभयक्रोधः, स्थितधीर्मुनिरुच्यते ॥ यः सर्वत्राऽनभिस्नेह-स्तत् तत् प्राप्य शुभाशुभम् । । नाऽभिनन्दति न द्वेष्टि, तस्य प्रज्ञा प्रतिष्ठिता ॥
. यदा संहरते चाऽयं, कूर्मोऽङ्गानीव सर्वतः ।। इन्द्रियाणीन्द्रियार्थेभ्य-स्तस्य प्रज्ञा प्रतिष्ठिता ॥" [भगवद्गीता - २.५४-५८]
इत्यादिवचनैरुपदर्शित इत्यर्थः ॥३.३।। यतश्च सिद्धयोगस्य ज्ञानिनः पूर्वावस्थायामिव तदानीमपि सम्यक्रियाचरणं स्वभावतो लक्षणमेव, ततस्तादृशक्रियाचरणाभावेऽज्ञानिनः सकाशात् तस्य व्यावृत्तिरपि दुर्घटा स्यादित्याह -
नाऽज्ञानिनो विशेष्येत, यथेच्छाचरणे पुनः ।
ज्ञानी स्वलक्षणाभावात्, तथा चोक्तं परैरपि ॥३.४॥ . ___ ज्ञानी सिद्धयोगो यथेच्छाचरणे- पेयापेय-भक्ष्याभक्ष्य-गम्यागम्यादि-विहित-निषिद्धविभागपरित्यागेन स्वेच्छयोन्मत्तवच्छास्त्रमर्यादामुल्लङ्घ्यैव स्वच्छन्दाचरणे यदि प्रवृत्तः स्यात्, तदा पुनः स्वलक्षणस्य