________________
६२
अध्यात्मोपनिषत्प्रकरणम्
उक्तपरमार्थे सति पावनानां भावना इत्थम्भूता समुल्लसति, तदुपदर्शनपरः क्वचनेत्यादिः । कलितः- प्राप्तो विविधबाह्यव्यापिकोलाहलौघव्युपरमो येन स तथा । तादृशो यः परमार्थः शुद्धचैतन्यलक्षणस्तस्मिन्निति कलितादेरर्थः । ____ क्वचनेत्यादि । क्वचन- कुत्राऽपि वस्तुनि किमपि मरणेष्टवियोगादिकं शोच्यं नाऽस्तिशोचनीयं न भवति । इष्टत्वानिष्टत्वप्रयोजकरागद्वेषादेः परौपाधिकत्वेन स्वाभाविकत्वाभावान्मोहादेरपि ममतानिबन्धनस्याऽपारमार्थिकत्वात् तन्निबन्धनस्य पुत्रकलत्रादीष्टसम्प्रयोगप्रभवसुखादेरनिष्टविप्रयोगनिबन्धनसुखादेश्चाऽतात्त्विकत्वात् तदुच्छेदेऽपीष्टवियोगाऽनिष्टसंयोगाभ्यां शुद्धचैतन्यलक्षणस्याऽऽत्मनो न किञ्चिदपचीयते इति शोकस्याऽभावादेव शोच्यं नाऽस्ति । ___तथा स्वभावतो दुःखाभावे दुःखनिदानमपि किमपि नाऽस्तीति मोच्यं- परिहरणीयमपि नाऽस्ति । स्वस्वरूपावाप्तिलक्षणानाबाधसुखसम्मुखस्य बाह्यविषयोपभोगादिजनितसुखनिःस्पृहत्वादेव च किमपि विधेयंपरलोकसुखफलमनुष्ठेयं न च समस्ति । तावतैव कृतकृत्यस्य स्तुत्यादिप्रसादितदेवाद्युपनीतफलप्रार्थनाभावादेव गेयं- स्तव्यं नैव समस्ति । दानफलानाकाङ्क्षणात् स्वस्वरूपचैतन्यव्यतिरिक्ते स्वस्वत्वाभावाच्च किमपि देयं- दातुं योग्यमपि नाऽस्तीत्यर्थः ॥२.६४॥ ..
यश्चैवंविधः कोऽपि पुरुषधौरेयस्तस्याऽवदाता कीर्तिः सकललोकव्यापिनीति ज्ञानयोगिनं. स्तुवन् ज्ञानयोगनिरूपणसमाप्तिमुपदर्शयति -
इति सुपरिणताऽऽत्मख्यातिचातुर्यकेलि- . र्भवति यतिपतिर्यश्चिद्भरोद्भासिवीर्यः । हर-हिमकर-हार-स्फारमन्दार-गङ्गा
रजतकलशशुभ्रा स्यात् तदीया यशःश्रीः ॥२.६५॥ इतिशब्दो ज्ञानयोगनिरूपणसमाप्तौ अनन्तरोपदर्शितयावद्विचारस्वरूपपरिग्रहे च । तथा चैवंप्रकारात्मस्वरूपैकतानविचारेण सुपरिणता- मोक्षसुखसमास्वादफलोन्मुखत्वेन परिपक्वतामिता, आत्मख्यातौआत्मस्वरूपपरिज्ञाने चातुर्य- नैपुण्यं, तदेव केलिरात्मख्यातिचातुर्यकेलियस्य स सुपरिणतात्मख्यातिचातुर्यकेलिः । ___ तथा चिद्भरोद्भासिवीर्यः, चित्- चैतन्यं, तत्र भरः- निर्भरस्तत्प्राधान्यं चैतन्यस्वरूपेऽत्यन्तसन्निवेशितपक्षपातत्वं, तेनोद्भासि- प्रकाशमानं वीर्यं यस्य स तथा, एवम्भूतो यो यतिपतिर्भवति, तदीयातत्सम्बन्धिनी यशःश्री:- कीर्तिलक्ष्मीः हरहिमकरहारस्फारमन्दारगङ्गारजतकलशशुभ्रा स्यात् । हरहिमकरादीनामत्यन्तशुभ्रत्वेन तदुपमिताया यश:श्रियोऽत्यन्तावदातत्वं प्रकटितं भवतीति ॥२.६५।।
॥ इति ज्ञानयोगशुद्धिनामा द्वितीयोऽधिकारः ॥
१. वृत्त्यन्तरेऽत्र "०बाह्यख्यातिलोला०" इति पाठः स्वीकृतः । अर्थस्त्वेवं दर्शितः - "अनुभूते नानाप्रकारौदयिकयश:कीर्त्यादिसंक्षोभसमूहविश्रामे परमार्थे सति" |