________________
ज्ञानयोगशुद्धिनामाऽधिकारः
तेन विशुद्धं - दोषसम्पर्कलक्षणाशुद्धिविगमतः सर्वथा परिशुद्धम् । एवंविधार्थपरिकल्पनायां कथञ्चिदर्थानुप्रवेशोऽप्यत्रीऽऽवेदितो भवति ।
चित्तं - चैतन्यमेकम् - उपाधिविकलं, प्रमाणं- स्वतः प्रकाशरूपत्वात् स्वप्रकाशे प्रमाणान्तरानपेक्षत्वात् प्रमाणम् । प्रामाण्यमप्यस्य स्वत एव गृह्यते, नाऽतः प्रामाण्यमप्यस्याऽन्येन प्रमाणेन व्यवस्थाप्यमत इदमेव ज्ञानयोगी प्राप्य हृष्यतीति भावः ॥२.६२॥
अन्यनयाप्रधृष्यत्वं निश्चयनयस्योपदर्शयन्नेव तन्नयावलम्बिनो ज्ञानयोगिनः प्रेक्षापूर्वकारित्वं सूचयति -
हरिरपरनयानां गर्जितैः कुञ्जराणां, सहजविपिनसुप्तो निश्चयो नो बिभेति ।
अपि तु भवति लीलोज्जृम्भिजृम्भोन्मुखेऽस्मिन्, गलितमदभरांस्ते नोच्छ्वसन्त्येव भीताः ॥२.६३॥
६१
अपरनयानां कुञ्जराणां- हस्तिनां गर्जितैः सहजविपिनसुप्तः - स्वाभाविकचैतन्यात्मस्वरूपरूपविश्रान्तिस्थानव्रनालम्बनोपजाता ऽऽयासवैमुख्यलक्षणस्वापाकलितो निश्चयो हरिः- निश्चयनयात्मा सिंहो नो बिभेति । यथा वनप्रसुप्तस्य सिंहस्य न हस्तिगर्जितैस्त्रासः, तथा निश्चयनयस्य नाऽन्यनयकल्पनासहस्रेणाऽपि स्वविषयेऽप्रामाण्यमित्युपनयः ।
अपि तु- किन्तु लीलोज्जृम्भिजृम्भोन्मुखेऽस्मिन्- निश्चयसिंहे भवति- सति गलितमदभरास्तेअपरनयात्मक हस्तिनो भीताः सन्तो नोच्छ्वसन्त्येवेति । प्रकृते लीला ऊहापोहसङ्घटितप्रमाणोपदर्शनं, तयोज्जृम्भिणी- प्रकाशमाना, जृम्भा - आत्मस्वरूपविचारणात्मिका जृम्भा, तदुन्मुखे - तत्परे इत्यर्थः । व्यक्तमन्यत् ॥२.६३॥
शुद्धचैतन्यस्वरूपात्मभावनापवित्रितचित्तस्य ज्ञानयोगिनो न किमप्यन्यत् करणीयं विद्यते
इत्युपदर्शयति –
कलितविविधबाह्यव्यापिकोलाहलौघव्युपरमपरमार्थे भावनापावनानाम् ।
क्वचन किमपि शोच्यं नाऽस्ति नैवाऽस्ति मोच्यं,
न च किमपि विधेयं नैव गेयं न देयम् ॥२.६४॥
भावनापावनानामित्यत्रैकदेशभावनायां कलितेत्यादेरन्वयें समासानिविष्टपदार्थसाकाङ्क्षतालक्षणासामर्थ्यतः 'समर्थः पदविधि' रिति लक्षणापेक्षितसामर्थ्याभावान्न समाससम्भव इति नाऽऽशङ्कनीयम् । भावनाया विषयनिरूप्यत्वान्नित्यसापेक्षत्वेन भवति वै नित्यसापेक्षेऽपि समास' इत्यनेन समासस्याऽनुमतत्वात् । अथवा भावनापावनानां कलितविविधबाह्यव्यापिकोलाहलौघव्युपरमपरमार्थे सति इत्येवमन्वयः । यद्वा १. क्रीडया विलासिनी या जृम्भा तया व्यात्तानने । २. एतादृशपरमार्थविषयिणी या भावना तया पावना
तात्पर्यपक्षे ।