________________
अध्यात्मोपनिषत्प्रकरणम् ___यास्यन्ति- शममेष्यन्ति । एवं तर्हि सर्वगुणविनाशे निर्गुणस्य द्रव्यस्य स्वरूपावस्थानासम्भवाच्छून्य त्वमेव माध्यमिकसम्मतं मुक्तिः प्राप्नोतीत्यत आह - स्थास्यन्ति क्षायिकाः परमिति । परं- केवलं घातिकर्मचतुष्टयात्यन्तविनाशाविर्भूतानि ज्ञानदर्शनचारित्रवीर्याणि तदानीमप्यवतिष्ठन्ते इत्यर्थः ॥२.५८।।
इत्थं यथाबलमनुद्यममुद्यमं च, कुर्वन् दशानुगुणमुत्तममान्तरार्थे ।
__ चिन्मात्रनिर्भरनिवेशितपक्षपातः, प्रातर्दुरत्नमिव दीप्तिमुपैति योगी ॥२.५९॥ __ इत्थमिति । उक्तप्रकारेणेत्यर्थः । यथाबलं- स्वशक्तिमनतिक्रम्य, आन्तरार्थे- अन्त:स्थितज्ञानादिविषये, दशानुगुणं- यस्यां दशायां यदयोग्यं यच्च योग्यं तद्विषयम्, उत्तम- परममुक्तेः साक्षात् परम्परया वा प्रयोजकम्, अनुद्यमम्- अयोग्यविषयकप्रयत्नपरिहरणम्, उद्यमं च- योग्यविषयकप्रयत्नं च कुर्वन् योगीप्रकृतत्वाद् ज्ञानयोगी, कीदृशः ? चिन्मात्रनिर्भरनिवेशितपक्षपातः सन्, चिन्मात्रे- शुद्धचैतन्यमात्रस्वरूपे आत्मनि निर्भरमत्यर्थं निवेशितो- विषयतया सन्निधायित: पक्षपात:- स्वाग्रहो येन स तथा, एवम्भूतः सन् प्रातर्दुरत्नमिव- प्रभातकालीनसूर्य इव, यथा प्रात:कालीनः सूर्यः क्रमेण प्रकृष्टतेजोरूपां दीप्तिमुपैति तथा दीप्ति- विशदालोकस्वभावां ज्ञानदीप्तिमुपैतीत्यर्थः ॥२.५९॥
सम्यग्बाह्याभ्यन्तरस्वरूपज्ञानवतो योगिनो बाह्येऽपि प्रवृत्तिर्ज्ञानस्वरूपदृष्ट्यैव । तावता चैतन्यस्वरूपे तस्य प्रवृत्तिर्न व्याहता, चिन्मात्रस्वरूपाभ्यासस्य सातत्येन स्वभावत एव निरन्तरतत्प्रवृतेः समुल्लासात् । चिन्मात्रपक्षपातरहितस्य तु व्यवहारमार्गाभ्यसनशीलस्य गुर्वाज्ञानिष्ठस्याऽपि शुद्धचैतन्यस्वरूपावधामलक्षणा प्रवृत्तिाहतैवेत्याह -
अभ्यस्यतु प्रविततं व्यवहारमार्ग, प्रज्ञापनीय इह सद्गुरुवाक्यनिष्ठः ।
चिद्दर्पणप्रतिफलत्रिजगद्विवर्ते, वर्तेत किं पुनरसौ सहजात्मरूपे ॥२.६०॥ इह- ज्ञानविचारे, प्रज्ञापनीयः- प्रज्ञापनायाः सदुपदेशलक्षणाया विनयादिगुणसम्पन्नत्वाद् योग्योऽन्तेवासी, सद्गुरुरप्रतारकत्वादिगुणसम्पन्नो हितोपदेशकः, तस्य वाक्यं- विहिताचरणनिषिद्धानाचरणादिप्रतिपादकवचोनिकुरम्बं, तस्मिन्निष्ठा- आस्था यस्य स सद्गुरुवाक्यनिष्ठः । एवम्भूतः सन् प्रविततंबहुविषयकरम्बितत्वादतिविस्तीर्ण व्यवहारमार्ग- सम्यग्व्यवहारमाधातुमलं व्यवहारोपबृंहणप्रवणं क्रियाद्यनुष्ठानम्, अभ्यस्यतु- यथावसरं स्वशक्तिमनतिक्रम्य भूयः करोतु ।। ___ असौ- व्यवहारमार्गाभ्यासावष्टब्धचित्तः प्रज्ञापनीयः, पुनः- चिन्मात्राभ्यासराहित्यात् पूर्वोक्तयोगिविलक्षणः, त्वर्थे विद्यमानस्य पुनःशब्दस्याऽन्यवैलक्षण्यावबोधकत्वात्, चिद्दर्पणप्रतिफलत्रिजगद्विवर्ते सहजात्मरूपे किं वर्तेत ? काकूक्त्या न वर्तेतैवेत्यर्थः ।
चिदित्यादि । चित् स्वस्वरूपं चैतन्यं, तदेव स्वच्छतया प्रतिबिम्बग्राहकत्वाद् दर्पणं, तत्र प्रतिफलन्प्रतिबिम्बभावमास्कन्दन् त्रिजगद्विवर्त:- त्रयाणां जगतां परिणामो यस्य तच्चिद्दर्पणप्रतिफलत्रिजगद्विवर्तम् । तस्मिन् सहजात्मरूपे- स्वाभाविकात्मस्वरूपे चैतन्ये, किं वर्तेत- किं परिनिष्ठितो भवेत् ? अपितु व्यवहारमार्गप्रतिकूलतया न तत्राऽऽस्थां विदधीतेति सम्मुखीनोऽर्थः ।