________________
ज्ञानयोगशुद्धिनामाऽधिकारः
हर्षदा इति पाठस्तु शोभनः । तत्रेयं भूतमाया ईदृशी - वक्ष्यमाणस्वरूपतयाऽन्येभ्यः सर्वेभ्य उक्तदृष्टान्तेभ्यश्च विलक्षणा । यतो या स्वनाशेन हर्षदा - शुद्धचैतन्यस्वरूपस्य ब्रह्मणः स्वरूपविश्रान्तिलक्षणसुखप्रदा । न ह्येवम्भूतो लोके कोऽपि परोपकारकः समस्ति, यः स्वनाशेनाऽन्यस्य हर्षदो भवेदित्यर्थः । अन्यत् सर्वं पूर्ववद् व्याख्येयम्ं ॥२.५५॥
सद्विकल्पैर्ब्रतादिभिः कामादिविकारलक्षणमलापनयनतश्चित्तशोधनं प्रतिज्ञातमधिकृत्याऽऽह व्रतादिः शुभसङ्कल्पो, निर्नाश्याऽशुभवासनाम् ।
दाह्यं विनैव दहनः, स्वयमेव विनङ् क्ष्यति ॥ २.५६ ॥
५७
व्रतादिः शुभसङ्कल्पोऽशुभवासनां निर्नाश्य स्वयमेव विनश्यति । यथा दहनो दाह्यं - सञ्चितकाष्ठादि भस्मसात् कृत्य दाह्यं विनैव - दाह्यस्याऽन्यस्याऽभावात् स्वयमेव विनंक्ष्यति विनाशप्रतियोगी भवति ।
उत्पन्नस्याऽग्नेः प्रतिक्षणं सक्रियतयाऽवयवानां संयोगविनाशादेव विनाशः । अन्यस्याऽग्नेर्दाह्यस्वरूपसत्ताधीनसत्तावतामवयवानामेवाऽनुत्पत्त्या तद्विलक्षणसंयोगानारम्भादेव । तथा प्रकृतेऽप्यशुभवासनापनयनार्थमेव शुभसङ्कल्पादरस्तदभावे तस्याऽप्यपूर्वस्याऽनारम्भादारब्धस्य च तस्य स्वविनाश्यविनाशनेन निष्पन्नप्रयोजनतया यावन्नियमितावस्थानं प्रपूर्य ततः परमवस्थानस्वभावाभावादेव विनाश इति ॥२.५६॥
यत एव स्वत एव शुभसङ्कल्पो विनश्यति, तत एव तन्नाशार्थं न प्रयत्नविशेषो नाऽपि तज्जनिता काचिच्चेष्टाऽपि योगिनामुपयोगिनी । यतस्तद्विनाशार्थमप्यपरः प्रयत्नविशेषः चेष्टाविशेषो वाऽऽदरणीयः, एवं तन्नाशार्थमपीत्येवमनवस्थाकदर्थनया स्वस्वरूपाविर्भावः कदाऽपि न सम्पद्यते इति प्रसङ्गः स्यादित्याहइयं नैश्चयिकी शक्ति - र्म प्रवृत्तिर्न वा क्रिया । शुभसङ्कल्पनाशार्थं, योगिनामुपयुज्यते ॥२.५७॥
स्वत ं एव विनाशजननलक्षणा शक्ति:- शुभसङ्कल्पगतसामर्थ्यं, नैश्चयिकी - निश्चयनयनिर्णी । अत एव व्यवहारेणाऽत्राऽन्यथाभावो न शङ्कनीयः, अन्यनयविषयेऽन्यनयस्य कुण्ठत्वात् ।
ततः किमित्याह- न प्रवृत्तिरिति । शुभसङ्कल्पनाशार्थमित्यस्याऽत्राऽन्वयः, क्रियायामपि । शुभसङ्कल्पनाशार्थमान्तरप्रयासात्मिका प्रवृत्तिर्योगिनां नोपयुज्यते । तथा बाह्यशुभाचरणादिचेष्टालक्षणा क्रियाऽपि नोययुज्यते इत्यर्थः ॥२.५७॥
न केवलं शुभसङ्कल्परूपव्रतादेरेव विनाशः । अपित्ववस्थाविशेषे क्षमादिगुणांनामपि विनाश इत्याह द्वितीयापूर्वकरणे, क्षायोपशमिका गुणाः ।
क्षमाद्या अपि यास्यन्ति, स्थास्यन्ति क्षायिकाः परम् ॥२.५८॥
-
१. वृत्त्यन्तरे शुभोपयोगनाशकत्वसामर्थ्यवती योगिनामात्मगता नैश्चयिकी शक्तिरङ्गीकृता । तच्चिन्त्यम् । शुभोपयोगस्य स्वत एव विनाशस्याऽनन्तर श्लोके एव प्रतिपादितत्वात् ।