________________
अध्यात्मोपनिषत्प्रकरणम् ____ तद्गोचरीभवनमेव तत्प्राप्तिः । ब्रह्म च पूर्वमपि सत्तया प्राप्तमेव । तथाऽप्यखण्डाकारवृत्त्यवच्छिन्नचैतन्यलक्षणा विद्याऽपि स्वोपाधिभूतवृत्तेर्मायाजन्यत्वतो मायाजन्या भवति । तत्त्वेन मायापरीणामत्वान्मायाऽपि सा । सा च सर्वदोषापहारिणी । विद्ययाऽविद्याया निवृत्तौ तदुपादानकानां कामक्रोधादिदोषाणां मूलत एवोच्छेदादतो युक्तमस्याः सर्वदोषापहारकत्वमिति ॥२.५३।।
पूर्वोत्तराविद्यावस्थयोर्भेदेऽप्याविद्यकत्वेन साजात्यं समस्ति । सजातीयस्य सजातीयनाशकत्वमन्यत्राऽपि समस्ति । तावन्मात्रेणेयमपि कल्पना नाऽदृष्टचरी । साजात्ये च भेदो नाऽन्तर्भावनीय इति स्वस्याऽपि स्वसजातीयत्वं सम्भवत्येव । तेन चरमवृत्तेः स्वनाशकत्वेऽपि कथञ्चिदुपदर्शितदृष्टान्तसंवादितं भवतीत्याशयेनाऽऽह -
शाम्यतीति । अस्त्रं नागास्त्राऽऽग्नेयास्त्रादिकमस्त्रेण गारुडवारुणाद्यस्त्रेण शाम्यति- विनश्यति । तेषामस्त्रत्वसामान्येन सजातीयत्वात् ।
मलेनोखरभूविकारभूतमृत्तिकाविशेषेण, मलो- वस्त्राद्यत्यन्तसंयोगमापनो मालिन्यापादको रजोविशेषः, क्षाल्यते- दूरीक्रियते । तयोरपि भूविकारत्वेन मलत्वेन साजात्यात् ।
विषं- सर्पादिदंशप्रभवं देहाद्यङ्गप्रत्यङ्गव्यापि गरलं, विषेण- शोधितविषविशेषादिना, शमंविनाशमेति- प्राप्नोति, अत्राऽपि विषत्वेन साजात्यमस्ति ।
रिपुणा- शत्रुणा, रिपुः- प्रतिपक्षभूतो जन्तुः, हन्यते- वियोजितप्राणः क्रियते । तयोरपि रिपुत्वेन सजातीयत्वं समस्ति ॥२.५४॥ ____ दृष्टान्ते सर्वत्र प्रतिपक्षभाव एव विनाश्यविनाशकतया सम्प्रतिपन्नयोः संजातीयत्वे सत्यपि शक्ति विशेषसहकारेणाऽभीष्टविनाशनिमित्तभावमाकलयति । दार्टान्तिके च माया स्वविनाशमेव स्वोपाध्यवच्छिन्नस्य चैतन्यस्य स्वात्मकोपाधिविगमतः स्वकृतविकारजालात्यन्तोन्मूलनतः स्वरूपावस्थानलक्षणानन्दसुखाविर्भावकत्वेनेष्टमाकलयन्ती स्वात्मानमेव विनाशयति । न चित्रमत्राऽघटितघटनापटीयस्यां मायायामित्याह - ईदृशीति ।
'हर्षद' इति पाठे, मदुपदिश्यमानवचनशुश्रूषाप्रवणचित्तत्वेनोपदिष्टाखिलपदार्थयथार्थज्ञानवत्त्वस्य स्वात्मन्याविष्करणेन तत्प्रभवविनयादिमत्त्वेन चाऽत्राऽधिकारिणि योग्ये ममोपदेशः सर्वथा साफल्यमञ्चतीति ज्ञानजन्यस्याऽऽनन्दस्य प्रदानात् हे हर्षद!- राम! ।
येयं सर्वव्यापकत्वात् पुरः परिदृश्यमानेन भूतमाया- भूतसमष्ट्युपादानभूता माया । भूतपदं भौतिकादेरप्युपलक्षणम् । स्वनाशेन- स्वनाशोत्पादनेन, ईदृशी- दृष्टान्तदृष्टस्वसजातीयनाशकत्वलक्षणसम्पन्ना । साजात्ये भेदाप्रवेशात् स्वस्मिन्नपि स्वसजातीयत्वं समस्तीत्युक्तमेव ।
अस्या- मायायाः, स्वभावोऽनिर्वचनीयकार्यार्जकत्वादिलक्षण आवरणविक्षेपशक्त्यादिरूपो वा, न लक्ष्यते- न स्पष्टं प्रतिभासते । यत इयं प्रेक्ष्यमाणैव- अधिष्ठानभूतचैतन्यभिन्नतयाऽवलोक्यमानैव, नश्यति- स्वविरोधिस्वपरिणामस्वरूपाखण्डाकारवृत्तितो निवृत्तिमुपयातीत्यर्थः । .