________________
ज्ञानयोगशुद्धिनामाऽधिकारः
नाश्यते- तदधिकरणक्षणत्व-तत्पूर्वाधिकरणक्षणत्वान्यतरव्याप्यसत्ताको भवति । तेनाऽविद्यानाशस्याऽखण्डाकारवृत्त्योत्पादाभ्युपगमे तेनैव सद्वयत्वं ब्रह्मणः स्यादिति वेदान्त्यभिमतब्रह्मवादसङ्गमनमत्र नैश्चयिक विचारे न स्यादित्युक्तेनाऽवकाशः । अविद्यानिवृत्त्यतिरिक्तद्वैतविगमेनैवाऽद्वैतं ब्रह्मवादिनोऽभिमतमित्यतिरिक्ताविद्यानिवृत्तेर्भावेऽपि न ब्रह्मवादहानिरित्याश्रयणे तु नाश्यते इत्यस्य नाशप्रतियोगिताश्रयो भवतीत्यर्थकरणेऽपि न क्षतिः ।
ननु परिणामपरिणामिनोरभेदान्नाशकतयाऽभिमतो विकल्पोऽपि मायैव कथं स्वनाशकः ? नहि स्वस्य स्वनाशकत्वं क्वचिद् दृष्टमित्यत आह - अवस्थान्तरभेदेनेति । विचित्रशक्तिर्हि माया । सैकेनाऽवस्थालक्षणशक्तिस्वरूपेण स्वस्वरूपं विस्तारयति, नानास्वरूपवती भवति । तच्च स्वरूपमतिमलीमसत्वान्महामोहप्रागल्भ्यविजृम्भितमेवेति ततो विस्तृतैव माया भवति । अन्येन चाऽतिविशुद्धेन परिशोधितचित्तसमुद्गतेनाऽवस्थान्तरलक्षणशक्तिस्वरूपेण स्वस्वरूपं सङ्कोचयति- सर्वथा विलीनं भवति । एतदेवाऽन्यतोऽस्या वैलक्षण्यं, यतः स्वत एवाऽऽविर्भवति, स्वत एव च विनश्यति स्वस्मिन् । अस्य च ब्रह्मणो निर्विकारतया सर्वदाऽवस्थितत्वेन तदत्पादकत्वनाशकत्वासम्भवात् । ब्रह्मव्यतिरिक्तस्य च सर्वस्य मायिकत्वेन मायात्वमेव । तत्र कस्याऽपि तन्नाशकत्वे मायैव मायानाशकृदित्यकामेनाऽप्यभ्युपगतमेव स्यादित्यभिसन्धिः ।
अवस्थान्तरभेदेन मायाया मायानाशकत्वं योगवासिष्ठादौ परेणाऽप्युररीकृतमिति दर्शयति - परैरपीति ॥२.५२॥ परवचनात्मकमेव पद्यत्रयं योगवासिष्ठगतमुपनिबध्नाति -
"अविद्ययैवोत्तमया, स्वात्मनाशोधमोत्थयो । विद्या सम्प्राप्यते राम!, सर्वदोषापहारिणी ॥२.५३॥ शाम्यति शस्त्रमस्त्रेण, मलेन क्षाल्यते मलः । शमं विषं विषेणैति, रिपुणा हन्यते रिपुः ॥२.५४॥
ईदृशी भूतमायेयं, या स्वनाशेन हर्षदा । . न लक्ष्यते स्वभावोऽस्याः, प्रेक्ष्यमाणैव नश्यति" ॥२.५५॥ [४.४१.१३-१५] तत्र प्रथमे - हे राम! स्वात्मनाशोद्यमोत्थयोत्तमयाऽविद्ययैव सर्वदोषापहारिणी विद्या सम्प्राप्यते इत्यन्वयः । माया-ऽविद्ययोरेकत्वान्मायया मायानाशेऽविद्ययाऽविद्यानाश इति प्रतिपादकवचनस्य संवादित्वं स्यादेवेति बोध्यम् ।
न चाऽत्र पद्ये मायाव्यतिरिक्तैवाऽविद्याऽभिलाप्येति शङ्कनीयम् । "ईदृशी भूतमायेय"मिति तृतीयपद्ये मायापदेन पूर्वोपदर्शिताविद्याया एवाऽऽमेडनात् । ___ स्वात्मनाशोद्यमश्चाऽविद्यायाः शमदमादिचित्तशोधनद्वारा श्रवणमनननिदिध्यासनलक्षणसहकारिसम्पादनं, तदुत्थया- तज्जन्यया, उत्तमया- शुद्धचैतन्यलक्षणनिर्विकल्पकब्रह्मविषयकत्वलक्षणोत्तमत्ववत्या, अविद्ययाअविद्यापरिणामत्वेनाऽविद्यारूपया शुद्धचैतन्याकारवृत्त्या, विद्या- शुद्धचैतन्यस्वरूपं ब्रह्मैव सम्प्राप्यते ।
१. "द्यमेच्छया विद्या सा प्रार्थ्यते राम" - यो.वा.-४.४१.१३ । २. "०शी राम! माये०" - यो.वा.-४.४१.१५ ।