________________
अध्यात्मोपनिषत्प्रकरणम्
श्रुतवतो भक्ष्याभक्ष्य-पेयापेय-गम्यागम्यादिभेदज्ञानविरहिणोऽविशेषेण सर्वत्र प्रवर्तमानस्याऽभक्ष्यभक्षणाऽपेयपाना-ऽगम्यागमनादि-निषिद्धकर्मानुष्ठानतत्परस्य यथेष्टाचरणतो महानरकपातो ध्रुवमेवेति ॥२.५०॥ अत्यन्तपक्वबोधतारूप-श्रवणाधिकारिविशेषणनिष्पत्तिर्यथा भवति तथोपदर्शयति -
तेनाऽऽदौ शोधयेच्चित्तं, सद्विकल्पैर्वतादिभिः ।
यत् कामादिविकाराणां, प्रतिसङ्ख्याननाश्यता ॥२.५१॥ यतोऽशोधितचित्तस्य ब्रह्मगतसर्वतादात्म्यश्रवणतोऽनर्थ एव, तेन- तस्मात् कारणादित्यर्थः । आदौशुद्धात्मस्वरूपब्रह्मोपदेशात् पूर्वं तादृशब्रह्मश्रवणाधिकारितानिष्पत्तये, चित्तम्- अन्तःकरणं, शोधयेत्अश्रद्धाऽज्ञानयथेष्टाचरणादिसमीहादिमलविगलितं कुर्यात् ।
केनोपायेन तथा स्यादित्यपेक्षायामाह - सद्विकल्पैरिति । शुद्धाध्यवसायैरित्यर्थः । न केवलं ज्ञानेनैव सम्पूर्णतया चित्तमलापनयनं शक्यं विधातुमत उपायान्तरमाह - व्रतादिभिरिति । व्रतानि महाव्रतानि प्राणातिपातविरमणादीनि पञ्चाऽनगारिण आगारिणश्च देशव्रतानि । आदिपदात् शमाद्युपग्रहः । तैरित्यर्थः । अथवा व्रतादिभिरित्यस्यैव सद्विकल्पैरिति विशेषणम् । शोभनानुष्ठानादिसत्प्रकारैरिति तदर्थः । __ व्रतादीनां चित्तशोधकत्वे हेतुमाह - यदिति । यस्मात् कारणादित्यर्थः । कामादिविकाराणांकामक्रोधलोभमोहाद्यात्मकचित्तविकाराणां, प्रतिसङ्ख्याननाश्यता- प्राणातिपाताद्यशुभानुष्ठाननिवृत्तिग्रहणलक्षणप्रत्याख्यानं, तन्नाश्यतेत्यर्थः । 'सद्विकल्पै'रित्यस्य 'शुभाध्यवसायै' रित्यर्थे च प्रतिसङ्ख्यानमशुंभाध्यवसायप्रतिपक्षभूतशुभाध्यवसायपरिशीलनं, विशिष्टशुभाध्यवसायेन सत्तर्कादिप्रवृत्तेनाऽऽरोपिताशुभाध्यवसायस्य महामोहविजृम्भितस्य समूलमुन्मूलनादिति बोध्यम् ॥२.५१॥ ___ महामोहश्चाऽविद्या-माया-प्रकृत्यादिशब्देन व्यपदिश्यते । तस्य नाशे तन्मूलकानां कामादीनां नाशोऽयत्नोपनत एव, बीजाभावेऽङ्कुरासम्भवादतो मायास्वरूपमोहस्य भावनादिविलक्षणसहकारिप्रभावितस्वपरिणामविशेषशुभोपयोगलक्षणविकल्पनाश्यत्वमुपपादयति -
विकल्परूपा मायेयं, विकल्पेनैव नाश्यते ।
अवस्थान्तरभेदेन, तथा चोक्तं परैरपि ॥२.५२॥ विकल्परूपेति । असदावेशनिबन्धनत्वादनल्पकल्पनाजालसमर्पकत्वाद् विचारतोऽनुपपद्यमानत्वाच्चित्तविक्षेपायुपनिबन्धनत्वादिन्द्रजालिकनिर्मितेन्द्रजालवत् स्फुटस्वरूपतयाऽवभासमानत्वाच्चेयं माया विकल्परूपा निर्विकल्पशुद्धचैतन्यलक्षणात्मब्रह्मव्यतिरिक्तस्वभावा । विकल्पेनैव- स्वपरिणामभूतेन "एकमेवाऽद्वितीयं ब्रह्मे"त्यादिवाक्यजाखण्डाकारवृत्तिलक्षणपरिणामेनैव । अत्र विकल्पपदं परिणामपरं, तेनाऽखण्डाकारवृत्तेनिर्विकल्पकत्वेऽपि न क्षतिः ।
१. वृत्त्यन्तरे नाशकविकल्परूपेण नाशकाविद्यारूपेण च शुभोपयोगपरिणाम एवाऽभिमतः, न त्वत्र दर्शितः शुद्धोपयोगपरिणामः ।