________________
ज्ञानयोगशुद्धिनामाऽधिकारः
एवंविधं ब्रह्मज्ञानं समस्तीत्यपि नाऽविशेषेण सर्वान् प्रति वाच्यम् । किन्तु यस्तथा श्रद्दधानः सन् तथाऽवधारयितुं समर्थस्तं प्रत्येव । अतादृशं प्रत्युपदेश्यमानं तदनायैव स्यादित्याशयेनाऽऽह -
अत्यन्तपक्वबोधाय, समाधिनिर्विकल्पकः ।
वाच्योऽयं नाऽर्धविज्ञस्य, तथा चोक्तं परैरपि ॥२.४८॥ अत्यन्तपक्वबोधायेति । हिताहितविचारप्रवणत्वेनोहापोहसमर्थत्वेन च कषच्छेदतापादिपरिकर्मिततया च परिनिष्ठितो बोधोऽत्यन्तपक्वः । स यस्य तस्मै अत्यन्तपक्वबोधायेत्यर्थः । अयं निर्विकल्पकसमाधिर्वाच्यः- प्रज्ञापनीयः ।
अर्धविज्ञस्येति । यद्यत् स्वमनोऽभिलषितं तत्तत् स्वभावतो दुष्टमदुष्टं हितमहितं स्वशास्त्रीयमन्यशास्त्रीयं वाऽवगच्छति । न तु सम्पूर्ण शास्त्रं यथावदवगच्छति । नवा तदर्थं यतते । एवमपि चाऽऽत्मानं पण्डितम्मन्यः सोऽर्धविज्ञस्तस्याऽयमर्थो न वाच्यः । उक्तार्थे परसम्मतिमुपनिबध्नाति - तथा चोक्तं परैरपीति ॥२.४८॥ - परवचनमेवोल्लिखति -
"आदौ शमदमप्रायै-र्गुणैः शिष्यं प्रबोधयेत् ।
पश्चात् 'सर्वमिदं ब्रह्म, शुद्धस्त्वमिति बोधयेत् ॥२.४९॥ शिष्यम्- अन्तेवासिनम् । शमदमप्रायैः- शमदमप्रभृतिभिः, शमोऽन्तःकरणस्यैकत्र विषयेऽवस्थापनं, दमो बाह्येन्द्रियनिग्रहः, गुणैः- आत्मोपकारकैः । आदौ- शुद्धब्रह्मोपदेशात् प्राक्काले, प्रबोधयेत्- प्रबोधनं कुर्यात् .। प्रथमं प्रज्ञापनीयं शिष्यं शमदमादिगुणभाजनं विदध्यादित्यर्थः । तथा सत्येव शुद्धब्रह्मस्वरूपश्रवणाधिकारित्वमस्य सम्पद्यते ।
पश्चात्- तदनन्तरं योग्यं तं 'शुद्धस्त्वं- कर्मोपाधिविनिर्मुक्तस्त्वं, यदेतत् “सर्वमिदं ब्रह्मे"ति गीयते तद्ब्रह्मस्वरूपोऽसी'त्येवं बोधयेत् । एतेन "अत्यन्तपक्वबोधाय समाधिनिर्विकल्पकः वाच्योऽय"मिति स्वोक्तौ परसम्मतिराविष्कृता भवतीति ॥२.४९॥ "नाऽर्धविज्ञस्य निर्विकल्पकः समाधिर्वाच्य" इति स्वोक्तौ संवादकं परवचनमुपदर्शयति -
अज्ञस्याऽर्धप्रबुद्धस्य, 'सर्वं ब्रह्मेति यो वदेत् ।
महानरकजालेषु, स तेन विनियोजितः" ॥२.५०॥ · अज्ञस्येति । अर्धप्रबुद्धस्याऽपि यथास्थितार्थानभिज्ञत्वेनाऽज्ञत्वमेवेति तद्विशेषणमेवेदमतो न तदंशे स्वोक्तादाधिक्यमत्रेति बोध्यम् । . यः- प्रज्ञापयिता पुरुषोऽज्ञस्याऽर्धप्रबुद्धस्य प्रबोधनाय 'सर्वं ब्रह्मेत्येवं वदेत्, तेन प्रज्ञापयित्रा पुरुषेण सोऽर्धप्रबुद्धोऽज्ञो महानरकजालेषु विनियोजितः । यतस्तस्याऽप्रशोधितचित्तस्य 'सर्वं ब्रह्मे'ति
१. शमदमोपरत्यादिगुणावगमार्थं वेदान्तपरिभाषादि द्रष्टव्यम् । अयमनन्तरश्लोकश्च महोपनिषत्सत्कौ ।