________________
अध्यात्मोपनिषत्प्रकरणम्
यो ह्याख्यातुमशक्योऽपि, प्रत्याख्यातुं न शक्यते ।
प्राज्ञैर्न दूषणीयोऽर्थः, स माधुर्यविशेषवत् ॥२.४६॥ न च शशशृङ्गादिराख्यातुमशक्योऽपि प्रत्याख्यातुं शक्यते एवेति नोक्तनियम इति वाच्यम्; यादृशस्याऽखण्डस्वरूपतयाऽसत्त्वेनाऽभिमतस्य शशशृङ्गादेराख्यातुमशक्यत्वं तस्य न प्रत्याख्यानमपि, अलीकस्य विधिनिषेधोभयधर्मानालिङ्गितत्वात् तत्र विधिवचनस्येव निषेधवचनस्याऽप्यप्रवृत्तेः । अत एव तस्य न कस्यचिद् धर्मस्य विशेष्यत्वं, नाऽपि चाऽत्यन्ताभावप्रतियोगित्वम् । तदुक्तमुदयनाचार्यैः -
"व्यावाभाववत्तैव, भाविकी हि विशेष्यता ।
अभावविरहात्मत्वं, वस्तुनः प्रतियोगिता ॥" [न्यायकुसुमा०-३.२] . सखण्डस्य च शशशृङ्गस्य नाऽलीकत्वं, शश-शृङ्गयोरुभयोरपि भिन्नाधिकरणतया व्यवस्थितेः । अतो भ्रान्तिविकल्पमुपादाय 'शशशृङ्ग'मिति वचनप्रवृत्तिः सम्भवत्येव । निषेधवचनमपि तत्र वस्तुगतिमनुरुध्याऽभ्रान्तानां सम्भवत्येव 'शशशृङ्गं नाऽस्ती'ति, शशे शृङ्ग नाऽस्तीत्येवम्भूतस्याऽर्थस्य भावात् ।
___ यतः सोऽर्थः प्रत्याख्यातुं न शक्यते, ततः प्राज्ञैर्न दूषणीयः । न चेयमदृष्टचरी कल्पनेत्यत आह - माधुर्यविशेषवदिति । प्रतिप्राणि स्वानुभवसंवेद्यमानो दधिदुग्धमधुद्राक्षादीनामन्योन्यं विलक्षणो माधुर्यविशेषः, सोऽसाधारणधर्मेण परस्परव्यावृत्ततया वचनेन 'ईदृशं दधिमाधुर्यं दुग्धमाधुर्यं चेत्थम्भूत'मित्याद्याकारेणाऽऽख्यातुमशक्योऽपि 'तादृशमाधुर्यविशेषो नाऽस्त्ये'वं प्रत्याख्यातुं न शक्यते, आबालगोपालाङ्गनानुभवविरोधात् । __ तथा योगिनां स्वसंवेद्यमुक्तस्वरूपं ब्रह्म योगिभिरप्याख्यातुमशक्यमपि न प्रत्याख्यातुं शक्यते । तथा च 'यद् वचनेन प्रतिपादयितुं न शक्यते तन्नाऽस्ती'त्यनुमानं माधुर्यविशेषेऽनैकान्तिकतादोषाघ्रातत्वादाभासस्वरूपमेवेत्याशयः ॥२.४६।।
योगी एव योगाभ्यासजनितधर्मविशेषादेवंविधं ब्रह्मस्वरूपं तदनुभवजनितं सुखं च ज्ञातुं समर्थो नाऽस्मदादिरिति नाऽस्मदादिज्ञानाविषयत्वेन तस्याऽसत्त्वम् । अन्यथा सुरतक्रीडादिसमुद्भवानन्दविशेषस्य कुमारीज्ञानागोचरत्वादसत्त्वमपि स्यादित्याह -
कुमारी न यथा वेत्ति, सुखं दयितभोगजम् ।
न जानाति तथा लोको, योगिनां ज्ञानजं सुखम् ।।२.४७॥ . दयितभोगजं सुखं यथा कुमारी न वेत्ति । नैवं सत्यपि तदभावः । तथा योगिनां ज्ञानजं सुखं लोको- योगविकलः पुमान् न जानाति । नैतावता ज्ञानजन्यसुखाभावः प्रसिद्ध्यति ॥२.४७।।
१. इदमत्र तात्पर्यम् - हि- यतो विशेष्यता भाविकी- भावनिष्ठैव भवति, ततो विशेष्यतारूपा व्यावाभाववत्ताप्रतियोग्यभाववत्ताऽपि पारमार्थिकी- भावनिष्ठेव भवितुमर्हति । एवं प्रतियोगिताऽप्यभावविरहात्मत्वम्- अभावाभावत्वरूपैव । अतः साऽपि वस्तुनः- वस्तुतो विद्यमानस्यैव भवितुमर्हति । अर्थात् सर्वथाऽलाकस्य वस्तुनोऽभावो तस्मिन् वा कस्यचिद् धर्मस्याऽभाव: प्रतिपादयितुं न शक्यः । न चैवमपि निषेधानधिकरणत्वेन ब्रह्मवत् शशशृङ्गादेरप्यदूषणीयता सिद्ध्यते । सखण्डस्य तस्य दूषयितुं शक्यत्वादेव । अखण्डस्य च तस्योपलब्ध्ययोग्यत्वादलीकत्वमेव । नन्वेवं ब्रह्मणोऽपि तद्वदेवाऽऽख्यानप्रत्याख्यानोभयातीतत्वात् कुतो नाऽलीकत्वम् ? योग्यनुभवादिरूपा प्रमाणान्तरेण तस्योपलब्धियोग्यत्वादिति ।