________________
ज्ञानयोगशुद्धिनामाऽधिकारः
सत्त्वचित्त्वादिधर्माणां, भेदाभेदविचारणे ।
न चाऽर्थोऽयं विशीर्येत, निर्विकल्पप्रसिद्धितः ॥२.४४॥ __ आदिपदादानन्दत्वादेरुपग्रहः । भेदाभेदविचारणे इति । दर्शितदिशा परस्परं धर्मिणा समं च भेदाभेदविचारण इत्यर्थः । अयं- बुद्धौ विपरिवर्तमानतया साक्षात् स्पष्टं शास्त्रयुक्त्या निर्धारितस्वरूपः, अर्थ:- मुमुक्षुभिरर्थ्यमानत्वात् सच्चिदानन्दस्वरूपब्रह्मात्मकः, न च विशीर्येत- नाऽन्यथाभावमापद्येत । ___ तत्र हेतुः निर्विकल्पप्रसिद्धित इति । अयमभिप्रायः - विकल्पयोग्ये हि विकल्पानामवसरो भवति । ब्रह्म तु निर्विकल्पकैकमात्रवेद्यत्वाद् विकल्पयोग्य एव न भवति । ततः कथं तत्र विकल्पात्मिका भेदाभेदविचारणाऽऽत्मानमासादयेत् ? -
न च सत्त्वचित्त्वानन्दत्वधर्मयोगाद् विकल्पयोग्यत्वमेव तस्येति वाच्यम्; सत्त्वं बाध्यत्वाभावः, चित्त्वमस्वप्रकाशत्वाभावः, आनन्दत्वमनानन्दत्वाभावः, तत्राऽनानन्दत्वं परप्रेमानास्पदत्वम् । इत्थं सर्वे ऽप्यभावस्वरूपाः । अभावश्चाऽधिकरणात्मक एव नाऽतिरिक्त इति न ब्रह्मव्यतिरेकेण तेषामस्ति सम्भवः । ब्रह्म च निर्विकल्पकवेद्यमिति तेऽपि ब्रह्मस्वरूपतया निर्विकल्पकवेद्या एव । तद्रूपतयैव च तेषां पारमार्थिकत्वम् । तथा सति च निर्विकल्पकमात्रगम्येषु तेष्वपि कुतो विकल्पप्रसरः ? ॥२.४४|| ___ नन्वेवमपि 'ब्रह्म धर्मि, सत्त्वादयश्च धर्मा' इति धर्मधर्मिभावकल्पनायां पूर्वोक्ता विकल्पाः समवतरन्तः कथमपाकरणीयाः ? तेषां चाऽनपाकरणे भेदाभेदविकल्पदुःस्थतया न ते धर्माः परस्याऽनुभवपथावतार्याः स्युः । परानुभवगोचरतामुपनेतुमेव च शास्त्रव्यापारो भवतीत्यत आह - ...: योगजानुभवारूढे, सन्मात्रे निर्विकल्पके । ... विकल्पौघासहिष्णुत्वं, भूषणं न तु दूषणम् ॥२.४५॥
योगजानुभवारूढे- योगजानुभवमात्रगम्ये । सन्मात्रे इति । धर्मधर्मभावानापन्ने केवलसद्रूपे ब्रह्मणीत्यर्थः । निर्विकल्पके इति । धर्मधर्मिभावकल्पनाऽगोचरतया निर्धर्मके इत्यर्थः । विकल्पौघासहिष्णुत्वं- विकल्पसमूहेनाऽनुपपन्नत्वम् ।।
यो हि विकल्पविषयो भवति, स विकल्पात्मकविचारेण विचार्यमाणस्तथोपपन्नो भवति । ब्रह्मत्वम तथास्वरूपं कथं तथोपपन्नं स्यात् ? तथा च ब्रह्मणो विकल्पौघासहिष्णुत्वं भूषणमेव । यतस्तेनाऽलङ्कृतं तत् सर्वथा निर्विकल्पकावदातस्वरूपतयैवाऽवद्योतते इति । - यथा च विकल्पसहिष्णुत्वं धर्मस्वरूपतया तत्र नाऽस्ति, तथा विकल्पौघासहिष्णुत्वं धर्मस्वरूपतयाऽभ्युपगम्यमानं तत्र नाऽस्त्येव । कथं तत्राऽविद्यमानं तत् तद् दूषयेत् ? अभावस्याऽधिकरणस्वरूपताश्रयणेन यदि ब्रह्मस्वरूपमेव तत्, तदा स्वस्य न स्वदूषकत्वं, दूष्यदूषकभावस्य भेदनिबन्धनत्वादित्यभिप्रायेणोक्तं - न तु दूषणमिति ॥२.४५॥ ___ ननु योगिनामनुभवैकगम्ये निर्विकल्परूपे ब्रह्मणि न भवतां वचनप्रवृत्तिसम्भवः । ततश्च परानस्मान् कथं तथाब्रह्मस्वरूपं शास्त्रविज्ञोऽपि भवान् बोधयितुं प्रगल्भः ? एवं च यद् वचनेन प्रतिपादयितुं न शक्यते, तन्नाऽस्ति, यथा शशशृङ्गम् । ब्रह्म चोक्तस्वरूपं तथेत्येवं दूषयितुं समर्था एव वयमित्यत आह -