________________
ज्ञानयोगशुद्धिनामाऽधिकारः
अथवा योगिन एव लोकानुवृत्त्या व्यवहारपथस्थितस्य सहजात्मरूपव्यवस्थितिप्रदर्शनपरमिदं पद्यम् । तथाहि - तु- पुनरिह- अस्यां लोकयात्रायां, प्रज्ञापनीयः- स्वतो ज्ञानवानपि 'गुरुमुखश्रवणेन स्वागतस्यैवाऽर्थस्याऽवगमे दृढं प्रामाण्यं भवती'ति कृत्वाऽन्तेवासितामात्मनि वरामाश्रयन् प्रज्ञापनायोग्यः, सद्गुरुवाक्यनिष्ठः- सद्गुरुवाक्यश्रद्धः सन्, प्रविततं व्यवहारमार्गमभ्यस्य- स्वानुभूतमेव तं पुनः पुनर्गुरुवाक्यतोऽवधार्य, “चित्प्रतिबिम्बितमेव बाह्यव्यवहारजातमौपाधिकमस्तु मम, नाऽतो मदीयस्य स्वाभाविकस्य चैतन्यस्वरूपस्य बिम्बप्रतिबिम्बभावकल्पनापेतस्य काचिदपि हानि"रिति बुद्ध्या चिद्दर्पणप्रतिफलत्रिजगद्विवर्ते वर्तेत । तत्राऽप्यस्य बिम्बतया प्रधानभूते चैतन्ये वर्तनमस्त्येव । यस्य च योगिनो यथाकथञ्चिच्चैतन्यसम्बन्धेनेष्टत्वप्रतिसन्धानत एवम्भूतं वर्तनम्, असौ पुनः सहजात्मरूपेचैतन्ये वर्ततेति किम् ?, किमत्र वक्तव्यम् ? तत्तु कैमुतिकन्यायप्राप्तमेवेति ॥२.६०॥
एतावता निश्चयनयोपग्रहेण ‘बाह्यं तत्त्वं नाऽस्त्याभ्यन्तरमेव तत्त्व'मित्येवं वस्तुतत्त्वं न व्यवस्थाप्यते । यतः प्रमाणनयाभ्यामुभयविधस्याऽपि वस्तुतत्त्वस्याऽनाकुलमेवोज्जृम्भमाणत्वात् । किन्तु शुद्धचैतन्यमात्रस्वरूपात्मपरिभावनतः किमप्यनिर्वचनीयं शमस्वरूपं स्वरूपविश्रान्तिलक्षणसुखमभिमुखं भवतीत्येतदर्थमभिनिवेशोऽत्राऽस्माकमित्यावेदयितुमाह - . भवतु किमपि तत्त्वं बाह्यमाभ्यन्तरं वा, हदि वितरति साम्यं निर्मलश्चिद्विचारः ।
तदिह निचितपञ्चाचारसञ्चारचांरु-स्फुरितपरमभावे पक्षपातोऽधिको नः ॥२.६१॥ - किमपि स्याद्वादैकप्रमाणगम्यत्वादन्यतन्त्रानाकलितं, वाकारः समुच्चये, बाह्यमाभ्यन्तरं च तत्त्वं भवतु । नहि प्रमाणसिद्धस्याऽर्थस्य स्वानिष्टिमात्रेणाऽपलपनं शक्यम् । एवञ्च बाह्यस्याऽनेकविधस्याऽर्थस्याऽऽभ्यन्तरस्याऽपि च बहुविधस्याऽर्थस्य सद्भावे चैतन्यमात्रस्वरूपात्मविचारे एव किमर्थमधिकृतो भवानित्यपेक्षायामाह - . .
हृदीति । हदि- अन्तःकरणे, निर्मलो- दोषगणसम्पर्कशून्यः, चिद्विचारः- चैतन्यमात्रस्वरूपात्मपर्यालोचनम् । साम्य- समतां सर्वजीवानां स्वरूपतोऽभिन्नत्वं तदवगमजन्य-परावस्कन्दप्रभवदुःखभया-ऽत्यन्तापगमसमुत्थशान्तिसुखं वितरति- दत्ते । आस्तां तथाविधात्मस्वरूपाविर्भावः । तदाकलनसाम्मुख्यमात्रेणाऽपि कृतार्थमिव भवति चित्तम् ।
तत्- तस्मात् कारणात्, इह- अस्मिन्, अस्यैव विशेषत उपदर्शनं - निचितपञ्चाचारसञ्चारचारुस्फुरितपरमभावे इति । निचितः- नितरामतिशयेन विधिपूर्वकानुष्ठानादिना चितः- चयमुपचयं समृद्धिमितः प्राप्तः एवम्भूतो यः पञ्चाचारसञ्चारः- पञ्चाचारस्याऽऽचरणं, तेन चारु- समीचीनं स्फुरितं- स्फुरणं प्रकाशनं यस्य स निचितपञ्चाचारसञ्चारचारुस्फुरितः, एवम्भूतो यः परमभावः, परा- उत्कृष्टा शमसुखप्रदा मा- लक्ष्मीर्यस्य स परमः, भावः- आत्मनश्चैतन्यस्वरूपो भावनाज्ञानेनाऽनवरतं भाव्यमानत्वात् सर्वावस्थासु
१. वृत्त्यन्तरे 'सहजात्मरूपे किं पुन:- कथमपि- अकथनीयरूपेण वर्तेत' इत्यर्थः प्रदर्शित: । तात्पर्य तु समानमेव । २. वृत्त्यन्तरे "निर्मलश्चेद् विचारः" इति पाठं स्वीकृत्य तदनुसारं भावार्थः प्रदर्शितः । ।