________________
४८
अध्यात्मोपनिषत्प्रकरणम् तपःश्रुतादिना मत्तः, क्रियावानपि लिप्यते ।
भावनाज्ञानसम्पन्नो, निष्क्रियोऽपि न लिप्यते ॥२.३९॥ क्रियावानपि तप:श्रुतादिना मत्तः "अहं तपस्वी, अहं श्रुतादिज्ञानवान्, मदन्यो नैतादृशतपोबलसम्पन्नः, कोऽन्यो मत्त एतादृशश्रुतज्ञानादिसम्पन्न" इत्येवमभिमानवान् लिप्यते । तथा च क्रियानुष्ठानस्य सद्भावेऽपि न लेपविगम इत्यन्वयव्यभिचारः । ___ निष्क्रियोऽपि व्यवहारदशामतीत्य व्यवस्थितः पुरुषविशेषो भावनाज्ञानसम्पन्नो न लिप्यते- न लेपभाग् भवति । तथा च तत्र क्रियानुष्ठानाभावेऽपि लेपाभावस्य सद्भाव इति व्यतिरेकव्यभिचारः ॥२.३९।।
समलं निर्मलं चेद-मिति द्वैतं यदा गतम् ।। ___अद्वैतं निर्मलं ब्रह्म , तदैकमवशिष्यते ॥२.४०॥
एवं च पौद्गलिकभावानां परौपाधिकानामपि स्वात्मगततयाऽऽकलयिता रागद्वेषादिकषायपरिभूतान्त:करण: समलः, भावनाज्ञानसम्पन्नश्चाऽतथाभूतो निर्मलः । परौपाधिकभावान् स्वात्मगततयाऽयं पश्यति अतोऽयं समलः, अहं च न तथा पश्यामि अतोऽहं निर्मल इत्येवं व्यावृत्तिज्ञानमपि यावत् समस्ति, तावद् द्वैतमेव, तस्याऽप्यपगमो यस्यामवस्थायां गतं- विनष्टं न भवत्येवेति यावत्, तदा तस्यामवस्थायामेकं- भिन्नस्याऽपि सतोऽद्वैतभावनयाऽवगाहनात् स्वरूपतश्चैतन्यलक्षणेनैकमेवाऽतोऽद्वैतमत एव च निर्मलं ब्रह्म- आत्मस्वरूपमवशिष्यते । एतदभिप्रायक एव च "एकमेवाऽद्वितीयं ब्रह्म, नेह नानाऽस्ति किञ्चन" इत्यादिः परेषामागमः ॥२.४०॥
अस्य च ब्रह्मणः सच्चिदानन्दरूपत्वं योग्यनुभवसंवेद्यम् । तत्र सत्त्वं महासामान्यं सकलवस्तुसमनुगतं ब्रह्माभिन्नतया यदा व्यवतिष्ठते धर्मधर्मिणोः कथञ्चित्तादात्म्यात्; तदा 'तदभिन्नाभिन्नस्य तदभिन्नत्व'मिति नियमेन जगदेव ब्रह्मस्वरूपमापन्नमिति नयोपदर्शिताः सर्वेऽप्यात्मप्रकारास्तत्स्वरूपनिमग्ना एवेति सर्वपर्याय विवर्तकस्य ब्रह्मणः समुद्रसन्निभत्वं तद्विवर्तानां च कल्लोलकल्पत्वं तन्निबन्धनानामुपाधीनां च समुद्रकल्लोलोल्लासकोद्धतप्रभञ्जनसन्निभत्वमित्यपदर्शयति -
महासामान्यरूपेऽस्मिन्, मज्जन्ति नयजा भिदाः ।
समुद्र इव कल्लोलाः, पवनोन्माथनिर्मिताः ॥२.४१॥ महासामान्यरूपे इति । सकलवस्त्वनुगतत्वान्महासामान्यं सत्ता, तस्या अतिरिक्तधर्मतयाऽभ्युपगमे धर्मिवृत्तित्वमधिकं कल्पनीयमतो वरं धर्मिस्वरूपैव सेति ब्रह्मैव तादृशसत्तारूपं, तस्मिन्नित्यर्थः । अस्मिन्- ब्रह्मणि ।
नयजा:- तत्तन्नयकल्पनया गोचरीक्रियमाणत्वान्नयजा इत्युपचर्यन्ते । भिदा:- आत्मनो जीव-ईश्वरादिप्रकारा, अस्य सत्तयैक्यमालम्ब्य व्यवस्थितौ सतो ये भेदा द्रव्यगुणादयस्तेऽप्यस्यैव प्रपञ्चा इति । भिदा इत्यनेन प्रत्येकं सर्वनयमन्तव्या आत्मनः प्रकारास्तत्त्वप्रभेदप्रकाराश्च गृहीतव्याः । ..