________________
ज्ञानयोगशुद्धिनामाऽधिकारः
४९
एकस्मिन्ननेकस्वरूपविवर्तत्वं दृष्टान्तेन द्रढयति - समुद्र इव कल्लोला इति । समुद्रे यथा कल्लोला अनवरतं विचित्रस्वभावाः ,प्रादुर्भवन्तस्तत्रैव निमज्जन्ति- तदभिन्नतयैवाऽवतिष्ठन्ते, तथा ब्रह्मपर्याया अपि यथामतं कल्पनाजालसमुत्थिता ब्रह्मस्वरूपमास्थायैवाऽवस्थिता, न ततो बहिरिति निमज्जन्ति- ब्रह्मस्वरूपतत्त्वज्ञाने सति न तेषां तत्राऽवभास इत्यस्थिरतासाधर्म्यण कल्लोलकल्पत्वम् ।
कस्मादेकस्मिन्नेव समुद्रे विचित्राः कल्लोलाः समुल्लसन्तीत्यपेक्षायामाह - पवनोन्माथनिर्मिता इति । पवनेन समुद्रस्य य उन्माथः- विलोडनं- लघीयस्तया जलानामुच्चालनं, तन्निर्मितास्तत्प्रभवा इत्यर्थः । एवं प्रकृतेऽपि नयानां मन्तव्यप्रकारभेद एव प्रभञ्जनस्तत्प्रकल्पितोपाधिसमुत्थापिता एव वास्तविककर्मपुद्गलप्रभवा भावाः पौगलिका अप्यापाततस्तत्र परिदृश्यमाना इति ॥२.४१॥
नन्वेवं सत्तारूपमहासामान्यरूपत्वे पुद्गलादिसद्रूपत्वमप्यस्याऽनपनोदितमेव । एवं च पौद्गलिका भावा अपि स्वाभाविका एव प्रसज्येरन् । तथा च पुद्गलस्वरूपतामापन्नस्याऽस्य लेपोऽपि वास्तविक एव, निर्लेपत्वं स्वरूपत एव न स्यादिति पूर्वोपदर्शिता सर्वाऽपि प्रक्रिया व्युच्छिना एव स्यादित्यत आह -
. षड्द्रव्यैकात्म्यसंस्पर्शि, सत्सामान्यं हि यद्यपि ।
परस्याऽनुपयोगित्वात्, स्वविश्रान्तं तथापि तत् ॥२.४२॥ जीवपुद्गलधर्माधर्माकाशकालभेदतः षड् द्रव्यम् । तेन सह प्रत्येकं 'सत्, स'दिति प्रत्ययानुगमनेनैकात्म्यंतादात्म्यं तत् समिति समन्तात् स्पृशति- तद्भागी भवतीति षड्द्रव्यैकात्म्यसंस्पर्शि । अत एवाऽनुगतत्वाद्धि- यतः सत्- सत्त्वं सामान्यं- महासामान्यं यद्यपि भवतीति क्रियायोगः । ... तथापि- षड्द्रव्यैकात्म्यसंस्पर्शित्वेऽपि, परस्य- विशेषेभ्यो षड्द्रव्येभ्यो भिन्नस्य- व्यतिरिक्तस्य स्वरूपसत्त्वविलक्षस्य सत्त्वस्य, अनुपयोगित्वात्- भेदाभेदादिविकल्पजर्जरितत्वेनाऽर्थक्रियाकारित्वाभावात् । यतस्तदभ्युपगम्यमानं यदि व्यतिरिक्तमेव विशेषेभ्यस्तदा तस्याऽपि वस्तुत्वेन सत्त्वमभ्युपेयम् । एवं तस्याऽपि सत्त्क्मेवं तस्याऽपीत्यनवस्था । अथ तस्य सत्त्वं नाऽङ्गीक्रियते, तदा स्वयमसता तेन शशशृङ्गकल्पनेन न परस्याऽपि सत्त्वमित्यसदेव जगदापन्नम् । अथ तत् सत्त्वं स्वस्मिन्नपि सद्बुद्धिनियामकत्वाद् वर्तते तदाऽऽत्माश्रयः । यदि तत्र सत्त्वं द्वितीयं तत्र चेदमित्युपगम्येत तदाऽन्योन्याश्रयः । एवं तृतीयादिसत्त्वमुपगम्य तत्र प्रथमादिसत्त्वमुपगम्यते तदा चक्रकम् । ____ एवं तत् सत्त्वं सांशं निरंशं वा । आद्ये येनांऽशेनैकत्र तदवस्थानं तदन्येनांऽशेनाऽन्यत्राऽवस्थानमित्येवमनेकवृत्तित्वसम्भवेऽपि सम्पूर्णस्य तस्य न कुत्राऽपि वृत्तित्वं स्यात् । एवमंशेऽपि तस्यांऽशेनाऽवस्थानं तत्राऽप्यंशेनाऽवस्थानमित्यभ्युपेयमन्यथांऽशानां सत्त्वाभावे शशशृङ्गकल्पानां तेषां वृत्त्यवच्छेदकत्वमपि दुर्घटं स्यादित्यनवस्थाऽत्राऽपि संलग्नैव । द्वितीये निरंशस्य तस्यैकत्रैव पर्याप्त्याऽवस्थानेनाऽन्यत्राऽवस्थानमेव दुर्घटम् । अतोऽतिरिक्ततयाऽभ्युपगम्यमाना सत्ता स्वात्मानमेवाऽलभमाना नाऽर्थक्रियासूपयुज्यते ।
१. वृत्त्यन्तरे ‘परस्य- अनात्मद्रव्यस्य पुद्गलादिलक्षणस्य परमभावग्राहकनयविचारे अनुपयोगित्वात्- निष्प्रयोजनत्वात्' इत्यर्थो दर्शितः । स चाऽप्रस्तुतत्वादनुपादेयो भाति ।