________________
४७
ज्ञानयोगशुद्धिनामांऽधिकारः
लिप्यते पुद्गलस्कन्धो, न लिप्ये पुद्गलैरहम् ।
चित्रव्योमाऽञ्जनेनेव, ध्यायन्निति न लिप्यते ॥२.३७॥ पुद्गलैः पुद्गलस्कन्धो लिप्यते । अहं तु पुद्गलभावास्पृष्टतनुः, न लिप्ये- लिप्तो न भवामि । चित्रव्योमाऽञ्जनेनेवेति । यथा चित्रव्यवस्थितपुद्गलविशेषः पुद्गलस्वभावेनाऽञ्जनेन लिप्यते- स्वस्वरूपेणाऽऽच्छादितस्वरूपः क्रियते, न त्वपुद्गलस्वभावं व्योम तत्र स्थितमपि तेन तथा क्रियते इति ध्यायन्एवमात्मस्वरूपं भावयन् ज्ञानवान् न लिप्यते- न लेपभाग् भवति ॥२.३७।।
ननु यदि स्वभावतो निर्लिप्त एवाऽयमात्मा, तर्हि तत्स्वरूपमविदुषस्तत्र लेपभ्रान्त्याऽऽरोपितलिप्ततासम्भवात् तदपनुत्तये. शुद्धक्रियानुष्ठानं भवति । तेन च लेपस्य वस्तुतोऽभावेऽपि तद्भ्रान्तेरेवाऽपनयनं शुभज्ञानोत्पादनद्वारा सम्भवति, सर्वस्याऽपि शुद्धक्रियाकलापस्य चित्तशोधकताऽभ्युपगमात् । ज्ञानिनस्तु निर्लिप्तमात्मस्वरूपं करामलकवत्. पश्यतो न मात्रयाऽपि समस्ति लिप्तताभ्रान्तिः, स्वभावतो विद्यमानैव च चित्तशुद्धिरित्यनतिप्रयोजनत्वात् शुभक्रियाकलापाननुष्ठानमेव ज्यायः । एवमपि तथाऽनुष्ठानं कुर्वन् ज्ञानी अप्रेक्षापूर्वकारितया लोकस्योपहसनीयतापात्रमेव स्यादित्यत आह -
लिप्तताज्ञानसम्पात-प्रतिघाताय केवलम् ।
निर्लेपज्ञानमग्नस्य, क्रिया सर्वोपयुज्यते ॥२.३८॥ : निर्लेपज्ञानमग्नस्य सर्वा क्रिया लिप्तताज्ञानसम्पातप्रतिघाताय केवलमुपयुज्यते इति सम्बन्धः । _ 'सर्वथा निर्लिप्तोऽयं चेतनस्वरूप आत्मा' इत्याकारकं यज्ज्ञानं तन्निर्लेपज्ञानं तन्मग्नस्यतत्तादात्म्यमुपागतस्य ज्ञानिनो लोकवर्तित्वाल्लोकव्यवहारमनतिक्रम्याऽवतिष्ठमानस्य सर्वा क्रियाअसदाचरणव्यतिरिक्ता सर्वाऽपि शुभा क्रिया आगमविहितक्रियानुष्ठानलक्षणा । 'अयं विषयगार्ध्यात् तदत्यन्तसम्बन्धाविच्छेदाय विहितामपि क्रियां नाऽनुतिष्ठत्यतो विषयलोलुपोऽय'मित्येवं ज्ञान्यात्मविशेष्यकं लिप्तत्वप्रकारकं यत् पृथग्जनस्य ज्ञानं, तस्य विषयतयाऽऽत्मनि यः सम्पातः- प्राप्तिः सम्बन्ध इति यावत्, तस्य यः प्रतिघातोऽनुत्पादलक्षणः प्रतिबन्धस्तदर्थं लिप्तताज्ञानसम्पातप्रतिघाताय- 'अयं विषयलिप्त' इत्याकारकपृथग्जनभ्रान्त्यनुत्पत्तये इति यावत् । केवलम्- उक्तभ्रमापनोदव्यतिरिक्तप्रयोजनविकलमुपयुज्यतेअनुष्ठानप्रयत्नविषयो भवति ॥२.३८॥
ननु ज्ञानिनोऽप्यंशतो लेपः समस्त्येव । तदपनोदार्थमेव शुभक्रियानुष्ठानम् । अन्यत्र लेपापनोदने क्लृप्तसामर्थ्यस्य तस्य तत्रापि तत्फलकत्वस्यैव युक्तत्वादतः शुभक्रियानुष्ठानान्यथानुपपत्तिप्रमाणक[लेप]लेश सम्पर्कवति ज्ञानिनि निर्लेपत्वाभ्युपगमः कदाग्रहमात्रविजृम्भित एवेत्यतः, क्रियावत्यप्यभिमानिनि लेपोऽकुण्ठितप्रसर एवोपलभ्यते, क्रियाशून्येऽपि च पुरुषधौरेये क्वचिल्लेपो न दृश्यते इत्यन्वयव्यतिरेक व्यभिचाराभ्यां निर्लेपसामान्य प्रति शुभक्रियानुष्ठानस्य सामर्थ्यमेव न क्लृप्तमित्याह -
१. 'चित्रव्योम'पदस्य वृत्त्यन्तरे 'चित्रीयमाणं गगन'मित्यर्थो दर्शितः । स चाऽयुक्तः प्रतिभाति । चित्रशब्दस्य तथाऽर्थावभासकत्वस्य दुःशकत्वात्, "पुद्गलैः पुद्गलस्कन्धो लिप्यते" इत्यत्र दृष्टान्तस्याऽफलीभवनाच्च ।