________________
४३
ज्ञानयोगशुद्धिनामाऽधिकारः केवलज्ञानं, छद्मस्थाः खल्वचक्षुषः । हस्तस्पर्शसमं शास्त्र-ज्ञानं तद्व्यवहारकृत् ॥" [१.१०] इत्यनेन छद्मस्थानां शास्त्रदृष्टित्वस्यैवाऽभ्युपगमात् । अधिगत्य- ज्ञात्वा ।
स्वसंवेद्यं परं- स्वसंवेदनमात्रानुभवैकगम्यं ब्रह्म- आत्मस्वरूपम् । अनुभवै:- धाराबद्धतया निरन्तरोपन्नत्वेन बहुलीभूतैरनुभवैः शुद्धोपयोगरूपैर्मुनिः शास्त्रमननकुशल: पुरुषविशेषस्तुरीयावस्थाव्यवस्थितः, अधिगच्छति- जानाति । अधिगमनोपायस्य बहुत्वेन निर्देशादधिगमस्य दृढभूमित्वमावेदितमतः स्वरूपविश्रान्तिस्तत्र भवंति न तु कल्पनाधायित्वमिति ॥२.२५।।
ब्रह्मोपेन्द्रमहेन्द्रमहेशाद्युपासकानामिव तत्तदात्मपर्यायप्रधानभावोपासकानां जैनागमाश्रयणदत्तचित्तानामप्यात्मस्वभावपरमार्थावबोधविकलानां वस्तुतः परसमयस्थितत्वमेव । आत्मस्वभावपरिकर्मितमतीनामेव स्वसमयस्थितत्वमित्याह -
ये पर्यायेषु निरप्ता-स्ते ह्यन्यसमयस्थिताः ।
आत्मस्वभावनिष्ठानां, ध्रुवा स्वसमयस्थितिः ॥२.२६॥ __पर्यायेषु- आत्मनः पर्यायेषु देवेन्द्रत्वादिभावेषु । य इति ये केचन जैना अजैना वा भवन्तु । निरताः- तत्पर्यायानुस्मरणधारणाध्यानार्चनादिसंलीन-करणोपकरणस्वान्तव्यापाराः । ते- पुरुषा, हियतः, स्क्समयस्थितत्वेन व्यवह्रियमाणा अपि वस्तुतोऽन्यसमयस्थिताः । . तहि केषां स्वसमयस्थितिरित्यपेक्षायामाह - आत्मस्वभावनिष्ठानामिति । 'चैतन्यमेव केवलमात्मस्वभावोऽन्यस्तु कर्मोपाधिविनिर्मितो धर्मकलाप' इत्येवमात्मस्वभावं श्रद्दधतां तथा परिशीलयतां च पुरुषधौरेयाणामित्यर्थः । ध्रुवा- दृढत्या व्यवस्थिता, परकीययुक्तिशतेनाऽपि चालयितुमशक्या, स्वसमयस्थिति:स्वसिद्धान्तावस्थानम् ॥२.२६।। किं तदात्मस्वरूपं शुद्धोपयोगसंवेद्यमेव यदित्यपेक्षायामाह -
आवापोद्वापविश्रान्ति-र्यत्राऽशुद्धनयस्य तत् ।
शुद्धानुभवसंवेद्यं, स्वरूपं परमात्मनः ॥२.२७॥ यत्र- यस्मिन् परमात्मस्वरूपे शुद्धचैतन्ये । अशुद्धनयस्य- पर्यायसम्भिन्नद्रव्यावगाहिनो द्रव्यार्थिकस्य द्रव्यसम्भिन्नपर्यायावगाहिनः पर्यायार्थिकस्य च । आवापोद्वापौ- स्वधर्मस्य कल्पनारूपान्वय आवापः, अन्यधर्मप्रतिक्षेपरूपव्यतिरेक उद्वापः, एतौ चाऽशुद्धनयकृतावेवे । तयोविश्रान्तिरभाव आवापोद्वापविश्रान्तिः, समस्तीति क्रियाऽध्याहार्या । यस्मिन् परात्मस्वरूपे अशुद्धनयप्रभावितैकधर्मकल्पना-ऽन्यधर्मप्रतिक्षेपौ न स्त इत्यर्थः । तदेवम्भूतं परमात्मनः स्वरूपं शुद्धानुभवसंवेद्यं- शुद्धोपयोगमात्रगम्यमित्यर्थः ॥२.२७।।
१. श्लोकोऽयं प्रवचनसार - २.२ गाथाया च्छायारूप: । अतः सा गाथा तवृत्तिश्चाऽवलोकनीये । २. वृत्त्यन्तरे "अशुद्धनयस्य- औपाधिकपर्यायग्राहकनयस्य, आवापोद्वापविश्रान्ति:- अध्यारोपापवादाभ्यां निवृत्तिर्भवति (अध्यारोपोऽविद्यमानस्याऽऽरोपः, अपवादः- विद्यमानस्य प्रतिषेधः)" इति तात्पर्यमुपवर्णितम् । तच्चिन्त्यम् ।