________________
४४
अध्यात्मोपनिषत्प्रकरणम् यतः शुद्धानुभवसंवेद्यमेव परमात्मस्वरूपमतो ये केचन कल्पनाज्ञानगोचरीभूय स्थिता: पर्यायास्ते सर्वेऽपि न परमात्मस्वरूपमित्याह -
गुणस्थानानि यावन्ति, यावन्त्यश्चाऽपि मार्गणाः ।
तदन्यतरसंश्लेषो, नैवाऽतः परमात्मनः ॥२.२८॥ तदन्यतरसंश्लेष:- गुणस्थानमार्गणान्यतरसम्बन्धः, नैव- न भवत्येव, अतः- शुद्धानुभवमात्रसंवेद्यस्वरूपत्वतः । गुणस्थानमार्गणास्वरूपाणामवगमो ग्रन्थान्तराद् विधेयो, ग्रन्थगौरवभयान्नेह तत्स्वरूपपरिभावनम् ॥२.२८॥
ये च शुद्धोपयोगविकलास्ते परौपाधिकानल्पधर्मान्नात्मन्यवगच्छन्तोऽपि न वस्तुस्थित्या परमात्मस्वरूपाभिज्ञा इत्युपदिशति -
कर्मोपाधिकृतान् भावान्, य आत्मन्यध्यवस्यति ।
तेन स्वाभाविक रूपं, न बुद्धं परमात्मनः ॥२.२९॥ तेन- आत्मनि कर्मोपाधिकृतभावाध्यवसायवता पुरुषेण । स्वाभाविकं- स्वतःसिद्धमसाधारणस्वरूपम् । उत्तानार्थमन्यत् ॥२.२९॥ यदि कर्मोपाधिकृता भावा न शुद्धस्याऽऽत्मनस्तहि तेषां तत्र व्यवहारः किंनिबन्धन इत्यपेक्षायामाह -
यथा भृत्यैः कृतं युद्धं, स्वामिन्येवोपचर्यते । ___ शुद्धात्मन्यविवेकेन, कर्मस्कन्धोर्जितं तथा ॥२.३०॥ तथा च 'व्यवहार उपचारबहुल इति न व्यवहारेण धर्माणां वास्तविकत्वं संप्रधार्य'मित्यस्य दाढा) दृष्टान्तदाान्तिकभावेन प्रकृतार्थगुम्फनं, तथा सति प्रतिपाद्यावबोधः सौकर्येण सम्पद्यते इति । श्लोकार्थस्तु व्यक्त एव ॥२.३०॥ तथाव्यवहारिणोऽज्ञत्वं सुखावबोधमेवेत्युपदर्शयितुमाह -
मुषितत्वं यथा पान्थ-गतं पथ्युपचर्यते ।
तथा व्यवहरत्यज्ञ-श्चिद्रूपे कर्मविक्रियाम् ॥२.३१॥ एतदपि पद्यं स्पष्टार्थमेव ॥२.३१॥
नन्वेवमात्मस्वरूपमवगच्छन्नपि ज्ञानी कर्मकृतभावाभिभूतो दृश्यते एव । ततश्च कर्मकृतभावान् स्वाभाविकत्वेनाऽऽत्मन्यध्यवस्यतोऽज्ञानिनः किङ्कृतो विशेष: कर्मकृतभावानस्वाभाविकत्वेनाऽऽत्मनि पश्यतो ज्ञानिन इत्यत आह -
स्वत एव समायान्ति, कर्माण्यारब्धशक्तितः । एकक्षेत्रावगाहेन, ज्ञानी तत्र न दोषभाक् ॥२.३२॥
१. अत्र पञ्चमी विभक्तिः समस्ति ।