________________
४२
अध्यात्मोपनिषत्प्रकरणम्
पश्यतु ब्रह्म निर्द्वन्द्वं, निर्द्वन्द्वानुभवं विना ।
कथं लिपिमयी दृष्टि -र्वाङ्मयी वा मनोमयी ॥२.२३॥ निर्द्वन्द्वं ब्रह्म निर्द्वन्द्वानुभवं निर्विकल्पकशुद्धोपयोगं विना लिपिमयी वाङ्मयी मनोमयी वा दृष्टिः कथं पश्यतु- कथं विषयीकरोतु ? दृष्टौ लिप्यादिमयत्वं च लिप्यादिमात्रप्रभवत्वकृतं ज्ञेयम् ॥२.२३||
शुद्धोपयोगरूपस्य निर्विकल्पकानुभवस्याऽनालम्बनयोगस्य जाग्रत्स्वप्नसुषुप्त्यात्मकावस्थात्रयभिन्नत्वेन तुरीयावस्थात्वं निष्टङ्कयति -
न सुषुप्तिरमोहत्वा-नाऽपि च स्वाप-जागरौ ।
कल्पनाशिल्पविश्रान्ते-स्तुर्यैवाऽनुभवो दशा ॥२.२४॥ .. ___ सविकल्पकज्ञानविकलत्वेन सौसादृश्यात् सुषुप्तित्वभ्रम एव तत्र प्रथमतः समुल्लसतीत्यतः सुषुप्तित्वप्रतिषेध एव पूर्वमादृतः । अमोहत्वात्- मोहनीयविशेषोदयप्रसूतत्वान्मोहस्वरूपा सुषुप्तिरयं च तद्विलक्षणत्वान्न सुषुप्तिरित्यर्थः ।
नाऽपि स्वापजागराविति ज्ञानावस्थात्वेनोभयस्वरूपताया युगपदेव तत्र प्राप्तौ सर्वप्रधानेन द्वन्द्वेन . तदुभयमुपन्यस्य तत्प्रतिक्षेपो विहितः । तत्रापि परिस्फुटस्थिरबाह्यावभासविकलत्वेन स्वप्नत्वभ्रमस्यैव प्रथमतः प्राप्तेस्तत्सन्निवेश एव प्रथमतः कृतः । तेन बह्वच्त्वेऽपि स्थिरावभासकतया पूज्यस्य जागरस्य प्रथमोपन्यासप्राप्तावपि न क्षतिः ।
स्वापजागरोभयनिषेधे हेतुः कल्पनाशिल्पविश्रान्तेरिति । स्वप्ने जागरे च सविकल्पकपरम्परा समुन्मिषति, अत्र मात्रयाऽपि न तदुन्मेष इति कल्पनाशून्यत्वात् निर्विकल्पकशुद्धोपयोगात्माऽनालम्बनयोगस्वरूपोऽनुभव: स्वप्नजागराभ्यामपि भिन्न इति तुरीय एवेति ॥२.२४|| ' तादृशानुभव: शास्त्रज्ञानपूर्वक एव ब्रह्माधिगतिहेतुरिति शास्त्रयोगोऽप्यत्रोपयुज्यते इत्याह -
अधिगत्याऽखिलं शब्द-ब्रह्म शास्त्रदृशा मुनिः ।
स्वसंवेद्यं परं ब्रह्मा-ऽनुभवैरधिगच्छति ॥२.२५॥ शब्दब्रह्मेति । शब्देनोल्लिख्यमानस्वरूपत्वाच्छब्दतया व्यवसितं जीवाजीवादितत्त्वं स्वात्मना जगत एव क्रोडीकृतत्वाद् ब्रह्म । तदखिलमेव- समस्तमेव शास्त्रदृशा- शास्त्रजन्यबोधात्मकदृष्ट्या, "अन्तरा
१. लिपिमयी- सज्ञाक्षरमयी, वाङ्मयी- वचनोच्चारणमयी, मनोमयी- विचारमयी । २. निर्विकल्पकज्ञानस्य सुषुप्तेरिव सविकल्पकज्ञानविकलत्वात् तत् सुषुप्तिरिति भ्रमः कस्यचित् सम्भवति । ३. समासवृत्तौ केवलं द्वन्द्वसमासे एव तदन्तर्गतसर्वपदानां प्राधान्यं सम्भवति । ४. अस्य कथनस्य तात्पर्यस्याऽवगमनार्थं सिद्ध. शब्दा. ३.१.१६० सूत्रं तवृत्तिश्च द्रष्टव्ये।