________________
ज्ञानयोगशुद्धिनामाऽधिकारः
. "यतो वाचो निवर्तन्ते, ह्यप्राप्य मनसा सह" ।
इतिश्रुतिरपि व्यक्त-मेतदर्थानुसारिणी ॥२.२०॥ यं- परब्रह्मात्मस्वरूपम्, अप्राप्य- विषयतया स्वसम्बद्धमकृत्वा मनसा सह वाचो निवर्तन्ते ।, यद् वाङ्मनोगोचरातीतमिति यावत् । इतिशब्दः शब्दस्वरूपपरः । तेन इतिश्रुतिः- एवंस्वरूपा श्रुति:वेदः, व्यक्तं- स्पष्टं यथा स्यात् तथा, एतदर्थानुसारिणी- परसंश्लिष्टरूपरहित-शुद्धात्मद्रव्यस्वरूपानुवादिनी ॥२.२०॥
अनालम्बनयोगदशापन्नज्ञानसहकारमन्तरेण केवलशास्त्रजज्ञानविषयत्वं न शुद्धात्मद्रव्यस्येति वचनगोचरातीतत्वं तस्य युक्तमेवेत्याह -
अतीन्द्रियं परं ब्रह्म, विशुद्धानुभवं विना । . शास्त्रयुक्तिशतेनाऽपि, नैव गम्यं कदाचन ॥२.२१॥
अतीन्द्रियमिति । अनेन च दृश्यत्वं तस्य न केनाऽप्यनुमतमित्यावेदितम् । परमिति । देहादिव्यतिरिक्ततया व्यवस्थितमित्यर्थः । तेन क्षीरोदकन्यायेन देहादिसम्भिन्नतया व्यवस्थितस्याऽऽत्मनस्तदात्मतया प्रत्यक्षत्वेऽपि न क्षतिः । ब्रह्म- केवलालोकस्वरूपेण विषयतया सर्वार्थव्यापकं चैतन्यम् ।
विशुद्धानुभवं विना- तन्मात्रावंगाहिशुद्धोपयोगरूप-निर्विकल्पकसमाधिदशापन्नानुभवमन्तरेण, शास्त्रयुक्तिशतेनाऽपि- शास्त्रोपदर्शितानल्पयुक्तिकदम्बकेनाऽपि, कदाचन- क्वचिदपि काले, नैव गम्यमवगमविषयों न भवत्येव ॥२.२१।।
"विशुद्धानुभवं विना शास्त्रगम्यं न ब्रह्मे"त्युक्तया विशुद्धानुभवसहकारेण ब्रह्मणः शास्त्रगम्यतोररीकृता । तामधिकृत्याऽऽह -
- केषां न कल्पनादर्वी, शास्त्रक्षीरानगाहिनी ।
.. विरलास्तद्रसास्वाद-विदोऽनुभवजिह्वया ॥२.२२॥ __ यथा क्षीराने माधुर्यविशेषः समस्ति । तमितस्ततस्तत्र व्याप्रियमाणाऽपि दर्वी न जानाति, किन्तु जिह्वेन्द्रियमेव तदनुभवसमर्थम् । तथा शास्त्रे स्थितमपि सर्ववस्तुसारभूतं परं ब्रह्म रस्यमानतयाऽमृतकल्पमुक्तिसुखात्मकं नैव तदनुभवविकलाः पण्डितम्मन्या अपि स्वस्वकल्पनात्मकयुक्तिशतेन शास्त्रार्थं परिभावयन्तोऽपि जानन्ति, किन्तु तदनुभववन्त एव द्वित्रा विद्वांसस्तद्ब्रह्मस्वरूपाभिन्नरसास्वादविदः । एतेन शास्त्रयोगस्याऽपि नाऽऽनर्थक्यमित्यावेदितं भवतीति ।।२.२२॥
निर्द्वन्द्वस्वरूपस्य ब्रह्मणः निर्द्वन्द्वानुभवसमुत्थानेनैव परम्परया लिप्यादिगोचरत्वं न तु साक्षात्, तेषां तदविषयकत्वादित्याह -
१. क्वचिद् "०मेतदर्थानुभाषिणी"ति पाठः । अर्थस्तु समान एव ।