________________
४०
अध्यात्मोपनिषत्प्रकरणम् वृत्तीनामनुवृत्तिस्तु, प्रयत्नात् प्रथमादपि ।
अदृष्टासकृदभ्यास-संस्कारसचिवाद् भवेत् ॥३॥" [ ] परः- निर्विकल्पकयोगः, अनालम्बन:- ध्येयस्वरूपव्यतिरिक्तध्यातृध्यानाविषयकः । अस्य च स्वरूपविश्रान्तिस्वरूपतामुपमया भावयति – छायाया इति । मुखाकारावभासरूपाया मुखकान्तेरित्यर्थः । दर्पणाभाव इति । मुखप्रतिबिम्बग्राहिस्वभाव-दर्पणादिस्वच्छद्रव्यरूपोपाध्यभावे सतीत्यर्थः । मुखविश्रान्तीति। बिम्बभूतमुखमात्रस्वरूपतेत्यर्थः । तत्सन्निभ:- तत्तुल्य: ॥२.१७।। निर्विकल्पकसमाधिस्वरूपशुद्धोपयोगलक्षणज्ञानावभातमेवाऽऽत्मस्वरूपं नाऽन्यादृशमित्येतत् प्रपञ्चयति -
यद् दृश्यं यच्च निर्वाच्यं, मननीयं च यद् भुवि ।
तद् रूपं परसंश्लिष्टं, न शुद्धद्रव्यलक्षणम् ॥२.१८॥ यद् दृश्यमिति । चक्षुरादीन्द्रियगोचरं यच्छरीरादीत्यर्थः । निर्वाच्यं- शब्देन वक्तुं शक्यं, शब्दजन्यबोधगोचरं यदिति यावत् । मननीयं- मनोजन्यज्ञानविषयम् । भुवीति लोकमात्रोपलक्षकम् ।
तद्रूपं परसंश्लिष्टमिति चक्षुरादिजन्यज्ञानस्य रूपादिप्रतिनियतगुणविशिष्टतयैव द्रव्यग्राहकत्वात्, शब्दजनितज्ञानस्य विशेषणविशेष्यभावालम्बनतयैवेतरपदार्थान्वितद्रव्यग्राहकत्वात्, मनोजन्यज्ञानस्याऽपि तत्तद्गुणाधुपादानेनैव द्रव्यमननात्मकत्वात्, परसम्बद्धमेव द्रव्यं दृश्यं निर्वाच्यं मननीयं च भवति । ततो न तस्य शुद्धद्रव्यस्वरूपलक्षणत्वम् । ततो विशेषणोपग्रहेण यदात्मविषयकं ज्ञानं, तद्वतो न ज्ञानमग्नत्वमना- . लम्बनयोगानाक्रान्तेरित्याशयः ॥२.१८।। यदि परसंश्लिष्टं रूपं न शुद्धात्मद्रव्यलक्षणं, तर्हि वक्तव्यं तल्लक्षणमित्यत आह -
अपदस्य पदं नाऽस्ती-त्युपक्रम्याऽऽगमें ततः ।।
उपाधिमात्रव्यावृत्त्या, प्रोक्तं शुद्धात्मलक्षणम् ॥२.१९॥ अपदस्य- शब्दागोचरस्य, पदं- प्रतिपादकशब्दः । अथवा पद्यते- ज्ञायतेऽनेनेति व्युत्पत्त्या पदंविशिष्टज्ञानजनकं प्रमाणं, ज्ञायते इत्यस्य विशिष्टज्ञानविषयीक्रियते इत्यर्थकत्वात् । न विद्यते विशिष्टज्ञानजनकं प्रमाणं यस्य शुद्धात्मद्रव्यस्य तदपदम् । तस्याऽपदस्य विशिष्टज्ञानजनकप्रमाणाविषयस्येति यावत् । पदंविशिष्टज्ञानम् । नाऽस्ति- न सम्भवति । शुद्धद्रव्यस्य सविकल्पकज्ञानविषयत्वासम्भवात् । इत्युपक्रम्यएवं प्रतिज्ञाय, आगमे- जैनप्रवचने, तत:- उक्तप्रतिज्ञानन्तरम् ।
उपाधिमात्रव्यावृत्त्या- परौपाधिकधर्ममात्रविधूननेन । शुद्धात्मलक्षणं- शुद्धात्मस्वरूपं यच्चैतन्यमानं तदात्मकं लक्षणं, प्रोक्तं- प्रकृष्टतयोपदर्शितम् ॥२.१९।।
परौपाधिकधर्ममात्रव्यावृत्त्या यदात्मस्वरूपं चैतन्यमानं तदेवाऽऽत्मद्रव्यस्य स्वरूपलक्षणमिति जैनप्रवचनप्रमितमर्थं परागमोऽपि संवदतीत्याह -
१. आचाराङ्गसूत्रम् - १.५.६.१७२-१७३.