________________
ज्ञानयोगशुद्धिनामाऽधिकारः
चिन्मात्रलक्षणेनाऽन्य- व्यतिरिक्तत्वमात्मनः । प्रतीयते, यदश्रान्तं, तदेव ज्ञानमुत्तमम् ॥२.१५॥
अन्यव्यतिरिक्तत्वं- देहादिबाह्यभिन्नत्वम् । अस्मदादीनामपि कदाचिच्चिन्मात्रस्वरूपतया प्रतीतिर स्त्यात्मनोऽन्यव्यवच्छेदेनेत्यत आह - अश्रान्तमिति । विरामविकलमुत्तरोत्तरानुवृत्तिमदित्यर्थः । तेनोत्तरकाले विरोधिज्ञानान्तराबाधितत्वादभ्रान्तमेव तदिति लभ्यते । तदेवेत्येवकारेणाऽतादृग्भूतस्य ज्ञानस्योत्तमत्वव्यवच्छेदः ॥२.१५॥
अस्यैव ज्ञानस्य शुभोपयोगरूपत्वे सविकल्पकसमाधित्वं शुद्धोपयोगरूपत्वे निर्विकल्पकसमाधित्व 'ज्ञानस्वरूपः सन् योग' इति निर्वचनलभ्यज्ञानयोगस्वरूपताऽस्य न न घटते इति न रूढिमात्रेणैवाऽत्र ज्ञानयोगशब्दप्रवृत्तिरित्याह -
शुभोपयोगरूपोऽयं, समाधिः सविकल्पकः । शुद्धोपयोगरूपस्तु, निर्विकल्पस्तदेकदृक् ॥२.१६॥
३९
शुभोपयोगरूपेऽस्मिन् ध्यातृध्येयध्यानाना' महं ध्याताऽयं ध्येय इदं च ध्यान' मित्येवं पृथगवभासस्तदाकारस्य समस्तीति सविकल्पकत्वम् । तत्र च न स्वरूपविश्रान्तिर्भेदावभासादिति न तल्लक्षणं सुखमेतदवस्थायाम् । किन्तु शुद्धोपयोगरूप एव ध्यातृध्येयध्यानानां पृथगनवभासान्निर्विकल्पकसमाधौ । तदानीं तदेकदृग् चिन्मात्रस्वरूपात्ममात्रावलम्बनावबोधो विगलितवेद्यान्तरान्तरायत्वात् स्वरूपविश्रान्तिलक्षणसुखस्वरूप इत्यभिसन्धिः ॥२.१६ ॥
सविकल्पक-निर्विकल्पकंसमाध्योर्वैलक्षण्यमुपदर्शयति -
आद्यः सालम्बनो नाम, योगोऽनालम्बनः परः ।
- छायाया दर्पणाभावे, मुखविश्रान्तिसन्निभः ॥२.१७॥
आद्य इति । सविकल्पकसमाधिरित्यर्थः । सालम्बन इति । ध्येयस्वरूपव्यतिरिक्ततया ध्यातृध्यानविषयकत्वमत्र सालम्बनत्वम् । तेन ज्ञानमात्रस्य सविषयकत्वेन निर्विकल्पकसमाधावपि ज्ञानस्य ध्येयस्वरूपालम्बनत्वेऽपि न क्षतिः ।
न च निर्विकल्पकसमाधौ वृत्तिमात्रनिरोधे न स्वरूपावभासलक्षणा वृत्ति: समस्तीति शङ्क्यम्; यतस्तमधिकृत्य परैरपीत्थं गीयते
“ध्यातृ-ध्याने परित्यज्य, क्रमाद् ध्येयैकगोचरम् । निवातदीपवच्चित्तं, समाधिरभिधीयते ॥ १ ॥
वृत्तयस्तु तदानीम- ज्ञात्वा अप्यात्मगोचराः । स्मरणादनुमीयन्ते, व्युत्थितस्य समुत्थितात् ॥२॥