________________
अध्यात्मोपनिषत्प्रकरणम् वाच्यं भवति । एतावता स्वरूपविश्रान्त्यभावलक्षणमात्मनोऽस्वस्थत्वमेव दुःखमित्यावेदितं भवतीत्यतस्तस्य पृथगनुपन्यासेऽपि न न्यूनत्वमिति बोध्यम् ॥२.११।। उक्तलक्षणमेव सुखदुःखस्वरूपं वचनान्तरेण स्पष्टयति -
सर्वं परवशं दुःखं, सर्वमात्मवशं सुखम् ।
एतदुक्तं समासेन, लक्षणं सुखदुःखयोः ॥२.१२॥ समासेन- सङ्केपेण । उत्तानार्थमन्यत् ॥२.१२।।
ननु स्वरूपविश्रान्तेरभावादस्मदादीनामिदानीन्तनानामेतत् सुखं स्वानुभवतो न वेद्यते इति तद् वक्तव्यं किमाकारम् ? वचनपथातीतं चेत् कथमवधारणीयम् ? साक्षात् तदुपदेष्टुमशक्यं चेद् येन सदृशमेतत् तदेवोच्यता मनेन सदृशमेत'दिति । न च स्वरूपत उपदर्शयितुं शक्यम् । नवा केनचिदुपमयोपलक्षयितुं शक्यम् । तथाऽप्यस्तीति श्रद्धामात्रगम्यमिदं स्यादित्यत आह -
ज्ञानमग्नस्य यच्छम, तद् वक्तुं नैव पार्यते ।
नोपमेयं प्रियाश्लेषै-र्नाऽपि तच्चन्दनद्रवैः ॥२.१३॥ स्वानुभववेद्यस्य तस्य यत्पुरुषविशेषनिष्ठत्वं सोऽपि ज्ञानमग्नः पुरुषधौरेयस्तद् वचनेन तन्मात्रप्रतिपाद केनोपदर्शयितुमशक्तः । किमुताऽन्येऽस्मदादयः ? निर्वस्तुमशक्यस्य तस्य निर्वचनाभावेऽपि न स्वरूपतोऽभावः । न हि दधिदुग्धमधुद्राक्षासितादीनां माधुर्यविशेषः परस्परविलक्षणतया वचनेन प्रतिपादयितुमशक्योऽपि न नाम न समस्ति । तादृगेवैतदपि । न चैतत्सदृशं वैषयिकं किमपि सुखं समस्ति, येनोपमीयेताऽपीदम् । न हि सर्वप्रकारेण सर्ववस्त्ववभासिन: केवलालोकस्य केनचित्प्रकाशकस्वभावेनोपमितत्वाभावेऽप्यभावस्तथैवेदमपीति भावः ।
शर्म- सुखम् । तत्- सुखम् । प्रियाश्लेषैः- प्रियाश्लेषजनितसुखविशेषैः । तत्- सुखम् । चन्दनद्रवैः- सम्पूर्णाङ्गोपाङ्गोपलिप्तचन्दनद्रवजनितसुखविशेषैः ॥२.१३॥ ज्ञानमग्नस्यैव भगवत्यादिप्रतिपादिततेजोलेश्याविवृद्धिरपि घटते इत्यतिशयमस्य प्रतिपादयति -
तेजोलेश्याविवृद्धिर्या, पर्यायक्रमवृद्धितः ।
भाषिता भगवत्यादौ, सेत्थम्भूतस्य युज्यते ॥२.१४॥ सा- तेजोलेश्याविवृद्धिः । इत्थंभूतस्य- ज्ञानमग्नस्य ॥२.१४।।
उपयोगलक्षणजीवभावान्यथाऽनुपपत्त्याऽस्मदादीनामपि सर्वदा किञ्चित् किञ्चिद्गोचरज्ञानमग्नता विद्यते, न तु शर्मविशेषस्तथोपलभ्यते । आत्मज्ञानमपि 'अहं सुखी, अहं दुःखी, अहं जानामि, उपलभेऽहं, द्वेष्मि अहम्, इच्छामि अहम्' इत्यादिकं वर्तते, न च मात्रयाऽपि शर्मविशेषावाप्तिरित्यतो यादृशज्ञानमग्नस्य शर्मविशेषस्तादृशं ज्ञानस्वरूपमुपदर्शयति -
१. व्याख्याप्रज्ञप्तिनामकं पञ्चमाङ्गमेव 'भगवती'तिपूज्यतासूचकशब्देनोच्यते । तत्रत्यं १४.९:५३७ सूत्रम् ।