________________
२०
अध्यात्मोपनिषत्प्रकरणम्
इत्थमापतन्तमपि स्याद्वादं यदि नाऽभ्युपगच्छेत्, प्रेक्षाकारित्वमेव तस्य हीयेत । तद्रक्षणार्थं तेन स्याद्वादोऽवश्यमेवाऽभ्युपेतव्यो, न तु प्रतिक्षेप्तव्य इति ॥१.४६।।
नैयायिको वैशेषिकश्च भुवि चित्ररूपमेकमनेकं चाऽभ्युपगच्छन्तौ स्याद्वादाभ्युपगन्तारावेव, न तु तत्प्रतिक्षेपकावित्याह -
चित्रमेकमनेकं च, रूपं प्रामाणिकं वदन् । .
योगो वैशेषिको वाऽपि, नाऽनेकान्तं प्रतिक्षिपेत् ॥१.४७॥ योगो- नैयायिकः । यद्यपि प्राचीननैयायिक-वैशेषिकाभ्यामेकमेव सप्तमं चित्ररूपमभ्युपगम्यते, न तु नाना; नवीननैयायिकैस्तु चित्ररूपमभ्युपगम्यत एव न, व्याप्यवृत्तिजातीयगुणानामव्याप्यवृत्तिविरोध इति प्राचीननियममनङ्गीकृत्य तैश्चित्रप्रतीतेर्नानारूपविषयकत्वस्यैवोररीकारात् । तथा चैकानेकस्वभावचित्ररूपाभ्युपगमस्तेषां नाऽस्त्येवेति कथं तदारोपणेन स्याद्वादावतारस्तत्र कान्त: ? तथापि अनुभवमुखप्रेक्षिणी यदि तौ स्यातां, तदा चित्ररूपस्यैकत्वमनेकत्वं च ताभ्यामवश्यमभ्युपेयम् । ..
तत्र प्राचीनैरेकत्वं तस्य स्वत एवाऽभ्युपगतमिति तत्साधनायासो न विधेयः । अनेकत्वं च तत्र नीलत्वादिजातिसमावेशादभ्युपेयम् । एकमेव चित्रं यथा नीलपीताद्यनेकावयवोपलम्भे सति चित्रतयाऽनुभूयते, तथा नीलावयवाद्येकैकोपलम्भे नीलत्वादिनाऽप्यनुभूयते । न च तत्राऽवयवरूपस्यैव तथाऽनुभवो, नाऽवयविरूपस्येति वाच्यम्; तथा सत्यवयविरूपाग्रहेऽवयविनश्चाक्षुषप्रत्यक्षं न स्यात् । न चाऽन्यदीयरूपेणैवाऽवयविनो ग्रहणं, तथा सति बाधकमन्तरेणैव तथाविधप्रतीतेन्तत्वाभ्युपगमो निर्निबन्धनः प्रसज्येत । न चाऽवयविप्रत्यक्षं तत्र न भवत्येवेति वाच्यम्; 'नील: पट' इत्यनुभवस्य स्वसाक्षिकस्य कदर्थनापत्तेस्तस्मान्नीलत्वादिजातिसमावेशादनेकत्वमपि चित्रस्याऽभ्युपगन्तव्यमेव; अन्यथा प्रमाणविषयत्वमेव तस्य न स्यादित्यभिसन्धानेनैव प्रामाणिकमिति विशेषणमुपात्तमिति बोध्यम् ॥१.४७॥ ___मीमांसकास्त्रयोऽपि गुरु-भट्ट-मुरारिमिश्राः स्याद्वादं न प्रतिक्षेप्तुं समर्थास्तेषां मतेऽपि स्याद्वादस्य प्रविष्टत्वात् । तत्र प्रभाकरस्य न स्याद्वादप्रतिक्षेप्तृत्वसम्भव इत्याह - .
प्रत्यक्षं मितिमात्रंशे, मेयांशे तद्विलक्षणम् । .
गुरुर्ज्ञानं वदन्नेकं, नाऽनेकान्तं प्रतिक्षिपेत् ॥१.४८॥ गुरुः- प्रभाकरः, ज्ञानं- ज्ञानसामान्यम्, एकं- एकस्वरूपम् । मितिमात्रंशे- मित्यंशे प्रमोशे स्वस्वरूपे, मात्रंशे प्रमात्रंशे, प्रत्यक्षं- प्रत्यक्षमेव, न तु परोक्षं, तेन प्रत्यक्षात्मकज्ञानस्य मेयांशे प्रत्यक्षत्वेऽपि न क्षतिः । मेयांशे- विषयांशे, तद्विलक्षणं- न प्रत्यक्षमेव, किन्तु किञ्चित् प्रत्यक्षं किञ्चिच्च परोक्षम् । इत्थं वदन् अनेकान्तं न प्रतिक्षिपेत् । यतः एकस्यैवाऽनुमित्यादिरूपज्ञानस्य मितिमात्रंशे
१. व्याप्यवृत्तित्वं सकलवृत्तित्वं तन्नाम स्वसमानाधिकरणाभावाप्रतियोगित्वम् ।