________________
शास्त्रयोगशुद्धिनामाऽधिकारः
१९
सङ्ख्यावतामग्रणीः साङ्ख्योऽपि यदा स्याद्वादं भङ्ग्यन्तरेणाऽभ्युपगच्छत्येव, न तु प्रतिक्षेप्तुं समर्थः, तदाऽन्येषां विदुषां का कथेत्याशयेनाऽऽह
-
इच्छन् प्रधानं सत्त्वाद्यै-विरुद्धैर्गुम्फितं गुणैः ।
साङ्ख्यः संङ्ख्यावतां मुख्यो, नाऽनेकान्तं प्रतिक्षिपेत् ॥१.४५ ॥
प्रधानं प्रकृतिं सत्त्वरजस्तमसां साम्यावस्थालक्षणाम् । सत्त्वाद्यैः सत्त्वरजस्तमोभिः | विरुद्धैः" सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः ।
गुरुवरणकमेव तमः प्रदीपवच्चाऽर्थतो वृत्तिः ॥" [साङ्ख्यकारिका-१३]
इतीश्वरकृष्णकांरिकया विरुद्धस्वभावत्वेन विरुद्धत्वं तेषां स्पष्टमेव । गुणैरन्यार्थेः । सत्त्वादीनां सङ्घातरूपत्वेनाऽसङ्घातरूपपुरुषार्थत्वं सङ्घातपरार्थत्वादित्यादिना साङ्ख्येनाऽनुमतम् । तेन द्रव्यरूपाणां तेषां द्रव्याश्रितत्वलक्षणगुणत्वाभावेऽपि न क्षतिः । गुम्फितमित्यनेन तादात्म्यमापन्नमित्यर्थो विवक्षितः । तथा च प्रधानस्य प्रधानत्वेन रूपेणैकत्वं, सत्त्वादिगुणरूपेणाऽनेकत्वमित्येवं स्याद्वादस्तत्र पदमादधात्येव । न च प्रधानत्वं सत्त्वरजस्तमोमयत्वमेवेत्यनेकत्वमेव तद्रूपेणाऽपि न त्वेकत्वमिति कुतस्तत्र स्याद्वादप्रवृत्तिरिति वाच्यम्; पञ्चविंशतितत्त्वपरिगणने प्रकृतेरेकतत्त्वतया परिगणनस्यैकत्वमन्तरेणा
ऽनुपपत्तेः ।
-
यद्यपि · साङ्ख्यमते पुरुषभिन्नस्य सर्वस्याऽपि तत्त्वस्य सत्त्वरजस्तमोगुणयोगित्वमिति तत्र सर्वत्र स्याद्वादोऽस्खलितप्रचार एव; तथापि तत्त्वान्तरस्याऽन्यदपि स्वरूपं, तत्र नाऽऽयासमन्तरा स्याद्वादप्रतिपत्ति: सुकरा, प्रधानस्य तु तदेव रूपमिति तत्राऽयत्नोपनत एव स्याद्वाद इति हृदयम् ॥१.४५॥
आकाराकारिणोरभेदमुपगच्छन्ननेकाकारमेकं चित्रज्ञानं स्वीकुर्वन् बौद्धोऽपि तत्र स्याद्वादमभ्युपगच्छत्येवेति सोऽपि कथं स्याद्वादापलापे प्रभुरित्याह
- विज्ञानस्यैकमाकारं, नानाकारकरम्बितम् ।
इच्छंस्ताथागतः प्राज्ञो, नाऽनेकान्तं प्रतिक्षिपेत् ॥१.४६ ॥
विज्ञानस्येति 'नीलपीते' इत्यादिसमूहालम्बनज्ञानस्येत्यर्थः । एकमाकारं स्वस्वरूपाश्रयणेनैकं स्वरूपम् । नानाकारेति नीलपीताद्यनेकाकारेत्यर्थः तेन करम्बितं- तादात्म्येन तद्युक्तम् । तन्मते आकारस्यैव ज्ञानग्राह्यत्वं, तादात्म्यमेव च ग्राह्य-ग्राहकयोः सम्बन्धः । तथा चाऽऽकारनानात्वाज्ज्ञानस्य नानात्वमपीत्यर्थः ।
तथागत: - बौद्धः । स चाऽत्र सौत्रान्तिको योगाचारश्च । वैभाषिकस्य तु निराकारज्ञानवाद एव । माध्यमिकस्य तु शून्यत्वमेव तत्त्वकाष्ठेति बोध्यम् । प्राज्ञ इत्यनेन प्रेक्षाकारित्वं तस्योट्टङ्कितम् । स
१. सङ्ख्यावतां - परीक्षकाणाम् । २. एतत्कथनस्य तात्पर्यावगमनार्थं दृश्यतां जैनतर्कभाषागता -ऽनुमानप्रकरणस्थसाध्यस्वरूपनिरूपणम् । ३. बौद्धमते बाह्यपदार्थमात्रस्याऽसत्त्वेन जायमानप्रतिभासस्योपपत्तये वासनोद्बोधितधीविशेषः तन्नाम ज्ञानाद्वैतं स्वीक्रियते । तत्र समूहालम्बनादिस्थले ज्ञानं ग्राहकतयैकस्वभावमपि ग्राह्यतयाऽनेकीभवतः स्वांशान् गृह्णदकमपीति ।