________________
अध्यात्मोपनिषत्प्रकरणम् अनिष्ठा- अविश्रान्तिः । एवं- व्यावहारिकनिर्णयानुसरणेन । नयसूक्ष्मेक्षिकाप्रान्ते- दर्शितदिशा सूक्ष्मविचारकाष्ठायाम् ॥१.४२।।
दर्शितानवस्थादोषमोषायाऽनेकान्ते अनेकान्त यद्याश्रयीभूतानेकान्तरूपस्तदाऽऽत्माश्रयः । यदि तत्परिहारायाऽनेकान्तोऽन्यस्तदा तत्राऽप्यनेकान्तस्तद्व्यापकत्वोपपत्तयेऽभ्युपगमनीयः । स यदि प्रथमानेकान्तरूपोऽनवस्थोच्छेदायाऽभिमतस्तदाऽन्योन्याश्रयः । तत्परीहारायाऽन्यस्य तृतीयानेकान्तस्याऽभ्युपगमे तत्राऽप्यनेकान्तः । स यदि प्रथमानेकान्तादिरूपस्तदा चक्रकमेवं तु तुर्यपञ्चमषष्ठाद्यनेकान्ताभ्युपगमे, यत्रैव प्रथमानेकान्ताद्यभ्युपगमे नाऽनवस्थोत्रासनं, तत्र चक्रकं संलग्नमेव । अपरापराभ्युपगमेऽनवस्था दुष्परिहरेति परोपदर्शितदोषकदम्बप्रतिक्षेपायाऽऽह -
आत्माश्रयादयोऽप्यत्र, सावकाशा न कहिचित् ।
ते हि प्रमाणसिद्धार्थात्, प्रकृत्यैव पराङ्मुखाः ॥१.४३॥ ..... अत्र- अनेकान्ते । यथा घटाभावे घटाभावोऽधिकरणीभूतस्वात्मक एव, प्रामाणिक्श्चाऽऽत्माश्रयो न दोषावहः । अतिरिक्तातिरिक्तानन्तघटाभावकल्पनापेक्षया स्वस्य स्ववृत्तिकल्पनं लाघवाय । एवमनेकान्तस्याऽनेकान्तवृत्तित्वग्राहकप्रमाणं लाघवानुगृहीतं स्वस्य स्ववृत्तित्वं विषयीकरोति । प्रामाणिकश्चाऽयमप्यात्माश्रयो न दोषायेति । एवं घटाभावे पटाभावः, तत्र च घटाभाव इत्येवमन्योन्याश्रयो न दोषावह इत्येवमनेकान्तद्वयाभ्युपगमेऽन्योन्याश्रयः प्रामाणिकत्वान्न दोषावह इत्याशयेनाऽऽह - ते हीति आत्माश्रयादयो यतः प्रमाणसिद्धार्थात्- प्रमाणसिद्धानेकान्ताद्यर्थात्, प्रकृत्यैव- स्वभावत एव पराङ्मुखा इति । ___ यद्यपि अनेकान्ते स्वात्मकानेकान्ताभ्युपगमे स्वस्य स्वापेक्षत्वलक्षण आत्माश्रयोऽस्त्येव, प्रामाणिकत्वे सत्यपि । तथा च तस्य कथं ततः पराङ्मुखत्वम् ? तथाप्यात्माश्रयादीनां दोषत्वमेव प्रकृतिः, प्रमाणेन तत्र दोषत्वस्याऽपाकरणे सन्तोऽप्यात्माश्रयादयो नाऽऽश्रयस्य दुष्टतामाधातुं समर्था इति तेषां सत्त्वमकिञ्चित्करमिति दोषतया ते तत्र न विद्यन्ते इति प्रकृत्या पराङ्मुखत्वं भवत्येवेत्याशयः ॥१.४३॥ ___लोका अपि स्याद्वादमनुभूतिपदमानयन्तो न स्याद्वादद्वेषिणः । परीक्षकाणां तु कथैव का ? इति लोकतोऽबाधितत्वं स्याद्वादस्य दर्शयति -
उत्पन्नं दधिभावेन, नष्टं दुग्धतया पयः ।
गोरसत्वात् स्थिरं जातं, स्याद्वादद्विड् जनोऽपि कः? ॥१.४४॥ एकस्मिन् वस्तुन्यपेक्षाभेदेनोत्पादव्ययध्रौव्याणि परस्परभिन्नस्वभावानि वर्तन्ते इति स्याद्वादस्यैष महिमा लोकस्याऽप्यनुभवगोचर इति न साधारणजनोऽपि स्याद्वादद्विडित्यर्थः । ___ अनेन चोत्पादव्ययध्रौव्यलक्षणं सत्त्वमेकत्र लक्ष्ये सङ्घटितमन्यत्राऽप्येतद्दृष्टान्तेनाऽनुगमनीयमिति सूचितं भवति । ततश्चैतल्लक्षणसत्त्वानुरोधात् सर्वत्र स्याद्वादोऽस्खलितप्रचार एवाऽवतिष्ठत इत्यप्यावेदितं भवतीति बोध्यम् ॥१.४४॥
१. वृत्त्यन्तरे इह एकस्मिन् धमिणि भेदाभेदादीनाश्रित्याऽऽत्माश्रयादयो दोषा तदपाकरणं च प्रदर्शितम् । तच्चिन्त्यं भवति, पूर्वतनश्लोके अनवस्थादोषनिराकरणस्याऽनेकान्तेऽनेकान्तस्य स्वीकरणापेक्षया दर्शितत्वात् । तस्मिन्नेव प्रकरणे श्लोकस्याऽस्य निरूपितत्वात् ।