________________
शास्त्रयोगशुद्धिनामाऽधिकारः
अव्याप्यवृत्तिधर्माणां, यथाऽवच्छेदकाश्रया । - नाऽपि ततः परावृत्ति-स्तत् किं नाऽत्र तथेक्ष्यते? ॥१.४०॥ अवच्छेदकाश्रया इत्यनन्तरं पूर्वपद्याकृष्टा निर्णीतिः सम्बध्यते । यथाऽव्याप्यवृत्तिधर्माणां कपिसंयोग-तदभावादीनामेकत्र वृक्षादौ अवच्छेदकाश्रया स्वस्वावच्छेदकनिबन्धना निर्णीतिः, 'शाखायां वृक्षे कपिसंयोग एव, मूले वृक्षे कपिसंयोगाभाव' इत्येवं निर्णयो भवति; नाऽपि ततः परावृत्तिः- निर्णीतितः परावृत्तिरनिर्णयो न भवति, नाऽपि 'मूले वृक्षः कपिसंयोगी, शाखायां वृक्षे कपिसंयोगाभाव' इत्येवमवच्छेदक परिवर्तनेन निर्णयो भवति; तत्- तस्मात्, अत्र- नित्यानित्याद्यनेकान्ते तथा- नियतस्वरूप-पररूपावच्छेदक निबन्धना निर्णीतिः स्वस्वानुभवभासमानवपुः किं नेक्ष्यते ? अपि तु ईक्ष्यते एवेत्यर्थः ॥१.४०।।
ननु 'शाखायां वृक्षे कपिसंयोगो वर्तते' इति प्रथमतो निर्णयेऽपि तस्य परावृत्तिर्दृश्यते 'न शाखायां किन्तु प्राचीदिक्व्यवस्थिततदैकदेशे', 'तत्राऽप्यमुकविभागे' इत्येवमवच्छेदकसङ्कोचनेन पूर्वपूर्वनिर्णयोपमर्दनेनाऽपरोऽपरो निर्णयः प्रादुर्भवन्नवलोक्यते । एवं जम्बूद्वीपे, तदैकदेशे भारते, पाटलिपुत्रेऽमुकस्मिन् प्रासादे, यावत् तत्कोणे देवदत्तो वर्तते इत्येवमवच्छेदकविकाससङ्कोचतो निर्णयपरावर्तनमनेकविधमुपलभ्यते इति रिक्तमिदमुच्यते नाऽपि ततः परावृत्तिरित्यत आह -
____ आगमान्त्यभेदं त-त्परावृत्तावपि स्फुटम् ।
. अभिप्रेताश्रयेणैवं, निर्णयो व्यवहारकः ॥१.४१॥ आनैगमान्त्यभेदमिति नैगमस्याऽन्त्यविशेषं यावदित्यर्थः । तत्परावृत्तावपि- निर्णयपरावृत्तावपि । व्यवहारकः- व्यवहारकारी व्यवहारप्रयोज्यो निर्णयोऽभिप्रेताश्रयेणैव भवति, न तु तस्य परावर्तनम् । तादृशनिर्णीतिरेवाऽत्र दृष्टान्ततयोपनिबद्धेति न कश्चिद् दोषः ॥१.४१॥
यावत्पर्यन्तमनेकान्ताश्रयणेन व्यवहार उपपद्यते तावदेवाऽनेकान्तोऽपेक्षणीयः, तत ऊर्ध्वमनेकान्तस्य भावेऽपि न तदुद्भावनं प्रयोजनाभावादादरणीयमित्यनेकान्तेऽनेकान्तस्तत्राऽप्यनेकान्त एवं तत्र तत्राऽपीत्येवमनेकान्तपरम्पराया अविश्रान्तावपि वस्तुस्थित्या तथाभावो बीजाङ्कुरवत् प्रामाणिकत्वान्न क्षतिकरः । ज्ञानानवस्था तु नाऽस्त्येव, यावताऽपेक्षितसिद्धिस्ततः परं ज्ञानपरम्पराननुसरणेनैव विश्रान्तेः सुलभत्वादित्याशयेनाऽऽह -
अनेकान्तेऽप्यनेकान्ता-दनिष्ठेवमपाकृता ।
नयसूक्ष्मेक्षिकाप्रान्ते, विश्रान्तेः सुलभत्वतः ॥१.४२॥ .... १. वृत्त्यन्तरे श्लोकस्याऽस्य पूर्वार्द्धस्य "आनैगमान्त्यभेदं- नैगमनयादारभ्यैवम्भूतनयपर्यन्तं परावृत्तावपि- प्रतिनयं . प्रतिनियतवस्तुस्वरूपधीपरिवर्तने सत्यपि तद्- वस्तुस्वरूपं स्फुट- स्पष्टमेव" इत्यर्थो दृश्यते । स च चिन्त्यः; "यथावच्छेदकाश्रयाऽव्याप्यवृत्तिधर्माणां निर्णीति"रिति सन्दर्भस्याऽस्मिन् श्लोकेऽनुवृत्तत्वात्, “नाऽपि ततः परावृत्तिः", "तत्परावृत्तावपि स्फुटम्" इति पङ्क्तिद्वयस्याऽन्योन्यापेक्षत्वात्, 'आनैगमान्त्यभेद'मितिपदस्य तादृशार्थपरकत्वस्य दुःशकत्वात्, वस्तुस्वरूपस्य पूर्वमनुपादानात् 'तत्'पदेन तदुल्लेखस्याऽसङ्गतत्वाच्च ।