________________
अध्यात्मोपनिषत्प्रकरणम् स्यादर्थाप्रतिसन्धानेन सप्तभङ्गीजन्यसमुच्चयबोधे विरोधभानावश्यम्भावेन संशयत्वमावश्यकमिति पराकूतमाशङ्क्य विरोधपरीहारार्थं स्यादर्थसङ्घटितमूर्तय एव धर्माः सप्तभङ्गीजन्यबोधे भासन्त इति कुतः संशयत्वावकाश इति समाधत्ते -
कथं विप्रतिषिद्धानां, न विरोधः समुच्चये? ।
अपेक्षाभेदतो हन्त!, कैव विप्रतिषिद्धता? ॥१.३७॥ विप्रतिषिद्धानाम्- अन्योन्यप्रतिपक्षरूपाणाम् । अवच्छेदकभेदमन्तरेण विरोधेऽपि, अवच्छेदकभेदेनैकत्र समावेशसम्भवान्न विरोधः । अवच्छेदकभेदश्चाऽत्र भासत एवेत्याह - अपेक्षाभेदत इति ।।१.३७।। अपेक्षाभेदेनैकत्र विरुद्धानेकसमावेशोऽन्यत्र दृष्टस्तथा प्रकृतेऽपीति नाऽदृष्टचरीयं स्याद्वादकल्पनेत्याह -
भिन्नापेक्षा यथैकत्र, पितृपुत्रादिकल्पना ।
नित्यानित्याद्यनेकान्त-स्तथैव न विरोत्स्यते ॥१.३८॥ . एकस्यैव पुरुषस्य 'पुत्रापेक्षया पितृत्वं, पित्रपेक्षया पुत्रत्वं, मातुलापेक्षया भागिनेयत्वं, भागिनेयापेक्षया मातुलत्व'मित्येवं नानाधर्मसमावेशो दृष्टस्तथा प्रकृतेऽप्यपेक्षाभेदेनैकत्र नित्यत्वानित्यत्वादिसमावेशसम्भवान्न विरोध इति । तथैव- भिन्नापेक्षात एव ॥१.३८॥
ननु भवतोऽभिप्रायेणाऽनेकान्तत्वस्य व्यापकत्वेन 'यदपि यस्य स्वरूपतयाऽभिमतं तंदपि तस्य पररूपं, यदपि च यस्य पररूपं तदपि तस्य स्वरूप'मिति 'स्वरूपापेक्षया सत्त्व'मित्युक्तौ पररूपस्याऽपि स्वरूपत्वात् तदपेक्षयाऽपि सत्त्वं प्राप्तम् । एवं 'पररूपापेक्षयाऽसत्त्व'मित्युक्तौ स्वरूपस्याऽपि पररूपत्वात् तदपेक्षयाऽप्यसत्त्वं प्राप्तम् । एवं चाऽमुकापेक्षयाऽसत्त्वमेव, अमुकापेक्षया सत्त्वमेवे'ति निर्णयः स्याद्वादे न स्यात् । ‘स्वरूपस्य स्वरूपत्वमेव, पररूपस्य पररूपत्वमेवे'त्यभ्युपगमे तु तत्रैवैकान्तस्य लब्धपदत्वेनाऽनेकान्तस्य सर्वव्यापकत्वं हीयेतेति शङ्कते -
... व्यापके सत्यनेकान्ते, स्वरूप-पररूपयोः ।
आनेकान्त्यान्न कुत्रापि, निर्णीतिरिति चेन्मतिः ॥१.३९॥ . अनेकान्त इति भावप्रधाननिर्देशादनेकान्तत्वे व्यापके सतीत्यर्थः । तादात्म्येन वा व्यापकत्वमभिमतम् । आनेकान्त्यात्- अनेकान्तत्वात् ॥१.३९||
कस्यचित् स्वरूपत्वं कस्यचित् पररूपत्वमित्यप्यपेक्षयैवोच्यते । यस्य यदपेक्षया स्वरूपत्वं तस्य तदपेक्षया स्वरूपत्वमेव । यस्य यदपेक्षया पररूपत्वं तस्य तदपेक्षया पररूपत्वमेव । न चैवमेकान्तप्रवेशः । स्वरूपस्याऽप्यन्यापेक्षया पररूपत्वस्य, पररूपस्याऽपि चाऽन्यापेक्षया स्वरूपत्वाभ्युपगमात् । न चैवमनिर्णयः । यदपेक्षया स्वरूपत्वं तदपेक्षयैव स्वरूपस्य सत्त्वावच्छेदकतयाऽभ्युपगमाद्, यदपेक्षया पररूपत्वं तदपेक्षयैव पररूपस्याऽसत्त्वावच्छेदकतयाऽभ्युपगमादिति न पररूपस्य सत्त्वावच्छेदकत्वप्राप्तिर्नाऽपि स्वरूपस्याऽसत्त्वावच्छेदकत्वप्राप्तिरित्याशयेन समाधत्ते -