________________
शास्त्रयोगशुद्धिनामाऽधिकारः
१५ द्वयोः प्रत्येकमेकत्वबुद्धेर्व्यावहारिकं प्रामाण्यं सम्भवति । वस्तुनि वस्त्वंशबुद्धेस्तु वस्तुविषयत्वलक्षणपारमार्थिकप्रामाण्यलक्षणवैकल्यान्न प्रामाण्यं, किन्तु वस्त्वंशविषयकत्वलक्षणनयत्वमेवेत्याह -
एकदेशेन चैकत्व-धीर्द्वयोः स्याद् यथा प्रमा ।
तथा वस्तुनि वस्त्वंश-बुद्धिर्जेया नयात्मिका ॥१.३४॥ यथा चैको नय एकमेव वस्त्वंशमेकत्वमनेकत्वं वा नित्यत्वमनित्यत्वं वा सत्त्वमसत्त्वं वाऽवगाहते, न तु विरुद्धद्वयं; तदैकस्मिन् विरुद्धनानाधर्मावगाहिज्ञानत्वलक्षणस्य तत्राऽभावान्नाऽस्त्येव संशयत्वम् । तथा च तत्र संशयत्वोक्तिः परेषामज्ञानमूलिकैवेत्याह -
इत्थं च संशयत्वं य-नयानां भाषते परः ।
तदपास्तं द्वयालम्बः, प्रत्येकं न नयेषु यत् ॥१.३५॥ इत्थं चेति एकदेशबुद्धेर्नयत्वे चेत्यर्थः । द्वयालम्ब इति । नहि नयाः सर्वेऽप्येकीभूताः, किन्त्वेकनयज्ञानानन्तरं विलम्बेनाऽन्यनयज्ञानम् । किञ्च प्रत्येकं नयेषु द्वयालम्ब:- मिथोविरुद्धधर्मद्वयग्राहिताऽपि न । तथा च यत्रैकत्वविषयकत्वं, न तत्राऽनेकत्वविषयकत्वम् । न च नयसमुदायलक्षण एको नयः समस्ति, यत्रोभयविषयकत्वसम्भवतः संशयलक्षणघटना संभाव्येताऽपि । प्रत्येकं तु नयेषु प्रतिनियतविषयकत्वमेव, न तु विरुद्धधर्मद्वयविषयकत्वमित्याह - प्रत्येकमिति ॥१.३५॥ . ननु परो यथावत्रयस्वरूपानभिज्ञो दीधितिकारादिः "सप्तभङ्गीनयो न प्रमाण"मित्येवमवोचत् । तथा च तेन सप्तभङ्गीवाक्यजन्यबोधस्यैव नयत्वमभ्युपगम्य तस्य संशयत्वमापादितम् । तत्र च विरुद्धधर्मद्वयविषयकत्वेन संशयलक्षणमादधात्येव पदमित्यत आह -
सामग्येण द्वयालम्बे-ऽप्यविरोधे समुच्चयः ।
विरोधे दुर्नयवाताः, स्वशस्त्रेण स्वयं हताः ॥१.३६॥ अविरोधे- स्यात्पदेनाऽपेक्षाभेदाश्रयणेन कृतविरोधपरीहारे सति, तज्ज्ञानं समुच्चयः- समूहालम्बनमेव । विरोधाप्रतिभासनात्तु संशयत्वं तस्य न सम्भवतीत्यर्थः । संशये विरोधभानपक्षे - संशयेऽपि प्रकारताद्वयनिरूपितं विशेष्यताद्वयं समुच्चयेऽपि च, परं संशये प्रकारविशेषणतया विरोधोऽधिको भासते, समुच्चये तु न तथा । विरोधाभानपक्षे तु - संशयनिरूपितविशेष्यत्वयोरवच्छेद्यावच्छेदकभावः, समुच्चये तु नैवम्, एकत्र द्वयमिति रीत्या ज्ञाने तु प्रकारताद्वयनिरूपिता विशेष्यता एकैवेति विवेकः । . ___ स्यात्पदेन चाऽविरोधद्योतनेऽवच्छेदकभेदेन धर्माणां वृत्त्यवद्योतने वा, तज्जनितज्ञानस्य न विरोधावगाहित्वं नवा प्रकारद्वयनिरूपितविशेष्यत्वयोरवच्छेद्यावच्छेदकभाव इति कुतः संशयत्वमिति भावः ।।
स्यादर्थानुल्लेखे तु विरोधभानावश्यम्भावे'ऽस्त्येव नाऽस्त्येवे'त्येवंप्रकारेण जायमानानां ज्ञानानां नैकत्वमिति दुर्नयव्राता एव ते स्वस्वशस्त्रप्रतिहन्यमाना नाऽत्राऽधिकृता इति ते बोधाः संशयरूपा अपि न भवन्ति, न वा भिन्नाः सन्तः समुच्चयरूपाः, किन्तु विपर्यया एवेत्याह - विरोध इति ॥१.३६।।