________________
अध्यात्मोपनिषत्प्रकरणम् अविनाशित्व-विनाशित्वाभ्यामविकृतत्व-विकृतत्वाभ्यां च स्याद्वादः सिद्ध्यतीत्याह -
अक्षयश्चाऽव्ययश्चाऽस्मि, प्रदेशार्थविचारतः ।
अनेकभूतभावात्मा, पर्यायार्थपरिग्रहात् ॥१.३१॥ यद्यप्यक्षया-ऽव्ययौ समानार्थकावेव, तथाप्येकस्याऽविनाश्यर्थकत्वं द्वितीयस्याऽविकारार्थकत्वं चाऽऽश्रित्य भेदेनोपन्यासः ।
कथं देवमनुष्यादिभवभावे तत्तत्पूर्वपूर्वरूपेण विनाशस्योत्तरोत्तररूपेण परिणामलक्षणविकारस्य सद्भावेऽप्यक्षयत्वमव्ययत्वं तत्र घटत इत्यत आह - प्रदेशार्थविचारत इति । आत्मनो यावन्तः प्रदेशास्तेऽन्यूनाधिकभावेनैव सर्वदाऽवतिष्ठन्ते इति तद्रूपात्मविचारतोऽक्षयत्वा-ऽव्ययत्वे आत्मनि स्त इति द्रव्यार्थिक एवाऽयं विचारः ।
तिर्यग्मनुष्यदेवनारकरूपेण बालाद्यवस्थाभेदलक्षणेन च पर्यायेण पूर्वपूर्वमुपमृद्योत्तरोत्तरभावतापत्तिलक्षणभवनयोगिना क्षयित्व-व्ययित्वे अपि स्त इत्याह - अनेकेति । पर्यायार्थपरिग्रहात्- पर्यायार्थनयाश्रयात् ॥१.३१॥
ननु सङ्ग्रहनये आत्मन एकत्वमेव, नैगमादिनये चाऽनेकत्वमेवेति तत्तन्नयाश्रितविचारपराभूताऽनेकान्तदृष्टिर्न वस्तुव्यवस्थापनायाऽलमित्युपेक्ष्य एवाऽयं स्याद्वाद इत्यत आह -
द्वयोरेकत्वबुद्धयाऽपि, यथा द्वित्वं न गच्छति । ...
नयैकान्तधियाऽप्येव-मनेकान्तो न गच्छति ॥१.३२॥ - ___ तथा च दृष्टान्ते यथैकत्वबुद्धिर्धमात्मिका न वस्तुव्यवस्थितद्वित्वप्रतिक्षेपिका, तथा दार्टान्तिकेऽपि एकान्तबुद्धिरवस्तुविषयकत्वेन प्रमानात्मिका सती न प्रमात्मकज्ञानविषयीकृतस्याऽनेकान्तस्य प्रतिक्षेपिकेति नैकान्तबुद्ध्याऽनेकान्तबुद्धेः परिभव इत्याशयः ॥१.३२॥ . . , एकत्वबुद्धि-नयबुद्ध्योः प्रमात्वाभावेन साम्यमुपदर्शयति -
सामग्र्येण न मानं स्याद्, द्वयोरेकत्वधीर्यथा ।
तथा वस्तुनि वस्त्वंश-बुद्धिर्जेया नयात्मिका ॥१.३३॥ सामग्येणेति द्वित्वावच्छेदेनेत्यर्थः । तेन द्वयोः प्रत्येकमेकत्वेन प्रत्येकावच्छेदेनैकत्वबुद्धेः प्रमात्वेऽपि न क्षतिः । एतच्चाऽग्रिमपद्येन व्यक्तीभविष्यति ॥१.३३।।
यथा च द्वयोः प्रत्येकमेकत्वेनैकत्वबुद्धेर्न विषयालाभः, तथा वस्तुन्यप्येकत्वा-ऽनेकत्वाद्यनन्तधर्मात्मकें ऽशतया व्यवस्थितस्यैकत्वादेर्भावेन न तद्बुद्धेविषयालाभः । परं 'तद्वति तत्प्रकारकत्व'लक्षणसद्भावाद्
१. यथा द्वयोर्वस्तुनोः 'अयमेकः अयं चैक' इत्येवमेकत्वबुद्ध्याऽपि अपेक्षाबुद्धिजनितं द्वित्वं न गच्छति, तादृशैकत्वबुद्ध्यास्तदविरोधित्वात; तथैव एकान्तगोचरसुनयमत्याऽपि प्रमाणसम्पादितोऽनेकान्तो न गच्छति, आपेक्षिकैकान्तगोचरनयधियः प्रमाणाबाधकत्वादित्थमष्यस्य श्लोकस्याऽर्थसङ्गतिः शक्या ।