________________
१३
शास्त्रयोगशुद्धिनामाऽधिकारः
सावद्यस्य कर्मणो न चित्तशोधकत्वमपि तु निरवद्यस्यैव कर्मण इति हिंसायज्ञस्य चित्तशोधकत्वाभावाद् ब्रह्मयज्ञत्वं सम्भावनास्पदमपि नेत्याशयेनाऽऽह -
कर्मणां निरवद्यानां, चित्तशोधकता परम् ।.
साख्याचार्या अपीच्छन्ती-त्यास्ताभेषोऽत्र विस्तरः ॥१.२८॥ तापशुद्धि लक्षयति -
यत्र सर्वनयालम्बि-विचारप्रबलाग्निना ।
तात्पर्यश्यामिका न स्यात्, तच्छास्त्रं तापशुद्धिमत् ॥१.२९॥ तात्पर्यश्यामिका- तात्पर्यापरिशुद्धिः । उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गैर्यत्रार्थे तात्पर्यमुन्नीयते, तद्विषयकत्वेन तात्पर्यव्यवस्थापने यद्यपसिद्धान्तादिदोषोपनिपात: स्यात्, तदा तात्पर्यापरिशुद्धिर्भवेत् । सा यत्र सर्वनयावलम्बिविचारप्रबलाग्निना न भवति, तच्छास्त्रं तात्पर्यपरिशुद्धं तापशुद्धिमदित्यर्थः ॥१.२९।। उक्ता तापशुद्धिरपि जैनागमे समस्तीत्याह -
यथाऽऽह सोमिलप्रश्ने, जिनः स्याद्वादसिद्धये । . द्रव्यार्थादहमेकोऽस्मि, दृग्ज्ञानार्थादुभावपि ॥१.३०॥ . इंग्ज्ञानार्थादिति । उपयोगलक्षणो जीवः । उपयोगश्च सामान्योपयोगो विशेषोपयोगश्च । सामान्योपयोगश्च दर्शनं, विशेषोपयोगश्च ज्ञानमित्येवमुपयोगद्वैविध्येन तद्रूपस्य जीवस्य द्विरूपत्वमवगाहयत: पर्यायाथिकान्नयादित्यर्थः । उभावपि- द्वावप्यहम् ।
तथा. च विरुद्धयोरप्येकत्व-द्वित्वयोरपेक्षाभेदेनैकत्राऽऽत्मनि समावेशात् 'स्यादेक आत्मा, स्यादनेक आत्मे'ति भङ्गद्वयनिष्पत्तौ तयोः क्रम-युगपद्विवक्षया तृतीय-चतुर्थभङ्गनिष्पत्तौ तत्संयोजनया पञ्चमषष्ठ-सप्तमभङ्गानां निष्पत्तौ सप्तभङ्गीस्वरूपः स्याद्वादः सिद्ध्यत्येवेति भावः ॥१.३०।।
मतं न युक्तम् । यतः शत्रुवधानुकूलपापव्यापारफलकस्य श्येनयागस्य वेदोक्तत्वेऽपि प्रायश्चित्तोपदेशयोग्यमनर्थहेतुत्वं समस्त्येव । अतो वेदविहितत्वं हिंसादिदोषजन्यदुष्टतानिवारकं न भवति । ततः कर्मयज्ञस्य वेदोक्तत्वेऽपि नैव मनःशुद्धिद्वारा ब्रह्मज्ञानोपयोगित्वं तन्मूलकं वेदान्तविधिवाक्याङ्गत्वं च । प्रत्युत कर्मविधिषु तत्तत्कर्माधिकारिपुरुषविशेषसमर्पकत्वेन । वेदान्तवाक्यानां भिन्नात्मप्रतिपादकानां कर्मविधिशेषत्वमेवेति कर्मयज्ञस्य ब्रह्मयज्ञत्वप्रतिपादनं निरर्थकमेव । ततश्च तादृशदोषदुष्टकर्मयज्ञविधायकस्य वेदस्य च्छेदशुद्ध्यभाव एव ।
वृत्त्यन्तरे "भिन्नात्मदर्शकाः शेषा वेदान्ता एव कर्मण" इति वाक्यस्य द्विधाऽर्थसङ्गतिर्दर्शिता - १. कर्मणो भिन्ना आत्मदर्शका वेदान्ता शेषा:- वेदान्तविध्यङ्गभूता: २. कर्मविधेः सकाशात् शेषा:- अवशिष्टा वेदान्ता भिन्नात्मदर्शका:- कर्मविधिप्राप्यस्वर्गादिभिन्नात्मतत्त्वप्रदर्शकाः इति । प्रथमेऽर्थे वेदान्ता एव वेदान्तविधिशेषा इति ग्राह्यत्वापत्तिः, "भिन्ना' इत्यस्य 'कर्मण' इतिसापेक्षत्वेऽपि समासे 'सापेक्षमसमर्थम्' इति नियमभङ्गापत्तिश्च । द्वितीयस्याऽर्थस्य प्रकरणासाङ्गत्यं स्पष्टमेव । तदुभयापेक्षयाऽत्र दर्शितः "भिन्नात्मप्रतिपादकानि उपनिषद्वाक्यान्येव कर्मविधेः शेषाः" इत्यर्थः समीचीनतरः प्रतिभाति ।
१. जपादिनिरवद्यानुष्ठानेनैव मनःशुद्धिसम्भवे तदर्थं हिंसाबहुलयज्ञस्याऽनभिप्रेतत्वात् साङ्ख्यानाम् । २. भगवतीसूत्रम् - १८.१०.६४८