________________
अध्यात्मोपनिषत्प्रकरणम् निषिद्धस्य विधानेऽपि, हिंसादेर्भूतिकामिभिः ।
दाहस्येव न सद्वैद्यै-र्याति प्रकृतिदुष्टता ॥१.२४॥ प्रकृतिदुष्टता- हिंसात्वस्वभावप्रयोज्यानिष्टसाधनता, न याति- नाऽपगच्छति, निषेधशास्त्रस्याऽस चितत्वादिति भावः ॥१.२४॥ ___ स्वभावतो हिंसाया न दुष्टत्वं, किन्तु दुष्टाध्यवसायजनितत्वेनैव, यज्ञे तु शुद्धाध्यवसायजनितत्वात् सा न दुष्टेति शङ्कते -
हिंसा भावकृतो दोषो, दाहस्तु न तथेति चेत् ।
भूत्यर्थं तद्विधानेऽपि, भावदोषः कथं गतः? ॥१.२५॥ न तथा- न भावकृतो दोषः, किन्तु स्वभावत एव दुष्टः ।
भूत्यर्थं हिंसा भवत्वन्यार्थं वा, तया हिंस्यस्य प्राणिनोऽसह्यवेदना सम्भवत्येवेति परपीडाजनकत्वेन हिंसामात्रस्यैव भावदोषत्वम् । न तस्या यज्ञोपकारकत्वेऽपि भावदोषत्वविलयनमिति समाधत्ते - भूत्यर्थमिति । तद्विधानेऽपि- हिंसाविधानेऽपि । यज्ञकर्तुरपि दुष्टाध्यवसायस्तदानीं समस्त्येव, तमन्तरेण हिंसाफलकप्रवृतेरेवाऽसम्भवादिति भावः ॥१.२५।।
"ब्रह्मविचाराधिकारितासम्पत्तयेऽपेक्षिताया मनःशुद्धः कर्मयज्ञादेव भावेन, कर्मयज्ञस्य मनःशुद्धिद्वारा ब्रह्मज्ञानोपयोगित्वेन ब्रह्मयज्ञत्वमेव । ततश्चाऽस्य ब्रह्मज्ञानफलमुक्तिफलकत्वमेव । नाऽतः कर्मयज्ञसन्निविष्टहिंसाया अनर्थसाधनत्वमतस्तदतिरिक्तहिंसानिषेध एव निषेधशास्त्रविषयः । हिंसायास्तस्याः परपीडाजनकत्वेऽपि वेदोक्तत्वादेव न तत्कर्तुर्मनागपि मनोऽविशुद्धि"रिति वेदान्तिमतमपि न युक्तम् । तथा सति श्येनयागस्याऽपि मनःशुद्धिद्वारा ब्रह्मज्ञानाङ्गत्वेन ब्रह्मयज्ञत्वे तत्करणमप्यनाकुलं स्यादिति तत्कर्तुः प्रायश्चित्तोपदेशोऽसमुपदेशः प्रसज्येतेत्याह -
वेदोक्तत्वान्मनःशुद्ध्या, कर्मयज्ञोऽपि योगिनः ।
ब्रह्मयज्ञ इतीच्छन्तः, श्येनयागं त्यजन्ति किम्? ॥१.२६॥ यदा च कर्मयज्ञो ब्रह्मज्ञानाङ्गं न भवति, तदा कर्मविधेर्वेदान्तविधिशेषत्वं दूरापेतमेवेत्याह -
वेदान्तविधिशेषत्व-मतः कर्मविधेर्हतम् ।
भिन्नात्मदर्शकाः शेषा, वेदान्ता एव कर्मणः ॥१.२७॥ प्रत्युत भिन्नात्मप्रतिपादकानामुपनिषद्वाक्यानामेव यज्ञाधिकारिपुरुषविशेषसमर्पकत्वेन कर्मविधिशेषत्वमित्याह - भिन्नात्मेति ॥१.२७।।
१. ब्रह्मज्ञानस्य फलं मुक्तिः । यज्ञादिरूपस्य कर्मयज्ञस्य मनःशुद्ध्या ब्रह्मज्ञानोपयोगित्वेन ब्रह्मयज्ञत्वम् । ततश्चाऽस्य ब्रह्मज्ञानफलभूतमुक्तिफलकत्वमेव । ततश्च कर्मयज्ञ-ब्रह्मज्ञानयोरेकार्थसाधकत्वेन कर्मयज्ञस्य उपनिषत्-प्रणीतविधिवाक्याङ्गत्वमेवेति तस्य हिंसादिजन्या दुष्टताऽपाकृता भवति । अतस्तत्प्रतिपादकस्य वेदस्य छेदशुद्धिमत्त्वं प्रमाणितं भवतीति वेदान्तिनां