________________
२१
शास्त्रयोगशुद्धिनामाऽधिकारः प्रत्यक्षत्वस्य विषयांशे च परोक्षत्वस्याऽभ्युपगमेन 'स्यात् प्रत्यक्षं, स्यात् परोक्ष'मित्येवं प्रत्यक्षत्वपरोक्षत्वाभ्यां स्याद्वादस्याऽवतारात् ।
यद्यपि प्राचीनप्राभाकरमते ज्ञानस्य स्वप्रकाशत्वं न स्वविषयकत्वं, स्वस्य स्वविषयत्वासम्भवात् । किन्तु यथा द्रव्यगुणकर्मस्वपरसत्तासम्बन्धात् सत्त्वं, तथा सत्तायामपरसत्ताभ्युपगमेऽविश्रान्तावनवस्था, क्वचिद् गत्वा विश्रान्तौ पूर्वसत्तया सत्त्वोपपादने चक्रकं, प्रथमसत्तायां द्वितीयसत्तया सत्त्वं, द्वितीयस्यां प्रथमसत्तया च सत्त्वमित्येवमभ्युपगमेऽन्योन्याश्रयः, स्वस्मिन् स्वसत्त्वाभ्युपगमेन सत्त्वोपपादने आत्माश्रय इति सत्ता स्वत एव सद्रूपा, न तु सत्तासम्बन्धात् । तथा ज्ञानातिरिक्तस्य सर्वस्य व्यवहारः स्वातिरिक्तज्ञानविषयत्वात्, ज्ञानस्य तु स्वातिरिक्तज्ञानविषयत्वेन व्यवहाराभ्युपगमे पूर्वदिशा चक्रकानवस्थान्योन्याश्रयापत्तिः, स्वविषयत्वेन तथाभ्युपगमे आत्माश्रय इति ज्ञानाविषयोऽपि ज्ञानं स्वत एव व्यवहारभाजनमित्येतावतैव परप्रकाशानपेक्षत्वात स्वप्रकाशतया व्यवहियते; तथापि नवीनप्राभाकरेरात्माश्रयस्य प्रामाणिकत्वेन दोषानावहत्वमुररीकृत्य स्वस्याऽपि स्वविषयत्वमुररीकृतम् ।
__ अत एव च त्रिपुटीप्रत्यक्षवादस्तत्र घटते । विषयांशे प्रत्यक्षत्वस्येन्द्रियसन्निकर्षप्रयोज्यताकत्वेन सम्भवेऽपि, ज्ञानांशे मात्रंशे च प्रत्यक्षत्वस्य न तथा सम्भवः । ज्ञानविषयत्वस्य प्रमातृविषयत्वस्य च सर्वज्ञानसाधारणत्वेन तत्रेन्द्रियसन्निकर्षप्रयोज्यत्वस्य व्यतिरेकव्यभिचारेणाऽसम्भवात् । किन्तु ज्ञानसामान्यसामग्रीप्रयोज्यविषयतावत्त्वेनैव तंदुभयांशे सर्वस्य ज्ञानस्य प्रत्यक्षत्वं परोक्षज्ञानान्यतमसामग्र्यप्रयोज्य विषयताकत्वेन विषयांशसाधारणेन तथोपपद्यत इति ध्येयम् ॥१.४८।।
भट्ट-मुरारिमिश्रयोरपि न स्याद्वादप्रतिक्षेप्तृत्वमित्याह - . . जातिव्यक्त्यात्मकं वस्तु, वदन्ननुभवोचितम् ।
भट्टो वाऽपि मुरारिर्वा, नाऽनेकान्तं प्रतिक्षिपेत् ॥१.४९॥ अभावस्याऽधिकरणात्मकतयैवाऽभ्युपगमेनाऽभावात्मा पदार्थो नाऽस्त्येव । ययोश्चाऽयुतसिद्धयोरवयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यक्त्योः समवायो नैयायिक-वैशेषिकाभ्यामनुमतस्तयोर्भेदाभेदात्मकस्वरूपसम्बन्ध एव मीमांसकाभिमत इति समवायोऽपि तन्मते नाऽस्ति । द्रव्याणां जातिमत्पदार्थस्य किञ्चिद्रूपेणैव व्यावृत्तिरिति नियमानङ्गीकारेण नित्यद्रव्याणां स्वत एव व्यावृत्तिसम्भवेन नित्यद्रव्यव्यावर्तकतया स्वतोव्यावृत्तस्वभावस्य विशेषस्याऽपि तन्मतेऽस्वीकारः । जातिश्च व्यक्त्या सह कथञ्चित्तादात्म्यलक्षणाऽविष्वग्भावसम्बन्धानुरोधात् भिन्ना भिन्नैवेत्यभिसन्धायोक्तं जातिव्यक्त्यात्मकमिति ।
वस्तुनो जातिव्यक्त्यात्मकत्वाभ्युपगमे किं मानमित्यपेक्षायामाह - अनुभवोचितमिति । अनुभूयत एव 'घटो घट' इत्यनुगतात्मना 'घटोऽयं न पट' इति व्यावृत्तात्मना च घटः । एवं पटादिरपीति अनुभव एव तथाभ्युपगमे परमं प्रमाणमित्याशयः । तथा च जात्यात्मना घटादिकं वस्त्वेकं व्यक्त्यात्मना त्वनेकमित्येवं स्याद्वादस्तत्र प्रविशन् कथं निरोद्धं शक्य इति ॥१.४९।।
शुद्धचैतन्यरूपस्य ब्रह्मणो बद्धत्वा-ऽबद्धत्वाभ्यामभ्युपगन्ता वेदान्त्यपि स्याद्वादकृतादर एव, न तु तत्प्रतिक्षेप्तेत्याह -