________________
८
यत अर्थानामिति विशेषोक्त्याऽर्यन्ते ज्ञानेन परिच्छिद्यन्त इत्यर्था अनन्तधर्मात्मकवस्तुस्वभावा एव विवक्ष्यन्ते, ते च सर्वेऽनन्तधर्मेषु मध्ये केषाञ्चिदैन्द्रियकत्वेऽपि केषाञ्चिदतीन्द्रियत्वेन तदात्मनाऽतीन्द्रिया एवेति न सांव्यवहारिकप्रत्यक्षादेस्तदवगाहकत्वमिति न तस्य कुत्राप्यनन्तधर्मात्मके वस्तुनि सम्पूर्णदृष्टित्वेनाऽध्यात्मभाजनत्वमित्याशयः ॥ १.९ ॥
ननु स्पष्टज्ञानस्यैव विशेषतस्तत्त्वसाक्षात्कारितया दृष्टित्वं घटते इति सम्पूर्णदृष्टित्वं केवलस्यैव नाऽन्यस्य कस्यचित्, केवलज्ञानातिरिक्तज्ञानमात्रस्याऽनन्तधर्मात्मना विशेषतस्तत्त्वसाक्षात्कारित्वाभावादितीदानीं केवलमेव केवलमध्यात्मभाजनं नाऽन्यदिति सर्वाऽपि पूर्वा प्रक्रिया व्युच्छिन्ना स्यादित्यत आह
अध्यात्मोपनिषत्प्रकरणम्
अन्तरा केवलज्ञानं, छद्मस्था: खल्वचक्षुषः । हस्तस्पर्शसमं शास्त्र - ज्ञानं तद्व्यवहारकृत् ॥१.१०॥
सत्यं, केवलज्ञानमेव परमार्थदृष्ट्याऽध्यात्मम् । 'उपयोगलक्षणो जीव' [ तत्त्वार्थ० - २.७] इत्यात्मलक्षणस्योपयोगस्य सर्वस्य वस्तुस्थित्या सर्वविषयकत्वस्वभावस्य केवलज्ञानरूपतैव । परं छद्मस्थावस्थानां सर्वथावरणक्षयाभावान्न तथा तत् प्रकटमित्यप्रकटावस्थितं तदेव क्षयोपशमविशेषतः केनचिदंशेन प्रकटितं मत्यादिज्ञानपर्यायमश्नुते ।
तत्र योऽस्य स्याद्वादविशदावलोकाख्यः पर्यायः तस्य सामान्यतोऽनन्तधर्मात्मकवस्त्ववभासित्वेन यथा केवलज्ञानसादृश्यं, तथा नाऽन्यस्य कस्यचिज्ज्ञानस्येति छद्मस्थावस्थायां तस्य सम्पूर्णदृष्टित्वेनाऽध्यात्मभाजनत्वमभिमतमिति न कश्चिद् दोषः ।
श्लोकार्थस्तु अन्तरा केवलज्ञानं - केवलज्ञानं विना, केवलज्ञानरूयचक्षुर्विकलत्वेनेत्यर्थः । छद्मस्थाः खल्वचक्षुषः- खलु - निश्चयेन पारमार्थिकदृष्ट्या, अवधारणार्थे वा खलुः, अचक्षुष एव अन्धा एव छद्मस्थाः । तथापि प्रतीतानामन्धानां यथा हस्तस्पर्शेन पदार्थपरिज्ञानाद् व्यवहार:, तथा शास्त्रज्ञानं हस्तस्पर्शकल्पं छद्मस्थव्यवहारकृद् भवतीति ॥१.१०।।
—
यतश्च शास्त्रज्ञानस्यैव छद्मस्थावस्थायां सम्पूर्णदृष्टित्वं तत एव तद्विकलस्य स्वकल्पनबुद्ध्या सम्यगीहमानस्याऽप्याचरणमनर्थायैवेति समयोक्तदृष्टान्तत: प्रक
-
शुद्धोञ्छाद्यपि शास्त्राज्ञा-निरपेक्षस्य नो हितम् । भौतहन्तुर्यथा तस्य, पदस्पर्शनिषेधनम् ॥१.११॥
ननु परकीयमपि शास्त्रं शास्त्रमेव । उपपत्तयश्च सूक्ष्मार्थधीनिधानैः परैराधीयमानास्तत्सहकारियो वर्तन्त एव । अतस्तज्जनितज्ञानमपि शास्त्रज्ञानत्वात् कुतो नाऽध्यात्मभाजनमित्यत आह
-
शासनात् त्राणशक्तेश्च, बुधैः शास्त्रं निरुच्यते ।
वचनं वीतरागस्य, तच्च नाऽन्यस्य कस्यचित् ॥ १.१२ ॥
१. शुद्धोञ्छादि- दोषमुक्तान्नपानाद्यासेवनम् । तद् गुणवदपि शास्त्राज्ञानिरपेक्षस्य तादृशशुद्धबोधविकलस्य जिनवचनोपेक्षारूपमहादोषोपहतत्वादहितकार्येव भवति ।