________________
शास्त्रयोगशुद्धिनामाऽधिकारः
ज्ञायेरन् हेतुवादेन, पदार्था यद्यतीन्द्रियाः । • कालेनैतावता प्राज्ञैः, कृतः स्यात् तेषु निश्चयः ॥१.८॥ तेषु- अतीन्द्रियार्थेषु ॥१.८॥
स्याद्वादविशदालोकस्यैव यथावदतीन्द्रियार्थप्रतिपादकत्वेनाऽर्थकारित्वं सयुक्तिकत्वेन च सम्पूर्णदृष्टिस्वभावत्वेन नयकृतभ्रान्तिराहित्यतो विश्रान्तिसम्मुखत्वतोऽनर्थाजनकत्वं चेत्यतोऽध्यात्मभाजनत्वमित्यावेदनायाऽऽह -
आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम् ।
अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ॥१.९॥ न च पूर्वं स्याद्वादावगमजन्यबोधस्याऽध्यात्मभाजनत्वमुपवर्णितम्, इदानीमागमोपपत्त्युभयजन्यावगमस्य तत्त्वमुपवर्ण्यत इति स्यात् सन्दर्भविरोध इति साम्प्रतम् । नयकृतभ्रान्तिराहित्य-विश्रान्तिसम्मुखत्वविशिष्टस्यैव तस्याऽध्यात्मभाजनत्वेन प्रतिपादितत्वात् तादृशविशेषणद्वयसाम्राज्यस्योपपत्त्युपेतागमजन्यज्ञान एव भावात् । ... ननु चतुर्दशरज्जुप्रमाणलोको धर्माधर्मद्वयपरिच्छिन्नशरीर इत्यादिरर्थः केवलागमगम्य एव । श्रुताविषयोऽप्यर्थः समस्ति, स चोपपत्तिमात्रनिर्णयक इति तत्र सम्पूर्णदृष्टित्वाभावप्रसङ्ग इति चेद्
मैवम्, ऊर्ध्वगमनैकस्वभावस्य जीवस्य मुक्तिदशायां यन्निबन्धनं सिद्धिशिलोपलक्षितप्रतिनियतदेशपर्यन्तमेव गमनं, तत्रैव स्थितिश्च, तत्परतश्च गमनाभाव-स्थित्यभावौ यदभावनिबन्धनौ, तयोर्गत्युपष्टम्भकस्थित्युपष्टम्भकव्यवस्थात एव लोकव्यवस्था । तत्र चोपपत्तिरपि प्रभवत्येव । क्वचिद् विशेषतस्तदस्फुरणं चर्मचक्षुषां तथाविधक्षयोपशमविशेषाभावादेव, नतूपपत्त्यभावात् । स्याद्वादोपदर्शितेषु बहुषु पदार्थेषु यथोपदर्शनं तथैवोपपत्तिसद्भावे, यत्रापि विशेषत उपपत्तिर्न परिस्फुरति, तत्राप्ययमर्थोऽनेन प्रकारेणोपपन्न एव, अनेनैव प्रकारेण
रेण प्रमाणभूतेन स्याद्वादेन दर्शितत्वात्, तथोभयसम्प्रतिपन्नपदार्थव'दित्येवं सामान्यत उपपत्तेस्तत्राप्युन्नयनात् । श्रुताविषयोऽप्यर्थः श्रुताविषयत्वेन रूपेणाऽऽगमप्रतिपाद्य एवेति प्रभवति तत्राप्यागम इति बोध्यम् ।
सद्भावेति यद्यप्यतीन्द्रियार्थप्रतिपत्तिः केवलेनाऽऽगमेन केवलया चोपपत्त्या सम्भाव्यते; तथाप्युत्पादव्ययध्रौव्यलक्षणं यत् सत्त्वं सद्भावः, तस्य प्रतिपत्तिरवधारणमतीन्द्रियाणामर्थानां प्रत्यक्षगोचरातिक्रान्तानामागमयुक्तिभ्यामेव सम्भवति ।
न चैवमतीन्द्रियार्थेषु आगमोपपत्त्योः सम्पूर्णदृष्टित्वाभ्युपगतौ सत्यामैन्द्रियकेष्वर्थेषु सांव्यवहारिकप्रत्यक्षादेरपि संपूर्णदृष्टिताऽभ्युपगता स्यादिति तस्याऽप्यध्यात्मभाजनत्वं प्रसक्तमिति वाच्यम्; ... १. श्रुतज्ञानाविषयीभूतः । २. जैनदर्शने इयं व्यवस्था- अतीन्द्रियपदार्थानां छद्मस्थबुद्ध्यविषयत्वादागमप्रामाण्यात्मकसर्वज्ञवचनग्राह्यत्वमेव, अतस्ते आगमवादान्तर्गताः । इन्द्रियग्राह्यपदार्थानां पुनः प्रत्यक्षानुमानादिविषयत्वाद् हेतुवादान्तर्गतत्वम्। आगमवादे आगमप्रामाण्यमेव प्रधानं, हेतुवादे तु युक्तिप्रचारस्यैव स्वीकरणीयत्वमिति प्रामाणिकी व्यवस्था । परमिदं तु ध्येयं यदियं पदार्थानामाद्यनिश्चयापेक्षयैव । यत आगमवादेऽपि तत्तत्पदार्थानां स्वरूपसमी-चीनत्वनिर्णयार्थं युक्तिप्रचारावकाशोऽस्त्येव । एवं युक्तिवादेऽपि चरमनिर्णयमुद्रा तु आगमप्रामाण्याधीनैवेति ।।