________________
अध्यात्मोपनिषत्प्रकरणम्
मनोवत्सो युक्तिगवी, मध्यस्थस्याऽनुधावति ।
तामाकर्षति पुच्छेन, तुच्छाग्रहमनःकपिः ॥१.६॥ अयं च -
"आग्रही बत निनीषति युक्ति, तत्र यत्र मतिरस्य निविष्टा ।
पक्षपातरहितस्य च युक्ति-यत्र तत्र मतिरेति निवेशम् ॥"[ ] इति प्राचीनपद्यानुवादी। एतदभिसन्धानेनैवोक्तं हरिभद्रसरिभिः -
"पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु ।
युक्तिमद् वचनं यस्य, तस्य कार्यः परिग्रहः ॥"[ ] अत्र कषच्छेदतापनिमित्ता एव युक्तयो युक्तिपदेन ग्राह्या, न तु तीर्थान्तरीयाणां परस्परोपमर्दप्रवृत्ता इति बोध्यम् ॥१.६|| कदाग्रहाकृष्टयुक्तीनामनर्थजनकत्वेन अर्थाप्रापकत्वेन च न विश्रान्तिसम्मुखत्वमित्युपदर्शयति -.
अनर्थायैव नाऽर्थाय, जातिप्रायाश्च युक्तयः ।
'हस्ती हन्तीति वचने, प्राप्ताप्राप्तविकल्पवत् ॥१.७॥ एवकारेणैव 'नाऽर्थाये'ति सिद्धे यत् पृथगुपादानं, तत् कासांचिद् युक्तीनां नाऽनर्थकारित्वं नाऽप्यर्थकारित्वं, तासामपि न विश्रान्तिसम्मुखत्वमित्युपदर्शनाय ।'
किं सर्वा एव युक्तय एवंविधा एव ? नेत्याह - जातिप्रायाश्चेति । असदुत्तरं जातिः, तत्प्रायास्तदात्मानस्तत्सदृशा वा युक्तयोऽनर्थकारिण्योऽर्थाप्रापिकाश्च । नाऽन्याः प्रमाणबलोपबृंहिता इत्यर्थः ।
यथा केनचिनिष्कपटहृदयेन नवीनार्थक नव'पदसङ्घटितं "नेपालादागतोऽयं नवकम्बलवा"नित्युक्तम् । अन्यश्च तस्याऽसत्यभाषित्वख्यापनाय वक्ति - "अस्य दरिद्रस्य कम्बलद्वयमपि न समस्ति, कुतो नवसङ्ख्यकाः कम्बला" इति वक्त्रनभिप्रेत-नवसङ्ख्यार्थकत्वं 'नव'पदस्य प्रकल्प्य सोल्लुण्ठवचनमित्याद्या वचनयुक्तयो जातिप्राया ग्राह्याः ।। ___ तत्राऽनर्थमात्रकारित्वे दृष्टान्तमाह - हस्तीति । प्राप्ताप्राप्तविकल्पवदिति आगच्छन्तं हस्तिनमवलोक्य तत्पथोपसर्पन्तं व्यवहारानभिज्ञं तार्किकं प्रति 'नैतन्मार्गेण त्वं गच्छे'रित्यभिप्रायेण कुशलाभिसन्धिना केनचिदुक्तं "हस्ती हन्ती"ति । पण्डितम्मन्यस्तु तार्किकः 'कथमेतद्वचनमात्रेणैवाऽहमपसरामी'त्यभिमानेन तद्वचनं यावद् विकल्पयति - "किं हस्ती प्राप्तं हन्ति अप्राप्तं वा ? प्राप्तस्य हनने स्वस्कन्धारूढं पालकमेव प्रथमं हन्यात्, अप्राप्तस्य हनने अप्राप्तमशेष"मिति; तावदेव समीपागतकरिकराक्रान्तचरणो यमसदनमुपगत इत्येतादृशविकल्पयुक्तेरनर्थमात्रकारित्वं सुप्रसिद्धमित्यर्थः ॥१.७।। ___ ननु तीर्थान्तरशास्त्रोपनीतसाधनज्ञानतोऽतीन्द्रियपरमाण्वाद्यर्थावबोधलक्षणफलस्य दर्शनेन तद्युक्तीनामर्थकारित्वमेव, न तदभाव इत्याक्षेपप्रतिविधानाय तत्रैवाऽर्थकारित्वाभावमुपपादयन् तत्र तद्युक्तीनामेव दृष्टान्तत्वमर्थत उपदर्शयति -