________________
शास्त्रयोगशुद्धिनामाऽधिकारः
स्यादिति च क्रियापदम् । अनेकान्तद्योतक' स्यादि'तिक्रियाप्रतिरूपकनिपातनरूप-स्यात्पदघटितमेव 'स्याद्विश्रान्तिसम्मुख' इति विशेषणपदमित्यपि कस्यचिद् विदुषोऽभिमतम् । तत्र - अनेकान्तत्वस्य वस्तुमात्रसमाश्रितत्वेऽनेकान्तेऽप्यनेकान्तत्वमभ्युपेयम्, अन्यथाऽनेकान्तस्यैकान्तत्वेन यथा भावस्तथा पदार्थान्तराणामपीत्येकान्तवाद एव कान्तः स्यात् । तथा चाऽनेकान्तेऽनेकान्तत्वर्मेकान्तत्वा-ऽनेकान्तत्वाभ्यामिति प्राप्तम्। तत्रैकान्तत्वमिति स्वीकृते तत्र यथैकान्तत्वं तथाऽन्यत्राऽप्येकान्तत्वं किमिति नाऽभ्युपेयम् ? । एवमनेकान्ते यदपरमनेकान्तत्वं तत्राऽप्यपरमनेकान्तत्वमेवं तत्राऽप्यनेकान्तत्वमित्यविश्राम एवेत्येवमनेकान्तवादिनः प्रति दोषमुपक्षिपत एकान्तवादिनः प्रति स्यादित्यनेकान्तप्रतिपादकेन या विश्रान्तिः अनेकान्तेऽपि स्यादनेकान्तत्वम्। सर्वथाऽनेकान्तत्वाभ्युपगमे स्यादेकान्तत्वापत्तिः । न चाऽनवस्था, तृतीयानेकान्तत्वस्य प्रथमानेकान्तत्वरूपत्वात्, तुर्यानेकान्तत्वस्य द्वितीयानेकान्तत्वरूपत्वात् इत्येवमविश्रान्तिरूपाऽनवस्थापरिहृतिः । पाक्षिकैकान्तत्वप्राप्तावपि तस्य स्यादर्थकिंवृत्तचिदर्थसमन्वितत्वेनैव व्यवस्थितिश्च । तया सम्मुखः प्रतिबोधनाप्रतिघसामर्थ्यवा नित्यर्थः ।
५
यथावत्तत्त्वावबोधविकलस्याऽसमग्रवस्तुविदुपो वा परवादिकृतपराजयभयाद् यथावत्तत्त्वासमर्थनभयाद् वा पराङ्मुखता भवति । नाऽयमेतादृश इत्यावेदनायाऽऽह - स्याद्वादविशदालोक इति । स्याद्वादेन विशदालोको विस्पष्टबोधो यस्य स तथेत्यर्थः ।
बद्यपि केवलज्ञानातिरिक्तज्ञानमात्रस्य क्षायोपशमिकत्वेन सावरणतया स्याद्वादजन्यस्याऽपि ज्ञानस्य सर्वथा स्पष्टत्वलक्षणं विशदत्वं नाऽस्ति; तथापि " स्याद्वाद - केवलज्ञाने सकलार्थावभासने " [ ] इति वचनात् स्याद्वादजन्यस्य ज्ञानस्य सकलार्थावभासित्वलक्षणं वैशद्यं समस्त्येवेति ।
अथवा एवम्भूतनयेन योगार्थविशेषस्याऽध्यात्मत्वं व्यवहारर्जुसूत्रनयाभ्यां रूढ्यर्थविशेषस्याऽध्यात्मत्वं प्रतिपाद्य प्रमाणेनाऽध्यात्मस्वरूपं प्रतिपादयति गलन्नयकृतभ्रान्तिरिति । अत्र स्याद्वादविशदालोक इत्यस्य स्याद्वादेन विशदालोक इति विग्रहश्रयणात् स्याद्वादजन्यो विशदावबोध इत्यर्थः । स एवेत्येवकारेण पूर्वोपदर्शितयोर्योगार्थ - रूढ्यर्थयोर्व्यवच्छेदः । अध्यात्मभाजनमित्यस्याऽध्यात्मपदप्रतिपाद्यमित्यर्थः । स्याद्वाद विशदालोकस्य गलन्नयकृतभ्रान्तित्वं विश्रान्तिसम्मुखत्वं च विशेषणं तीर्थान्तरीयशास्त्रजन्यविज्ञानाद् युक्तिमात्रप्रभविताद् ज्ञानाच्च वैलक्षण्यप्रतिपत्तये । तीर्थान्तरीयशास्त्रस्य नयप्रकृतिकत्वेन तज्जन्यज्ञाने नयकृतभ्रान्तित्वस्याऽवश्यंभावात् । युक्तीनां स्वस्वकल्पनाकोषसमुत्थितानां प्रमाणनिरपेक्षाणां जातिप्रायत्वेन तज्जनितज्ञानस्य विश्रान्तिसम्मुखत्वाभावात् । स्याद्वादविशदालोकस्य तु प्रतिनियतस्वस्वनिमित्तापेक्ष्यतत्तद्धर्मावगाहित्वेन, अन्यापादितदोषसमूहापोहप्रगल्भ - स्यादर्थसङ्घटितार्थविषयकत्वेन च नयकृतभ्रान्तिराहित्यस्य विश्रान्तिसम्मुखत्वस्य चाऽवश्यंभावात् ॥१.५॥
I
पक्षपातरहितैः स्याद्वादिभिराद्रियमाणा युक्तय एव सद्युक्तयः, तासां च प्रमाणोपष्टम्भकत्वेन तज्जनितज्ञानस्याऽध्यात्मत्वम् । अन्यतीर्थिकैश्च स्वस्वमतकदाग्रहाविष्टचित्तैर्बलवता संरम्भेण येन केन प्रकारेणाऽऽकृष्यमाणाश्च युक्तयः प्रमाणोपष्टम्भविकला युक्त्याभासा एव । तैश्च वस्तुतो नाऽर्थनिश्चय इति तज्जनितज्ञानस्य भ्रान्तिरूपत्वेन नाऽध्यात्मत्वमित्येतदेव प्रपञ्चत उपदर्शयति
-