________________
शास्त्रयोगशुद्धिनामाऽधिकारः ____ तथा च बुधाभिमतशास्त्रपदव्युत्पत्तिनिमित्तस्य वीतरागोक्तस्याद्वादागमे एव भावात् तदेव शास्त्रमतस्तज्जनितज्ञानस्यैवाऽध्यात्मत्वमिति भावः ॥१.१२।।
ननु स्वस्वमन्तव्यानुसारेण शासनं विधिनिषेधप्रपञ्चनेन त्राणशक्तिश्च परागमेष्वपि दृश्यत एव । तच्च शासनं परप्रतारणमेव, विधिनिषेधप्रपञ्चनमपि विसंस्थुलमेव, परीक्षकाणां तत्राऽनाश्वासादिति यदि तदेतत् सर्वं जिनवचनेऽपि समानमित्यत आह -
वीतरागोऽनृतं नैव, ब्रूयात् तद्रेत्वभावतः ।
यस्तद्वाक्येष्वनाश्वास-स्तन्महामोहजृम्भितम् ॥१.१३॥ अन्येषामागमप्रणेतृणां रागोपकरणसद्भावस्य परैरेव प्रपञ्चनान्न वीतरागत्वमतस्तद्वचने भवत्यन्यथाभाव सम्भावनयाऽनाश्वासः । अत एव परप्रतारणादिकमपि तत्र सम्भाव्यते । कषच्छेदतापशुद्ध्यादिविचारणायां नोपपद्यते कषशुद्ध्यादिस्तत्रेति परीक्षकाणामप्यनाश्वासस्तत्र सम्भवति । स्याद्वादागमप्रणेतुस्तु वीतरागत्वादेव नाऽनृतभाषित्वमिति युक्तं तत्र सम्यगनुशासनं, त्राणशक्तिश्च समीचीना, कषशुद्ध्यादयश्चाऽत्र समनुगताः । अतो न परीक्षकाणां मनागप्यनाश्वासः । कस्यचित्तु दुर्विदग्धस्याऽनाश्वासो महामोहविजृम्भितो भवन्नपि न प्राज्ञैरादरणीय इति । - तद्धत्वभावत:- अनृतवचनहेतो रागद्वेषमोहादेरभावात् । एवं सत्यपि तद्वाक्येषु- वीतरागवचनेषु योऽनाश्वास:- अश्रद्धानम् ॥१.१२|| - ननु तदेवाऽध्यात्मं भवितुमर्हति यदवाप्त्याऽभीष्टं प्रकृष्टं किञ्चित् स्यानिर्वाणसुखं वा । स्याद्वादविशदावलोकात्तु न किञ्चित् तथाविधमात्मनो भवति । तथापि तस्याऽध्यात्मत्वप्रकल्पनमाग्रहविजृम्भितमेवेत्यत आह -
शास्त्रे पुरस्कृते तस्माद्, वीतरागः पुरस्कृतः । ___पुरस्कृते पुनस्तस्मिन्, नियमात् सर्वसिद्धयः ॥१.१४॥
शास्त्रपुरस्कारस्तु - "शास्त्रमिदमेतदर्थसाक्षात्कारिरागद्वेषरहितपुरुषविशेषप्रणीतत्वेन प्रमाणम्, अर्थश्चाऽस्य प्रत्यक्षादिप्रमाणैरबाधित" इत्येवमवबुद्ध्याऽभ्युपेत्य च तद्विधिबोधितहिताचरणं तन्निषिद्धाहितानाचरणं च । एवंरूपेण पुरस्कृतं शास्त्रं तदैव स्याद्, यदि तत्प्रणेता वीतरागस्तदर्थानुष्ठानसमये हृदये स्मृत्या यथा वदधिरूढः स्यात् । एवं च वीतरागपुरस्कारस्तस्य स्वात्मनि सर्वथैक्यभावनया व्यवस्थापनम् । अस्य च पौन:पुन्येन प्रवृत्तौ प्रान्ते केवलज्ञानाविर्भावान्निखिलकर्मक्षयतोऽवश्यंभाविनी निराबाधानन्दमयी मुक्तिरानुपङ्गिन्यश्च सर्वसिद्धयः पुरस्तादाविर्भवन्तीति भवत्यभीष्टफलप्रत्यलत्वेनाऽध्यात्मत्वं स्याद्वादविशदालोकस्येति ।
अन्वयार्थस्तु - शास्त्रे पुरस्कृते सति तस्माच्छास्त्रपुरस्काराद् वीतरागस्तत्प्रणेता जिनः पुरस्कृतो भवति । तस्मिन् वीतरागे पुरस्कृते पुनर्नियमादवश्यम्भावतः सर्वसिद्धयो भवन्तीति ॥१.१४।।
'अमुमेव पुरस्कारं परमप्रकर्षमुपगतं योगस्य चरमसीम्नि व्यवस्थितं सिद्धिसाधनधौरेयतामाबिभ्राणं संज्ञाभेदेन परे योगस्वरूपावधारणकुशलाः परिकीर्तयन्ति । नाऽतोऽस्य सिद्धि प्रति पृथक्कारणताकल्पनगौरवबिभीषिकावकाश इत्याशयेनाऽऽह -