________________
१४
सन्त्यध्यात्मोपनिषत्प्रकरणस्य रहस्योद्घाटने समर्था एकाधिकाः संस्कृतवृत्तयः । लोकभाषायामस्य विवेचनानि तु ततोऽप्यधिकानि । तेषु सर्वेषु परमगुरु श्रीविजयने मिसूरिभि: (वि.सं. १९२९ - २००५) प्रणीतेयं वृत्तिरग्रिमा । न केवलमिदमेवाऽस्या महत्त्वं, प्रत्युत तटस्थतयाऽवलोकयामश्चेद् ग्रन्थग्रन्थिभेदनेऽस्या अनन्यसदृशं सामर्थ्यं स्फुटमवभासते । यद्यपि निश्चितिरस्या विद्वज्जनाधीना, तथाप्येतद्वृत्त्यवलोकनतोऽनेकश एतदधीतिनामपि नूतनोन्मेषदर्शनजन्य: प्रमोदसंस्पर्शस्तत्सूचकरोमोद्गमश्च भविष्यत इति निश्चप्रचम् ।
अद्यतनकाले वृत्तिविरचने द्वौ प्रवाहौ परिदृश्येते । एकतः शब्दार्थमात्रं प्रदर्श्यते, नान्यत् किमपि ( यद्यपि तद्रचयितारस्तु स्वेन मर्मोद्घाटनं कृतमित्येवोद्घोषयन्तीत्यन्यदेतत् ); अन्यतश्च ग्रन्थकारस्य चिकथयिषितानां सर्वत आच्छादकान्यावश्यकान्यनावश्यकानि वा शतशः सहस्रशो वोद्धरणानि निक्षिप्य, ग्रन्थान्तरस्थान् पदार्थान् यथाकथञ्चित् प्रसङ्गमुद्भाव्य यावच्छक्यमधिकाधिकमुद्धृत्य वा पाण्डित्यप्रदर्शनं विधीयते । वृत्तिरचनायाः प्राचीनपरीपाटी तु ततो भिन्ना । तत्राऽनावश्यकप्रस्तारा -ऽनिच्छनीयसङ्कोचाभ्यामुभाभ्यां वृत्तिः परिरक्ष्यते । ग्रन्थकारेणैवं किमर्थमुक्तं, किमर्थमेवं नेति ग्रन्थकारहृदये संप्रविश्याऽन्विष्यते । शब्दमर्यादामतिक्रम्य वाक्यद्वयमध्ये (between the lines) अन्तर्निहितं ग्रन्थकारमानसं प्रत्यक्षीक्रियते । ग्रन्थकारमहर्षीणां प्रतिपिपादयिषितानां प्रकटीचिकीर्षा, समुपन्यस्तानां भावानामसन्दिग्धं व्याचिख्यासा चैव वृत्तिविरचने चोदिका भवति । परमगुरुभिरस्या वृत्त्या विरचने इयं प्राचीनपरिपाटी सम्पूर्णतयाऽऽत्मसाद् विहिताऽस्ति । अद्यतनवृत्तिकारैरनया दृष्ट्याऽपीयं वृत्तिरवलोकनीयाऽस्तु ।
अथ सम्पादनकथा । परमगुरूणां श्रीविजयनेमिसूरीश्वराणां सूरिपदशताब्दवर्षे (सं. २०६४) गुरुचरणानां श्रीविजयशीलचन्द्रसूरीणां चित्तेऽध्यवसायः सञ्जातो यत् परमगुरूणां तच्छिष्यरत्नानां च प्रकाशितचराणां ग्रन्थानां पुनःप्रकाशनमप्रकाशितानां च प्रकटीकरणं कर्तव्यम्, अनेन परमगुरुभ्यो वास्तविकी कृतज्ञता. समर्पिता भवेत् । सोऽयमध्यवसायोऽग्रे सङ्कल्परूपेण परिणतः, देवगुरुधर्मकृपाबलेन शनै: शनै: 'शासनसम्राट् शताब्दीग्रन्थमाला' रूपेण क्रियान्वितो जातो जायमानश्चाऽस्ति । इदं प्रकाशनमपि तस्यैव सङ्कल्पस्य साकारीकरणस्याऽङ्गभूतम् ।
परं यथा भगवद्गीतायाः प्रारम्भो विषादयोगेन, अस्माकमपि प्रारम्भे तथैव जातम् । योजनाया अङ्गरूपेणाऽस्माभिः परमगुरु - तच्छिष्यवृन्दप्रणीतानां ग्रन्थानां सङ्ग्रहणमारब्धम् । अस्माकं पार्श्वे परमगुरूणां साहित्योपासनायाः सूचिस्त्वासीदेव । परं तत्रोल्लिखिता बहवो ग्रन्था न प्रकाशितचरा, न च तेषां हस्तलिखितप्रतीनामुपलब्धिः । किं कुर्याम ? यत्र यत्र सम्भावना तेषु सर्वेषु स्थानेषु सुसूक्ष्ममन्वेषणेऽपि यदैकस्यैव ग्रन्थस्य हस्तप्रतिर्लब्धा तदा नितरां खिन्ना अतिष्ठाम । कुत्र गतः स महानिधि: ? को वोत्तरदायी ? कुतो वाऽऽयति पुनस्तादृशरचनासम्भवः ? यदासीदस्मत्पार्श्वे तस्य मूल्यवत्तां दृष्ट्वैवाऽनुमातुं शक्यते स्म गतस्य मूल्यम् । हृदयदाही शल्यतुल्यो विपाको नाम किं तत् तदैव ज्ञातम् ।