________________
एवं वत्सरा व्यतीताः । वि.सं. २०६९ वर्षे कार्यान्तरव्याजेनाऽस्माभिरहम्मदाबादनगरस्थ-पांजरापोळस्थश्रीविजयनेमिसूरिज्ञानशालायां गन्तव्यमभवत् । तत्र केनचिद् हेतुना पुस्तकेषु सङ्गृह्यमानेषु पूर्वावलोकितायाः कोणस्थाया एकस्याः कपाटिकाया आकस्मिकतया महान् पत्रसङ्ग्रहो लब्धः । दर्शनादनावश्यकपत्रसङ्ग्रहरूपेण भासमाने तस्मिन् सूक्ष्मनिरीक्षणेनाऽनुपलभ्यमानाः सर्वेऽपि ग्रन्था लब्धाः । कुतस्ते पूर्वमदृष्टास्तत्राऽऽगतास्तद् दैवमेव जानीयात् । देवगुरुधर्मकृपा तत्र कारणमिति मन्यामहे । _. तत्र येऽप्रकाशिता ग्रन्थाः समुपलब्धास्तेष्वयमध्यात्मोपनिषत्प्रकरणवृत्तिग्रन्थः सर्वतो लघुकायः । अत एव नान्दीरूपेण तस्येदं प्रकाशनम् । इतः पूर्वमस्यां मालायां प्रकाशिताः सर्वेऽपि ग्रन्था प्रकाशितपूर्वा आसन् । अयं तु न तथेति प्रकाशनेऽधिक आनन्दः सर्वेषां मनसि । परमगुरूणां प्रतिभया मादशा बहवो लाभान्विता भविष्यन्तीति वार्ता कथं नाऽऽनन्दं जनयेत ?
अध्यात्मोपनिषत्प्रकरणस्याऽऽद्यानां त्रयाणामेवाऽधिकाराणामुपरि परमगुरुभिः प्रणीता वृत्तिः सम्प्राप्तेति तावत्येवाऽत्र प्रकाशिता । साम्यंयोगशुद्ध्यधिकारस्य सारल्यादिकारणत: परमगुरुभिस्तत्र वृत्तिरेव न रचितेत्यपि सम्भावना ।
परमगुरवः शास्त्रसर्जनकाले स्वयं न लिखन्ति स्म, किन्तु यथा कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्याणां विषये श्रूयते तथैव तेऽपि लेखयन्ति स्मेति लेखकानामनाभोगेन प्रमादेन वा केचिद् दोषा ग्रन्थे आपतेयुरेव । अत्र तादृशसम्भावमा यत्र यत्र भासिता तत्र तत्र गुरुचरणानां प्रबोधनमुपलभ्य प्रमार्जनं विहितम् । तथापि यदशुद्धं प्रतिभासेत तस्योत्तरदायित्वं सम्पादकस्यैव भवतीति तदर्थं क्षन्तव्योऽयं जनः, 'सूचनाझेऽपि । __ग्रन्थगतानां केषाञ्चित् पदार्थानां विवरणार्थं तुलनार्थं वा टिप्पण्यो विन्यस्ताः सन्ति । श्रीयशोविजयसूरिभिः (श्रीभुवनभानुसूरिसमुदायसत्कैः) विरचितया अध्यात्मोपनिषत्प्रकरणस्याऽध्यात्मवैशारदीवृत्या सह प्रस्तुतवृत्तेस्तुलनां विधाय यत्र यत्र किञ्चित् चिन्तनीयं प्रतिभातं तदपि तत्र तत्र टिप्पणीरूपेण योजितमस्ति ।
प्रान्ते मूलग्रन्थः, श्लोका नामकाराद्यनुक्रमः, उद्धरणसूचिः, वृत्तिगतविशिष्टविषयसूचिः - इत्यादि परिशिष्टरूपेण योजितमस्ति । ____ परमगुरूणामनुग्रहेण गुरुचरणानां प्रसादेन च सञ्जातस्य कार्यस्य कृते स्वं निमित्तीकर्तुं कार्तश्यमावहत्ययं तेषां वशंवदः ।
श्रीविजयशीलचन्द्रसूरि-शिष्यः मुनि-त्रैलोक्यमण्डनविजयः