________________
१३
"ज्ञाने चैव क्रियायां च युगपद्विहितादरः । द्रव्यभावविशुद्धः सन् प्रयात्येव परं पदम् ॥" [३.४२]
आत्मकृतकर्मणां विपाकोदयेनोपस्थितानां शुभाशुभनिमित्तानां विनैव रागद्वेषकालुष्यं निर्द्वन्द्वभावेन सहजतया स्वीकारः साम्यम् । सर्वास्वपि परिस्थितिष्वाकर्षणं विहलतां वाऽननुभूय स्वस्थतया तदर्शनं तत्र यदितिकर्तव्यतारूपेणाऽऽपतितं तस्य सम्पादनं च साम्यम् । परभावानामवशीभूय स्वभावे एव स्ववशतयाऽवस्थानं साम्यम् । एतादृशा साम्येन साकमात्मनो योजनमेव साम्ययोगः । तद्द्वारा सम्पादितांऽऽत्मशुद्धिरेव साम्ययोगशुद्धिः । सा यत्रोपवर्ण्यते स साम्ययोगशुद्ध्यधिकारः ।
वीतरागवचनेऽविचला श्रद्धा, तद्धेतुक आत्मानुभवः, वचनानुरूपा च विशुद्धतमाऽऽचरणाइत्येतेषामभावे समत्वप्राप्तिर्दुःशकैव । अत एव साम्ययोगसिद्धये शास्त्र-ज्ञान-क्रियात्मकयोगत्रितयस्याऽपि सिद्धिरावश्यकी । अथ च साम्ययोगसम्प्राप्त्यैव तेषां त्रयाणामपि योगानां साफल्यम् ।
वस्तुतः सूक्ष्मदृष्ट्या परिशील्यते चेत् चत्वारोऽपि योगाः परस्परं संवलिता एव । यत्रैकस्याऽपि सद्भावस्तत्राऽन्येषामपि त्रयाणामस्तित्वमवश्यंभावि । किं बहुना ? "को वा संसारमुक्तेरुपायः ?" इति तात्त्विकजिज्ञासाप्रादुर्भावात्मिकायामादिममार्गानुसारितारूपायामपुनर्बन्धकावस्थायामपि चतुर्णामपि योगानामांशिकसत्त्वमभिमतं योगीन्द्रैः । तथैव चाऽऽत्मशुद्धिपराकाष्ठारूपायामयोग्यवस्थायामपि चतुर्णां योगानां परिपाकरूप; प्रकर्षः प्रतिपादितस्तैः । तथा चाऽऽत्मशुद्ध्यर्थं विधीयमानाया अध्यात्मसाधनाया आरम्भतः समाप्तिपर्यन्तं सर्वास्वपि भूमिकासु चत्वारोऽपि योगा अनुस्यूता भवन्ति । तन्नाम साधको यावन्मितं शास्त्रयोगमवलम्ब्य यावन्तौ ज्ञानयोग-क्रियायोगावभ्यस्यति तावत्प्रमाणः साम्ययोगः प्रादुर्भवति, तावत्यात्मानन्दानुभूतिश्च । शास्त्रयोगवृद्धौ ज्ञान-क्रियायोगयोरपि वृद्धिस्तदनुपातेन साम्ययोग-चिदानन्दवृद्धिश्च । परमप्रकर्षमुपग़ते शास्त्रादियोगत्रितये परमसाम्ययोगप्रादुर्भाव: परमानन्दसम्प्राप्तिश्चेति । ___साम्ययोगशुद्धयधिकारे महोपाध्यायैर्मुख्यतोऽप्रमत्तसंयमाद्युपरितनगुणस्थानवर्ती साम्ययोगः, तज्जन्याऽऽनन्दानुभूतिः, तस्या बलवत्ता, साम्यस्य माहात्म्यं, साम्यादृते ज्ञानादियोगानामसाफल्यमित्यादयो विषयाः सरसपद्यैनिरूपिताः सन्ति । प्रान्तेऽतुलनीयसमताधारिणां नामग्राहं स्मरणादि विधाय ग्रन्थोऽयमपसंहृतोऽस्ति । ग्रन्थाध्ययनतः सम्पद्यमानस्तात्पर्यबोध एषः -
"दूरे स्वर्गसुखं मुक्तिपदवी सा दवीयसी ।
मनःसंनिहितं दृष्टं स्पष्टं तु समतासुखम् ॥" [अध्यात्मसार:-९.१३] . स्वर्ग-मोक्षसुखे नाऽस्माकं करतलगते, परं साम्यभावसम्प्राप्यं चित्तप्रमोदसुखं नैव दूरं, प्रत्युत मन:संनिहितम् । स्पष्टं चेदं स्वानुभवसिद्धत्वात् । ततस्तत्प्राप्त्यै सर्वथा सर्वदा सर्वत्र प्रयतनीयमिति ।