________________
१२
न पीठिकोपयोगः । तदिदं तत्त्वम् - शास्त्रदर्शितया दिशा गच्छन् शुद्धमतिः पथिक एव ज्ञानयोगस्वरूपानुभवज्ञानेनोत्तरोत्तरविकासशीलामवस्थां प्राप्नोति । तदुक्तं श्रीमद्भिः -
"अधिगत्याऽखिलं शब्दब्रह्म शास्त्रदृशा मुनिः ।
स्वसंवेद्यं परं ब्रह्माऽनुभवेनाऽधिगच्छति ॥" [२.२५] तथा च शास्त्रबोधमधिगत्यैव तदनुरूपप्रवृत्त्या संवेद्यमानानुभवधारातः परमब्रह्मसम्प्राप्तिरिति शास्त्रबोधस्य महत्त्वमव्याहतमिति । ननु किंस्वरूपोऽयं ज्ञानयोग इति चेदयं तत्स्वरूपलेशः - अनुभवज्ञानमेव ज्ञानयोगपदवाच्यम् । आत्मस्वरूपस्य बौद्धिकज्ञप्ति व ज्ञानयोगः, किन्त्वात्मनः स्वसंवेदनरूपमनुभवज्ञानमेव सः । देहात्मभेदाग्रहे निवर्तिते, कर्मजन्येषु पौद्गलिकभावेषु मामकीनत्वबुद्धेः प्रक्षये, स्वरूपानुसन्धाने च जाते सति जायमानाऽऽत्मनः सुखकर्यनुभूतिः प्रसन्नतासम्पादकमात्मगुणसंवेदनं वा ज्ञानयोगः । तस्य तारतम्येनाऽनेकभेदाः सम्भवन्ति । तत्र पारमार्थिकी ज्ञानयोगस्य शुद्धिः- परिपूर्णता केवलज्ञानसम्प्राप्तावेव । अत्र ग्रन्थे प्रवर्तमानस्याऽधिकारस्य क्रमापेक्षया द्वितीयस्य ज्ञानयोगशुद्धिनिमित्तत्वाद् ‘ज्ञानयोगशुद्ध्यधिकार' इत्यभिधानम् ।
__ अधिकारेऽत्र क्रमशो ज्ञानयोगस्य स्वरूपं माहात्म्यं तज्जन्यसुखं च प्रारम्भे वर्णितमस्ति । ततः परं परमोदासीनता, सविकल्प-निर्विकल्पसमाधी, चारित्रशुद्धिः, माध्यस्थ्यं, शास्त्ररसास्वादः, केवलज्ञानं, निर्लेपता, लीनता, अद्वैतं ब्रह्म, भावनाज्ञानमित्यादयो ज्ञानयोगसम्बन्धिनोऽनेके विषया उपवर्णिताः सन्ति । प्रान्ते ज्ञानयोगश्रवणाधिकारिता, तदर्थमाचारपालनस्याऽऽवश्यकता, ज्ञानयोगिनो ध्येयमित्यादि निरूप्य ज्ञानयोगप्ररूपणमुपसंहृतमस्ति ।
अनादिकालादारभ्य परभावेषु प्रवर्तमानाया वीर्यधाराया ज्ञानबलेन स्वभावे प्रवर्तनं, बाह्यभावेषु व्याप्रियमाणस्याऽऽत्मबलस्याऽन्तरङ्गदिशि प्रेरणम्, अनुचितप्रवृत्तिमवरुध्याऽऽन्तरशक्तेरुचितप्रवृत्तौ च क्रियान्वयनं क्रियायोगशुद्धिः । साऽत्रोपवर्ण्यते इत्यतोऽधिकारोऽयं क्रियायोगशुद्ध्यभिधानः ।।
स्याद्वादशैल्या विमृश्यते चेदात्मशुद्धौ ज्ञानयोग-क्रियायोगयोः सायुज्यकार्यकारणभावः । ज्ञानक्रिययोरेकतरस्यैव साधनामार्गे प्राधान्यमिति चिन्तनं दोषपूर्णमेव । यत आत्मविकासस्य यस्यां कस्यामपि भूमिकायां तदुभयं संवलितमेव तिष्ठति । अध्यात्मसाधनाया आरम्भबिन्दोरवधीकृत्य आ तत्सिद्धरुभावपि योगौ परस्परं पूरकौ भवतः । यत उभयोर्मध्ये परस्परं जन्यजनकभावसम्बन्धः, उभावपि परस्परं शुद्धिनिमित्तम् । उत्तरोत्तरोभयशुद्धिसम्पत्त्या चरमपरिपाकावस्थायामुभयोर्भेदच्छेदः, तन्नामैकीभवनमिति कुत एकतरस्याऽभावेऽन्यस्याऽपि स्वभावावस्थानम् ?
अधिकारेऽस्मिन् क्रियाया अध्यात्मत्वं, स्वच्छन्दाचारस्य ज्ञानविरोधित्वम्, एकान्तज्ञाननयस्य खण्डनं, क्रियाया भावशुद्धावुपकारकत्वं, क्रियाया मलनाशकत्वं, ज्ञानमात्रस्य कर्मनाशकत्वमननस्याऽसाङ्गत्यं, कर्मनाशे ज्ञानक्रिययोः समुच्चयवाद इत्यादयः क्रियायोगपुष्टिशुद्धिकारका अनेके विषया निरूपिताः सन्ति । प्रान्ते महोपाध्यायैः समग्राया अपि चर्चाया निष्कर्ष एवं प्रदर्शितः - .